ब्रह्मपुराणम् - अध्यायः १०६
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ षडधिकशततमोऽध्यायः
देवदानवानां मेरुपर्वतं प्राप्य मन्त्रकरणम्
ब्रह्मोवाच
प्रवरासंगमो नाम श्रेष्ठा चैव महानदी ।
यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥१॥
देवानां दानवानां च संगमोऽभूत्सुदारुणः ।
तेषां परस्परं वाऽपि प्रीतिश्चाभून्महामुने ॥२॥
तेऽप्येवं मन्त्रयामासुर्देवा वै दानवा मिथः ।
मेरुपर्वतमासाद्य परस्परहितैषिणः ॥३॥
देवदैत्या ऊचुः
अमृतेनामरत्वं स्यादुत्पाद्यमृतमुत्तमम् ।
पिबामः सर्वं एवैते भवामश्चामरा वयम् ॥४॥
एकीभूत्वा वयं लोकान्पालयामः सुखानि च ।
प्राप्स्यामः संगरं हित्वा संगरो दुःखकारणम् ॥५॥
प्रीत्या चैवार्जितानर्थान्भोक्ष्यामो गतमत्सराः ।
यतः स्नेहेन वृत्तिर्या साऽस्माकं सुखदा सदा ॥६॥
वैपरीत्यं तु यद्वृत्तं न स्मर्तव्यं कदाचन ।
न च त्रैलोक्यराज्योऽपि कैवल्ये वा सुखं मनाक् ॥
तदूर्ध्वमपि वा यत्तु निर्वैरत्वादवाप्यते ॥७॥
ब्रहमोवाच
एवं परस्परं प्रीताः सन्तो देवाश्च दानवाः एकीभूताश्च सुप्रीत विमथ्य वरुणालयम् ॥८॥
मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् ।
देवाश्च दानवाः सर्वे ममन्थुर्वरुणालयम् ॥९॥
उत्पन्नं च ततः पुण्यममृतं सुरवल्लभम् ।
निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम् ॥१०॥
यामः स्वं स्वमधिष्ठानं कृतार्याः श्रमं गताः ।
सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम् ॥११॥
यदा सर्वागमो यत्र यस्मिंल्लग्ने शुभावहे ।
विभज्यतामिदं पुण्यममृतं सुरसत्तमाः ॥१२॥
इत्युक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः ।
गतेषु दैत्यसंघेषु देवाः सर्वेऽन्वमन्त्रयन् ॥१३॥
देवा ऊचुः
गतास्ते रिवोऽस्माकं दैवयोगादरिंदमाः ।
रिपूणाममृतं नैव देयं भवति सर्वथा ॥१४॥
ब्रह्मोवाच
बृहस्पतिस्तथेत्याह पुनराह सुरानिदम् ॥१५॥
बृहस्पतिरुवाच
न जानन्ति यथा पापा पिबध्वं च तथाऽमृतम् ।
अयमेवोचितो मन्त्रो यच्छत्रूणां पराभवः ॥१६॥
द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः ।
न विश्वास्या न चाऽऽख्येया नैव मन्त्र्याश्च शत्रवः ॥१७॥
देभ्यो न देयममृतं भवेयुरमरास्ततः ।
अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु॥
ताञ्जेतुं नैव शक्ष्यामो न देयममृतं ततः ॥१८॥
ब्रह्मोवाच
इति संमन्त्र्य ते देवा वाचस्पतिमथाब्रुवन् ॥१९॥
देवा ऊचुः
क्व यामः कुत्र मन्त्रः स्यात्क्व पिबामः क्व संस्थितिः ।
कुर्मस्तदेव प्रथमं वद वाचस्पते तथा ॥२० ।
यान्तु ब्रह्माणममराः पृच्छन्त्वत्र गतिं पराम् ।
स तु ज्ञाता च वक्ता च दाता चैव पितामहः ॥२१॥
ब्रह्मोवाच
बृहस्पतेर्वचः श्रुत्वा मदन्तिकमथाऽऽगम्न् ।
नमस्य मां सुराः सर्वे यद्वृत्तं तन्न्यवेदयन् ॥२२॥
तद्देववचनात्पुत्र तैः सुरैरगमं हरिम् ।
विष्णवे कथितं सर्वं शंभवे विषहारिणे ॥२३॥
अहं विषणुश्च शंभुश्च देवगन्धर्वकिंनरैः ।
मेरुकंदरमागत्य न जानन्ति यथाऽसुराः ॥२४॥
रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे ।
आदित्यस्तत्र विज्ञाता सोमभोज्यानथेतरान् ॥२५॥
सोमो दाताऽमृतं भागं चक्रधृग्रक्षकस्तथा ।
नैव जानन्ति तद्देत्या दनुजा राक्षसास्तथा ॥२६॥
विना राहुं महाप्राज्ञं सैहिकेयं च सोमपम् ।
कामरूपधरो राहुर्मरुतां मध्यामाविशत् ॥२७॥
मरुद्रूपं समास्थाय पानपात्रधरस्तथा ।
ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत् ॥२८॥
तदा तदमृतं तस्मै दैत्यायादैत्यरूपिणे ।
दत्त्वा सोमं तदा सोमो विष्णवे तन्न्यवेदयत् ॥२९॥
विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः ।
चिच्छेद तरसा वत्स तच्छिरस्त्वमरं त्वभूत् ॥३०॥
शिरोमात्रविहीनं यद्देहं तदपतद्भुवि ।
देहं तदमृतस्पृष्टं पतितं दक्षिणे तटे ॥३१॥
गौतम्या मुनिशार्दुल कम्पयद्वसुधातलम् ।
देहं चाप्यमरं पुत्र तदद्भुतिमिवाभवत् ॥३२॥
देहं च शिरसोऽपेक्षे शिरो देहमपेक्षते ।
उभयं चामरं जातं दैत्यश्चायं महाबलः ॥३३॥
शिरः काये समाविष्टं सर्वान्भक्षयते सुरान् ।
तस्माद्देहमिदं पूर्वं नाशयामो महीगतम् ॥
ततस्ते शंकरं प्राहुर्देवाः सर्वे ससंभ्रमाः ॥३४॥
देवा ऊचुः
महीगतं दैत्यदेहं नाशयस्व सुरोत्तम ।
त्वं देव करुणासिन्धुः शरणागतरक्षकः ॥३५॥
शिरसा नैव युज्येत दैत्यदेहं तथा कुरु ॥३६॥
ब्रह्मोवाच
प्रेषयामास चेशोऽपि श्रेष्ठां शक्तिं तदाऽऽत्मनः ।
मातृभिः सहितां देवीं मातरं लोकपालिनीम् ॥३७॥
ईशायुधधरा देवी ईशशक्तिमन्विता ॥
महीगतं यत्र देहं तत्रागाद्भक्ष्यकाङ्क्षिणी ॥३८॥
शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन् ।
देहो देव्या पुनस्तत्र युयुधे बहवः समाः ॥३९॥
राहुस्तत्र सुरानाह भित्त्वा देहं पुरा मम(?) ।
अत्राऽऽस्ते रसमुत्कृष्टं तदाकृष्य शरीरतः(?) ॥४०॥
पृथग्भूते रसे देहं प्रवरेऽमृतमुत्तमम् ।
भस्मीभूयात्क्षणेनैव तस्मात्कुर्वन्तु तत्पुरा ॥४१॥
ब्रह्मोवाच
एतद्राहुवचः श्रुत्वा प्रीताः सर्वेऽसुरारयः ।
अभ्यषिञ्चन्ग्रहाणां त्वं ग्रहो भूया मुदाऽन्वितः ॥४२॥
तद्देववचनाच्छक्तिरीश्वरी य निगद्यते ।
देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता ॥४३॥
आकृष्य शीघ्रमुत्कृष्टं प्रवरं चामृतं बहिः ।
स्थापयित्वा तु तद्देहं भक्षयामास चाम्बिका ॥४४॥
कालरात्रिर्भद्रकाली प्रोच्यते या महाबलाः ।
स्थापितं रसमुत्कृष्टं रसानां प्रवरं रसम्(?) ॥४५॥
व्यस्रवत्स्थापितं तत्तु प्रवरा साऽभवन्नदी ।
आकृष्टममृतं चैव स्थापितं साऽप्यटभक्षयत् ॥४६॥
ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा ।
राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता ॥४७॥
नदीनां प्रवरा रम्या चामृता प्रेरिता तथा ।
तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च ॥४८॥
तत्र शंभुः स्वयं तस्थौ सर्वदा सुरपूजितः ।
तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक् पृथक् ॥४९॥
वरान्ददुर्मुदा युक्ता यथा पूजामवाप्स्यति ।
शंभुः सुरपतिर्लोके तथा पूजामवाप्स्यसि ॥५०॥
निवासं कुरु देवि त्वं लोकानां हितकाम्यया ।
सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा ॥५१॥
स्तवनात्कीर्तनाद्ध्यानात्सर्वकामप्रदायिनी ।
त्वां नमस्यन्ति ये भक्त्वा किंचिदापेक्ष्य सर्वदा ॥५२॥
तेषां सर्वाणि कार्याणि भवेयुर्देवताज्ञया ।
शिवशक्त्योर्यतस्तस्मिन्निवासोऽभूत्सनातनः ॥५३॥
अतो वदन्ति मुनयो निवासपुरमित्यदः ।
प्रवरायाः पुरा देवाः सुप्रीतास्ते वरान्ददुः ॥५४॥
गङ्गायाः संगमो यस्ते विख्यातः सुरवल्लभः ।
तत्राऽऽप्लुतानां सर्वेषां भुक्तिर्वा मुक्तिरेव च ॥५५॥
यद्वाऽपि मनसः काम्यं देवानामपि दुर्लभम् ।
स्यात्तेषां सर्वमेवेह दत्त्वा सुरा ययुः ॥५६॥
ततः प्रभृति तत्तीर्थं प्रवरासंगमं विदुः ।
प्रेरिता देवदेवेन शक्तिर्या प्रेरिता तु सा ॥
अमृता सैव विख्याता प्रवरैवं महानदी ॥५७॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे शिवप्रेरितामृतासंगमादितीर्थवर्णनं नाम षडधिकशततमोऽध्यायः ॥१०६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP