ब्रह्मपुराणम् - अध्यायः ५५
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
मार्कण्डेयाख्यानम्
ब्रह्मोवाच
स निष्क्रम्योदरात्तस्य बालस्य मुनिसत्तमाः ।
पुनश्चैकार्णवामुर्वोमपश्यज्जनवर्जिताम् ॥१॥
पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् ।
शाखायां व़टवृक्षस्य पर्यङ्कोपरि संस्थितम् ॥२॥
श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् ।
जगदादाय तिष्ठन्तं पद्मपत्रायतेक्षणम् ॥३॥
सोऽपि तं मुनिमायान्तं प्लवमानमचेतनम् ।
दृष्ट्वा मुखाद्विनिष्क्रान्तं प्रोवाच प्रहसन्निव ॥४॥
श्रीभगवानुवाच
कच्चित्त्वयोषितं वत्स विश्रान्तं च ममोदरे ।
भ्रममाणश्च किं तत्र आशर्च्यं दुष्टवानसि ॥५॥
भक्तोऽसि मे मुनिश्रेष्ठ श्रान्तोऽसि च ममाऽऽश्रितः ।
तेन त्वामुपकाराय संभाषे पश्च मामिह ॥६॥
ब्रहोवाच
श्रुत्वा स वचनं तस्य संप्रहृष्टतनूरुहः ।
ददर्श तं सुदुष्प्रेक्षं रत्नैर्दिव्यैरलैकृतम् ॥७॥
प्रसन्ना निर्मला दृष्टिर्महूर्तात्तस्य भो द्विजाः ।
प्रसादात्तस्य देवस्य प्रादुर्भूता पुनर्नवा ॥८॥
रक्ताङ्गुलितलौ पादौ ततस्तस्य सुरार्चितौ ।
प्रणाम् शिरसा विप्रा हर्षगद्गदया गिरा ॥९॥
कृताञ्जलिस्तदा हृष्टो विस्मितश्च पुनःपुनः ।
दृष्ट्वा तं परमात्मानं संस्तोतुमुपचक्रमे ॥१०॥
मार्कण्डेय उवाच
देवदेव जगन्नाथ मायाबालवपुर्धर ।
त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥११॥
संतप्तोऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना ।
अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥१२॥
शोषितश्च प्रचण्डेन वायुना जगदामुना ।
विह्वलोऽहं तथा श्रान्तस्त्राहि मां पुरुषोत्तम ॥१३॥
तापितश्च तशामात्यैः (?) प्रलयावर्तकादिभिः ।
न शान्तिमधिगच्छामि त्राहि मां पुरुषोत्तम ॥१४॥
तृषितश्च क्षुधाऽऽविष्टो दुःखितश्च जगत्पते ।
त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥१५॥
अस्मिन्नेकर्णवे घोरे विनष्टे सचराचरे ।
न चान्तमाधिगच्छामि त्राहि मां पुरुषोत्तम ॥१६॥
तवोदरे च देवेश मया दृष्टं चराचरम् ।
विस्मितोऽहं विषण्णश्च त्राहि मां पुरुषोत्तम ॥१७॥
संसारेऽस्मिन्निरालम्बे प्रसीद पुरुषोत्तम ।
प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥१८॥
प्रसीद विबुधां नाथ प्रसीद विबुधालय ।
प्रसीद सर्वलोकेश जगत्कारणकारण ॥१९॥
सर्वकृद्देव प्रसीद मम भूधर ।
प्रेसीद सलिलावास प्रसीद मधुसूदन ॥२०॥
कमलाकान्त प्रसीद त्रिदशेश्वर ।
प्रसीद कंसकेशिघ्न प्रसीदारिष्टनाशन ॥२१॥
प्रसीद कृष्ण दैतय्घ्न प्रसीद दनुजान्तक ।
प्रसीद मथुरावास प्रसीद यदुनन्दन ॥२२॥
प्रसीद शक्रावरज प्रसीद वरदाव्यय ।
त्वं बुद्धिः प्रकृतिश्चैव सत्त्वाद्यास्त्वं जगत्पते ॥२३॥
त्वं नभस्त्वं मनश्चैव त्वमहंकार एव च ।
त्वं बुद्धिः प्रकृतिश्चैव सत्त्वागद्यास्त्वं जगत्पते ॥२४॥
पुरषस्त्वं जगद्व्यापी पुरुषादपि चोत्तमः ।
त्वमिन्दियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥२५॥
त्वं दिक्पालाश्च धर्माश्च वेदा यज्ञाः सदक्षिणाः ।
त्वमिन्द्रस्त्वं शिवो देवस्त्वं हविस्त्वं हुताशनः ॥२६॥
त्वं यमः पितृराट्देव त्वं रक्षोधिपतिः स्वयम् ।
वरुणस्त्वमपां नाथ त्वं वायुस्त्वं धनेश्वराः ॥२७॥
त्वमीशानस्त्वमनन्तस्त्वं गणेशश्च षण्मुखः ।
वसवस्त्वं तथा रुद्रास्त्वमादित्याश्च खेचराः ॥२८॥
दानवास्त्वं तथा यक्षास्त्वं दैत्याः समरुद्गुणाः ।
सिद्धाश्चाप्सरसो नागा गन्धर्वास्त्वं स चारणः ॥२९॥
पितरो बालखिल्याश्च प्रजानां पतयोऽच्युत ।
मुनयस्त्वमृषिगणास्त्वमश्विनौ निशाचराः ॥३०॥
अन्याश्च जातयस्त्वं हि यत्किंचिज्जीवसंज्ञितम् ।
किंचात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम् ॥३१॥
भूतं भव्यं भविष्यं च त्वं जगत्सचराचरम् ।
यत्ते रूपं परं देव कूटस्थमचलं ध्रवम् ॥३२॥
ब्रह्माद्यास्तन्न जानन्ति कथमन्येऽल्पमेधसः ।
देव शुद्धस्वभावोऽसि नित्यस्त्वं प्रकृतेः परः ॥३३॥
अव्यक्तः शाश्वतोऽनन्तः सर्वव्यापी महेश्वरः ।
त्वमाकाशः परः शान्तो अजस्त्वं विभुरव्ययः ॥३४॥
एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् ।
स्तुतोऽसि यन्मया देव विकलेनाल्पचेतसा॥
तत्सर्वं देवदेवेश क्षन्तुमर्हसि चाव्यय ॥३५॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे भगवत्स्तवनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः॥ ५५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP