संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २९

ब्रह्मपुराणम् - अध्यायः २९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ सूर्यपूजाप्रकारणम्
मुनय ऊचुः
श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यदुदाहृतम् ।
भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥१॥

न तृप्तिमधिगच्छामः श्रृण्वन्तः सुखदां कथाम् ।
तव वक्त्रोद्‌भवां पुण्यामादित्यस्याधनाशिनीम् ॥२॥

अतः परं सुरश्रेष्ठ ब्रूहि नो वदतांवर ।
देवपूजाफलं यच्च यच्च दानफलं प्रभो ॥३॥

प्रणिपाते नमस्कारे तदथा चैव प्रदक्षिणे ।
दीपधूपप्रदाने च सम्मार्ज्जविधौ च यत् ॥४॥

उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने ।
अर्घ्यश्च कीदृशः प्रोक्तः कुत्र वा संप्रदीयते ॥५॥

कथञ्च क्रियते भक्तिः कथं देवः प्रसीदति ।
एतत् सर्व्वं सुरश्रेष्ठ श्रोदुमिच्छामहे वयम् ॥६॥

ब्रह्मोवाच
आर्घ्यं पूजादिकं सर्व्वं भास्करस्य द्विजोत्तमाः ।
भक्तिं श्रद्धां समाधिञ्च कथ्यमानं निबोधत ॥७॥

मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्त्यते ।
ध्यानं समाधिरित्युक्तं श्रृमुध्वं सुसमाहिताः ॥८॥

तत्कथां श्रावयेद् यस्तु तद्‌भक्तान् पूजयीत वा ।
अग्निशुश्रूषकस्चैव स वै भक्तः सनातनः ॥९॥

तच्चित्त्स्तन्मनाश्चैव देवपूजारतः सदा ।
तत्कर्म्मकृद्‌भवेद् यस्तु स वै भक्तः सनातनः ॥१०॥

देवार्थे क्रियमाणानि यः कर्म्माण्यनुमन्यते ।
कीर्त्तनाद्वा परो विप्राः स वै भक्ततरो नरः ॥११॥

नाभ्यसूयेत तद्‌भक्तान् न निन्द्याच्चान्यदेवताम् ।
आदित्यव्रतचारी च स वै भक्ततरो नरः ॥१२॥

गच्छस्तिष्ठन् स्वपञ्जिघ्रन्नुन्मिषन्निमिषन्नपि ।
यः स्मरेद्‌भास्करं नित्यं स वै भक्ततरो नरः ॥१३॥

एवं विधा त्वियं भक्तिः सदा कार्य्या विजानता ।
भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥१४॥

क्रियते नियमो यस्तु दानं विप्राय दीयते ।
प्रतिगृह्‌णन्ति तं देवा मनुष्याः पितरस्तथा ॥१५॥

पत्रं पुष्पं फलं तोयं यद्‌भक्त्वया समुपाहृतम् ।
प्रतिगृह्णनति तद्देवा नास्तिकान् वर्ज्जयन्ति च ॥१६॥

भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता ।
भावशुद्ध्‌या क्रियते यत्तत् सर्व्वं सफलं भवेत् ॥१७॥

स्तुतिजप्योपहारेण पूजयापि विवस्वतः ।
उपवासेन भक्त्या वै सव्वपापैः प्रमममममुच्यते ॥१८॥

प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः ।
तत्क्षणात् सर्व्व्पापेभ्यो मुच्यते नात्र संशयः ॥१९॥

भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम् ।
प्रदक्षणीकृता तेन स्पतद्वीपा वसुन्धरा ॥२०॥

सूर्य्या मनसि यः कृत्वा कुर्य्याद्‌व्योमप्रदक्षिणाम् ।
प्रदक्षिमीकृतास्तेन सर्व्वे देवा भवन्ति हि ॥२१॥

एकाहारो नरो भूत्वा षष्ठ्यां योऽर्च्चयते रविम् ।
नियमव्रतचारी च भवेद्‌भक्तिसमन्वितः ॥२२॥

सप्तम्यां वा महाभागाः सोऽश्वमेधफलं तभेत् ।
अहोरात्रोपवासेन पूजयेद् यस्तु भस्करम् ॥२३॥

सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम् ।
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥२४॥

सर्व्वरत्नोपहारेण पूजयेद् यस्तु भास्करम् ।
पद्‌मप्रभेण यानेन यूर्य्यलोकं स गच्छति ॥२५॥

शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः ।
सर्व्वशुक्लोपहारेण पूजयेद् यस्तु भास्करम् ॥२६॥

सर्व्वपापविनिर्म्मक्तः सूर्य्यलोकं स गच्छति ।
अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत् ॥२७॥

क्रमवृद्‌ध्या चुतुर्व्विसमेकैक क्षपयेत् पुनः ।
द्वाभ्यां संवत्सराभ्यान्तु समाप्तनियमो भवेत् ॥२८॥

सर्व्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी ।
सुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥२९॥

सप्ती विजया नाम तत्र दत्तं महत् फलम् ।
स्नानं दानं तपो होम उपवासस्तथैव च ॥३०॥

सर्व्वं विजयसप्तम्यां महापातकनाशनम् ।
ये चादित्यदिने प्राप्ते श्राद्धं कुर्व्वन्ति मानवाः ॥३१॥

यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् ।
येषां धर्म्याः क्रियाः सर्व्वाः सदैवोद्दिश्य भास्करम् ॥३२॥

न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा ।
श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥३३॥

उपलेपनकर्त्ता तु चिन्तितं लभते फलम् ।
चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः ॥३४॥

पूजयेत् सोपवासो यः स कामानीप्सितांल्लभेत् ।
घृतेन प्रज्वाल्य तिलतैलेन वा पुनः ॥३५॥

आदित्यं पूजयेद्‌यस्तु चक्षुषा न स हीयते ।
दीपदाता नरो नित्यं ज्ञानदीपेन दीप्य ॥३६॥

तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम् ।
अग्निकार्य्ये च दीपे च महापातकनाशनम् ॥३७॥

दीपं ददाति यो नित्यं देवतायतनेषु च ।
चतुष्पथेषु रथ्यासु रूपवान् सुभागो भवेत् ॥३८॥

हविर्भिः प्रथमः कल्पो द्वितीयश्चोषधीरसैः ।
वसामेदोस्थिनिर्य्यासैर्न तु देयः कथञ्चन ॥३९॥

भवेदूद्‌र्ध्वगतिर्दोपो न कदाचादधोगतिः ।
दाता दीप्यति चाप्येवं न तिर्य्यग्गतिमाप्नुयात् ॥४०॥

ज्वलमानं सदा दीपं न हरेन्नापि नाशयेत् ।
दीपहर्त्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥४१॥

दीपदाता स्वर्गलोके दीपमालेव राजते ।
यः समालभते नित्यं कुङकुमागुरुचन्दनैः ॥४२॥

सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया ।
रक्तचन्दनसंमिश्रै रक्तपुष्पैः शुचिर्नरः ॥४३॥

उदयेऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत् ।
उदयात् परिवर्त्तेत यावदस्तमने स्थितः ॥४४॥

जपन्नभिमुखः किञ्चिनमन्त्रं स्तोत्रमथापि वा ।
आदित्यव्रतमेतत्तु महापातकनाशनम् ॥४५॥

अर्घ्येयण सहितञ्चैव सर्व्वं साङ्गं प्रदापयेत् ।
उदये श्रद्धया युक्तः सर्व्वपापैः प्रमुच्यते ॥४६॥

सुवर्मधेनवनडुवसुधावस्त्रसंयुतम् ।
अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥४७॥

अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैच च ।
प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः ॥४८॥

नापसव्यं न सव्यञ्च दद्यादभिमुखः सदा ।
सघृतं वापि रवेर्भक्तिसमन्वितः ॥४९॥

तत्क्षणात् सर्व्वपापेभ्यो मुच्यते नात्र संशयः ।
श्रीवासं चतुरस्रञ्च चदेवदारुं तथैव च॥ २०.५०॥

कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः ।
अयने तूत्तरे सूर्य्यमथवा दक्षिणायने ॥५१॥

पूजयित्वा विशेषेण सर्व्वपापैः प्रमुच्यते ।
विपुवेषूपरागेषु षडशीतिमुखेषु च ॥५२॥

पूजयित्वा विशेषण सर्व्वपापैः प्रमुच्यते ।
एवं वेलासु सर्व्वासु सर्व्वकालञ्च मानवः ॥५३॥

भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते ।
कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥५४॥

वलिं कृत्वा तु सूर्य्याय सर्व्वान् कामानवाप्नुयात् ।
घृतेन तर्पणं कृत्वा सर्व्वसिद्धो भवेन्नरः ॥५५॥

क्षीरेम तर्पणंच कृत्वा मनस्तापैर्न युज्यते ।
दध्ना तु तर्पणं कृत्वा कार्य्यसिद्धिं लभेन्नरः ॥५६॥

स्नानार्थमाहरेद् यस्तु जलं भानोः समाहितः ।
तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥५७॥

छत्रं ध्वजं वितानं वा पताकां चामराणि च ।
श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात् ॥५८॥

यद्‌यद्‌द्रव्यं नरो भक्त्वा आदित्याय प्रयच्छति ।
तत्तस्य शतसाहस्रमुत्पादयति भास्करः ॥५९॥

मानसं वाचिकं वापि कायजं यच्च दुष्कृतम् ।
सर्व्वं सूर्य्यप्रसादेन दतशेषं व्यपोहति ॥६०॥

एकाहेनापि यद्‌भानोः पूजायाः प्राप्यते फलम् ।
यथोक्तदक्षिणैर्विप्रैर्न तत् क्रतुशर्तरपि ॥६१॥

इति श्रीब्राह्मो महापुराणे सूर्य्यपूजादि नामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP