संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ७८

ब्रह्मपुराणम् - अध्यायः ७८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथाष्टसप्ततितमोऽध्यायः
सगराख्यानकथनम्
नारद उवाच
द्विविधा सैव गदिता एकाऽपि सुरसत्तम् ।
एको भेदस्तु कथितो ब्राह्मणेनाऽऽहृतो यतः ॥१॥

क्षत्रियेणापरोऽप्यंशो जटास्वेव व्यवस्थितः ।
भवस्य देवदेवस्य आहृतस्तद्वदस्व मे ॥२॥

वैवस्वतान्वये जात इक्ष्वाकुकुलसंभवः ।
पुरा वै सगरो नाम राजाऽऽसीदतिधार्मिकः ॥३॥

यज्वा दानपरो नित्यं धर्माचारविचारवान् ।
तस्य भार्याद्वयं चाऽऽसीत्पतिभक्तिपरायणम् ॥४॥

तस्य वै संततिर्नाभूदिति चिन्तापरोऽभवत् ।
वसिष्ठं गृहमाहूय संपूज्य विधिवत्ततः ॥५॥

उवाच वचनं राजा संततेः कारणं प्रति ।
इति तद्वचनं श्रुत्वा ध्यात्वा राजानमब्रवीत् ॥६॥

वसिष्ठ उवाच
सपत्नीकः सदा राजन्नृषिपूजापरे भव ॥७॥

ब्रह्मोवाच
इत्युक्त्वा स मुनिर्विप्र यथास्थानं जगाम ह ।
एकदा तस्य राजर्षेर्गृहमागात्तपोनिधिः ॥८॥

तस्यर्षेः पूजनं चक्रे स संतुष्टोऽब्रवीद्वचः ।
वरं ब्रूहि महाभागेत्युक्ते पुत्रान्स चावृणोत् ॥९॥

स मुनिः प्राह राजानमेकस्यां वंशधारकः ।
पुत्रो भूयात्तथाऽन्यस्यां षष्टिसाहस्रकं सुताः ॥१०॥

वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः ।
स यज्ञान्सुबहूंश्चक्रे हयमेधान्सुदक्षिणान् ॥११॥

एकस्मिन्हयमेधे वै दीक्षितो विधिवन्नृपः ।
पुत्रान्न्ययोजयद्राजा ससैन्यान्हयरक्षणे ॥१२॥

क्वचिदन्तरमासाद्य हयं जह्रे शतक्रतुः ।
मार्गमाणाश्च ते पुत्रा नैवापश्यन्हयं तदा ॥१३॥

सहस्राणां तथा षिष्टिर्नानायुद्धविशारदाः ।
तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि ॥१४॥

प्रोक्षितं तद्धयं नीत्वा ते रसातलमागमन् ।
राक्षसान्मायया युक्तान्नैवापश्यन्त सागराः ॥१५॥

न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः ।
इतश्चेतश्चनरन्तस्ते नैवापश्यन्हयं तदा ॥१६॥

देवलोकं तदा जग्मुः पर्वतांश्च सरांसि च ।
वनानि च विचिन्वन्तो नैवापश्यन्हयं तदा ॥१७॥

कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्लः ।
अदृष्ट्वा तु पशुं रम्यं राजा चिन्तामुपेयिवान् ॥१८॥

अटन्तः सागराः सर्वे देवलोकमुपागमन् ।
हयं तमनुचिन्वन्तस्तत्रापि न हयोऽभवत् ॥१९॥

ततो महीं समाजग्मुः पर्वतांश्च वनानि च ।
तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः ॥२०॥

एतस्मिन्नन्तरे यत्र दैवी वागभवत्तदा ।
रसातले हयो बद्ध आस्ते नान्यत्र सागराः ॥२१॥

इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् ।
अखनन्पृथिवीं सर्वां परितः सागरास्ततः ॥२२॥

ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस्त्वहर्निशम् ।
न्यखनंश्चापि जग्मुश्च सत्परास्ते रसातलम् ॥२३॥

तानागतान्भूपसुतान्सागरान्बलिनः कृतीन् ।
श्रुत्वा रक्षांसि संत्रस्तां व्यगमन्कपिलान्तिकम् ॥२४॥

कपिलोऽपि महाप्राज्ञस्तत्र शेते रसातले ।
पुरा च साधितं तेन देवानां कार्यमुत्तमम् ॥२५॥

विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान्प्रति ।
अब्रवीत्कपिलः श्रीमान्निद्रास्थानं प्रयच्छथ(त) ॥२६॥

रसातलं ददुस्तस्मै पुनराह सुरान्मुनिः ।
यो मामुत्थापयेन्मन्दो भस्मी भूयाच्च सत्वरम् ॥२७॥

ततः शये तलगतो नो चेन्न स्वप्न एव हि ।
तथेत्युक्तः सुरगणैस्तत्र शेते रसातले ॥२८॥

तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः ।
सागराणां च सर्वेषां वधोपायं प्रचक्रिरे ॥२९॥

विना युद्धेन ते भीता राक्षसाः सत्वरास्तदा ।
आगत्य यत्र स मुनिः कपिलः कोपनो महान् ॥३०॥

शिरोदेशे हयं ते वै बद्ध्यवाऽथ त्वरयाऽन्विताः ।
दूरे स्थित्वा मौनिनश्च प्रेक्षन्तः किं भवेदिति ॥३१॥

ततस्तु सागराः सर्वे निर्विशन्तो रसातलम् ।
ददृशुस्ते हयं बद्धं शयानं परुषं तथा ॥३२॥

तं मेनिरे च हर्तारं क्रतुहन्तारमेव च ।
एनं हत्वा महापापं नयामोऽश्वं नृपान्तिकम् ॥३३॥

केचिदूचुः पशुं बद्धं नयामोऽनेन किं फलम् ।
तदाऽऽहुरपरे शूरा राजानः शासका वयम् ॥३४॥

उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा ।
ते तं जघ्नुर्मुनिं पादैर्ब्रुवन्तो निष्ठुराणि च ॥३५॥

ततः कोपेन महता कपिलो मुनिसत्तमः ।
सागरानीक्षयामास तान्कोपाद्भस्मसात्करोत् ॥३६॥

जज्वलुस्ते ततस्तत्र सागराः सर्व एव हि ।
तत्तु सर्वं न जानाति दीक्षितः सगरो नृपः ॥३७॥

नारदः कथयामास सगराय महात्मने ।
कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम् ॥३८॥

राक्षसानां तु विकृतिं सागराणां च नाशनम् ।
ततश्चिन्तापरो राजा कर्तव्यं नावबुध्यत ॥३९॥

अपरोऽपि सुतश्चाऽऽसीदसमञ्जा इति श्रुतः ।
स तु बालांस्तथा पौरान्मौर्ख्यात्क्षिपति चाम्भसि ॥४०॥

सगरोऽप्यथ विज्ञप्तः पौरैः संमिलितैस्तदा ।
दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धोऽब्रवीन्नृपः ॥४१॥

स्वानमात्यांस्तदा राजा देशत्यागं करोत्वयम् ।
असमञ्जाः क्षत्रधर्मत्यागी वै बालघातकः ॥४२॥

सगरस्य तु तद्वाक्यं श्रुत्वाऽमात्यास्त्वरान्विताः ।
तत्यजुर्नृपतेः पुत्रमसमञ्जा गतो वनम् ॥४३॥

सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले ।
एकोऽपि च वनं प्राप्त इदानीं का गतिर्मम ॥४४

अंशुमानिति विख्यातः पुत्रस्तस्यासमञ्जसः ।
आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत् ॥४५॥

कपिलं च समाराध्य अंशुमानापि बालकः ।
सगराय हयं प्रादात्ततः पूर्णोऽभत्क्रतुः ॥४६॥

तस्यापि पुत्रस्तेजस्वी दिलीप इति धर्मिकः ।
तस्यापि पुत्रो मतिमान्भगीरथ इति श्रुतः ॥४७॥

पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः ।
सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः ॥४८॥

सगराणां तु सर्वेषां निष्कटतिस्तु कथं भवेत् ।
भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक ॥४९॥

तस्य तद्वचनं श्रुत्वा बालः प्रायाद्रसातलम् ।
कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत् ॥५०॥

स मुनिस्तु चिरं ध्यात्वा तपसाऽऽराध्य शंकरम् ।
जटाजलेन स्वपितॄनाप्लाव्य नृपसत्तम ॥५१॥

ततः कृतार्थो भविता त्वं च ते पितरस्तथा ।
तथा करोमीति मुनिं प्रणम्य पुनरब्रवीत् ॥५२॥

क्व गच्छेऽहं मुनिश्रेष्ठ कर्तव्यं चापि तद्वद ॥५३॥
कपिल उवाच

कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् ।
तपः कुरु यथाशक्ति ततश्चेप्सितमाप्स्यसि ॥५४॥

ब्रह्मोवाच
तच्छ्रुत्वा स मुनेर्वाक्यं मुनिं नत्वा त्वगान्नगम् ।
कैलासं स शुचिर्भूत्वा बालो बालक्रियान्वितः ॥
तपसे निश्चयं कृत्वा उवाच स भगीरथः ॥५५॥

भगीरथ उवाच
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो ।
नाहं किमपि जानामि ततः प्रीतो भव प्रभो ॥५६॥

वाग्भिर्मनोभिः कृतिभिः कदाचिन्ममोपकुर्वन्ति हिते रता ये ।
तेभ्यो हितार्थं त्विह चामरेश, सोमं नमस्यामि सुरादिपूज्यम् ॥५७॥

उत्पादितो यैरभिवर्धितश्च, समानगोत्रश्च समानधर्मा ।
तेषामभीष्टानि शिवः करोतु, बालेन्दुमौलिं प्रणतोऽस्मि नित्यम् ॥५८॥

ब्रह्मोवाच
एवं तु ब्रुवतस्तस्य पुरस्तादभवच्छिवः ।
वरेण च्छन्दयानो वै भगीरथमुवाच ह ॥५९॥

शिव उवाच
यन्न साध्यं सुरगणैर्देयं तत्ते मया ध्रुवम् ।
वदस्व निर्भयो भूत्वा भगीरथ महामते ॥६०॥

ब्रह्मोवाच
भगीरथः प्रणम्येशं हृष्टः प्रोवाच शंकरम् ॥६१॥

भगीरथ उवाच
जटस्थितां पितॄणां मे पावनाय सरिद्वराम् ।
तामेव देहि देवेश सर्वमाप्तं ततो भवेत् ॥६२॥

ब्रह्मोवाच
महेशोऽपि विहस्याथ भगीरथमुवाच ह ॥६३॥

शिव उवाच
दत्ता मयेयं ते पुत्र पुनस्तां स्तुहि सुव्रत ॥६४॥

ब्रह्मोवाच
तद्देववचनं श्रुत्वा तदर्थं तु तपो महत् ।
स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः ॥६५॥

तस्या अपि प्रसादं प्राप्य बालोऽप्यबालवत् ।
गङ्गां महेश्वरात्प्राप्तामादायागाद्रसातलम् ॥६६  ।

न्यवेदयत्स मुनये कपिलाय महात्मने ।
यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः ॥६७॥

प्रदक्षिणमथाऽऽवर्त्य कृताञ्जलिपुटोऽब्रवीत् ॥६८॥

भगीरथ उवाच
देवि मे पितरः शापात्कपिलस्य महामुनेः ॥
प्राप्तास्ते विगतिं मातस्तस्मात्तान्पातुर्महसि ॥६९॥

तथेत्युक्त्वा सुरनदी सर्वेषामुपकारिका ।
लोकनामुकारार्थं पितॄणां पावनाय च ॥७०॥

अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः ।
स्मरणादेव पापानां नाशाय सुरनिम्नगा ॥७१॥

भगीरथोदितं चक्रे रसातलतले स्थितान् ।
भस्मीभूतान्नृपसुतान्सागरांश्च विशेषतः ॥७२॥

विनिर्दग्धानथाऽऽप्लाव्य खातपूरमथाकरोत् ।
ततो मेरुं समाप्लाव्य स्थितां बालोऽब्रवीन्नृपः ॥७३॥

कर्मभूमौ त्वया भाव्यं तथेत्यागाद्धिमालयम् ।
हिमवत्पर्वतात्पुण्याद्भारतं वर्षमभ्यगात् ॥७४॥

तन्मध्यतः पुण्यनदी प्रायात्पूर्वार्णवं प्रति ।
एवमेषाऽपि ते प्रोक्ता गङ्गा क्षात्रा महामुने ॥७५॥

माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी ।
भागीरथी देवनदी हिमवच्छिखराश्रया ॥७६॥

प्रहेश्वरजटावारि एवं द्वैविध्यमागतम् ।
विन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते ॥
उत्तरे साऽपि विन्ध्यस्य भागीरथ्यभिधीयते ॥७७॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे भागीरथ्यवतरणं नामाष्टसप्ततितमोऽध्यायः ॥७८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP