ब्रह्मपुराणम् - अध्यायः १६८
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
भानुतीर्थवर्णनम्
ब्रह्मोवाच
भानुतीर्थमिति ख्यातं त्वाष्ट्रं माहेश्वरं तथा ।
ऐन्द्रं याम्यं तथाऽऽग्नेयं सर्वपापप्रणाशनम् ॥१॥
अभिष्टुत इति ख्यातो राजाऽऽसीत्प्रियदर्शनः ।
हयमेधेन पुण्येन यष्टुमारब्धवान्सुरान् ॥२॥
तत्रर्त्विजः षोडश स्युर्वसिष्ठात्रिपुरोगमाः ।
क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत् ॥३॥
ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् ।
भूपतौ दीक्षिते दाता को भवेत्को नु याचते ॥४॥
याच्ञेयमखिलाशर्मजननी पापरूपिणी ।
केनाप्यतो न कार्यैव क्षत्रियेण विशेषतः ॥५॥
एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् ।
तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः ॥६॥
वसिष्ठ उवाच
राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति ।
देहि मे देव सवितर्यजनं देवतोचितम् ॥७॥
दैवं क्षत्रमसि ब्रह्मन्भूतनाथ नमोऽस्तु ते ।
याचितः सविता राज्ञा देवानां यजनं शुभम् ॥८॥
ददात्येव ततो राजन्प्रार्थयेशं दिवाकरम् ॥९॥
ब्रह्मोवाच
तथेत्युक्त्वाऽभिष्टुतोऽपि देवदेवं दिवाकरम् ।
श्रद्धया प्रार्थयामास हरीशाजात्मकं रविम् ॥१०॥
राजोवाच
देवानां यजनं सवितस्ते नमोऽस्तु ते ॥११॥
ब्रह्मोवाच
क्षत्रं दैवं यतः सूर्यो दत्ता भूर्भूपतेस्ततः ।
सविता देवदेवेशो ददामीत्यभ्यभाषत ॥१२॥
एवं करोति यो यज्ञं तस्य रिष्टिर्न काचन ।
तथा वाजिमखे सत्रे व्राह्मणैर्वेदपारगैः ॥१३॥
प्रारब्धेऽभिष्टुता राज्ञा यत्रागाद्भूपतिं रविः ।
देवानां यजनं दातुं भानुतीर्थं तदुच्यते ॥१४॥
तं देवक्रतुमुत्कुष्टं हयमेधं सुरैर्युतम् ।
दैत्याश्च दनुजाश्चैव तथाऽन्ये यज्ञघातकाः ॥१५॥
ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव ।
तेऽपि तत्र महाप्राज्ञाः प्राविश्न्ननिवारिताः ॥१६॥
चमसानि च पात्राणि सोमं चषालमेव च ।
सोमपानं हविस्त्यगमृत्विजो भूपतिं तथा ॥१७॥
निन्दन्ति निक्षिपन्त्यन्ये हसन्त्यन्ये तथाऽसुराः ।
तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने ॥१८॥
विश्वरूपोऽपि पितरं प्राह दैत्या इमे इति ।
तत्पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरानिदम् ॥१९॥
त्वष्टोवाच
गृहीत्वा वारिदर्भांश्च प्रोक्षयध्वं समन्ततः ।
ये निन्दन्ति मखं पुण्यं चमसं सोममेव च ॥२०॥
मया त्वपहताः सर्व इत्युक्त्वा परिषिञ्चत ॥२१॥
ब्रह्मोवाच
तथा चक्रुः सुरगणास्त्वष्टा चापि तथाऽकरोत् ।
भस्मीभूतास्ततः सर्वे कांदिशीकास्ततोऽभवन् ॥२२॥
हता मया महापापा इत्युक्त्वा वार्यवाक्षिपत् ।
ततः क्षीणायुषो दैत्याः प्रातिष्ठन्कुपितास्ततः ॥२३॥
यत्रैतत्प्राक्षिपद्वारि त्वष्टा लोकप्रजापतिः ।
त्वाष्ट्रं तीर्थं तदाख्यातं सर्वपापप्रणाशनम् ॥२४॥
त्वष्टुर्वाक्याच्चयुतान्दैत्यान्निजघान यमस्तदा ।
कालदण्डेन चक्रेण कालपाशेन मन्युना ॥२५॥
यत्र ते निहता दैत्यास्तत्तीर्थं याम्यमुच्यते ।
यत्राभवत्क्रतुः पूर्णो हुत्वाऽग्नौचामृतं बहु ॥२६॥
धाराभिः शरमानाभिरखण्डाभिर्महाध्यरे ।
यत्राभवद्धव्यवाहस्तृप्तस्तस्य ह्यभिष्टुतः ॥२७॥
अग्नितीर्थं तदाख्यातमश्वमेधफलप्रदम् ।
इन्द्रो मरुद्भिर्नृपतिं प्राहेदं वचनं शुभम् ॥२८॥
त्वं सम्राड्भविता राजन्नुभयोरपि लोकयोः ।
सखा मम प्रियो नित्यं भविता नात्र संशयः ॥२९॥
स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् ।
कुर्यात्पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः ॥३०॥
माहेश्वरं तु तत्तीर्थं पूजितोऽभिष्टुतः शिवः ।
भक्तियुक्तेन विप्रैश्च सर्वकर्मविशारदैः ॥३१॥
वैदिकैर्लौकिकैश्चैव मन्त्रैः पूज्यं महेश्वरम् ।
नृत्यैर्गीतैस्तथा वाद्यैरमृतैः पञ्चसंभवैः ॥३२॥
उपचारैश्च बहुभिर्दण्डपातप्रदक्षिणैः ।
धूपैर्दीपैश्च नैवेद्यैः पुष्पैर्गन्धैः सुगन्धिभिः ॥३३॥
पूजयामास देवेशं विष्णुं शंभुं धियैकया ।
ततः प्रसन्नौ देवेशौ वरान्ददतुरोजसा ॥३४॥
अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि ।
माहात्म्यमस्य तीर्थस्य तथा ददतुरुत्तमम् ॥३५॥
ततः प्रभृति तत्तीर्थं शैवं वैष्णमुच्यते ।
तत्र स्नानं च दानं च सर्वकामप्रदं विदुः ॥३६॥
इमानि सर्वतीर्थानि स्मरेदपि पठेत वा ।
विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत् ॥३७॥
भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् ।
तत्र तीर्थे महापुण्यं तीर्थानां शतमत्र हि ॥३८॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भान्वादिशततीर्थवर्णनं नामाष्टषष्ट्यधिकशततमोऽध्यायः ॥१६८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP