ब्रह्मपुराणम् - अध्यायः १२८
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
तपोवनादितीर्थवर्णनम्
ब्रह्मोवाच
तपोवनमिति ख्यातं नन्दिनीसंगमं तथा ।
सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे ॥१॥
शार्दूलं चेति विख्यातं तेषां वृत्तमिदं श्रृणु ।
यस्याऽकर्णनमात्रेण सर्वपापैः प्रमुच्यते ॥२॥
अग्निर्होता पुरा त्वासीद्देवानां हव्यवाहनः ।
भार्या प्राप्तो दक्षसतां स्वाहानाम्नीं सुरूपिणीम् ॥३॥
साऽनपत्या पुरा चाऽसीत्पुत्रार्थं तप आविशत् ।
तपश्चरन्तीं विपुलं तोषयन्तीं हुताशनम् ॥
स भर्ता हुतभुक्तप्राह भार्या स्वाहामनिन्दिताम् ॥४॥
अग्निरुवाच
अपत्यानि भविष्यन्ति मा तपः कुरु शोभने ॥५॥
ब्रह्मोवाच
एतच्छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसोऽभवत् ।
स्त्रीणामभीष्टदं नान्यद्भर्तृवाक्यं विना क्वचित् ॥६॥
ततः कतिपये काले तारकाद्भय आगते ।
अनुत्पन्ने कार्तिकेये चिरकालरहोगते ॥७॥
महेश्वरे भवान्या च त्रस्ता देवाः समागताः ।
देवानां कार्यसिद्ध्यर्थमग्निं प्रोचतुर्दिवौकसः ॥८॥
देवा ऊचुः
देव गच्छ महाभाग शंभुंम त्रैलोक्यपूजितम् ।
तारकाद्भयमुत्पन्नं शंभवे त्वं निवेदय ॥९॥
अग्निरुवाच
न गन्तव्यं तत्र देशे दंपत्योः स्थितयो रहः ।
सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि ॥१०॥
एकान्तस्थितयोः स्वैरं जल्पतोर्यः सरागयोः ।
दंपत्योः श्रृणुयाद्वाक्यं निरयात्तस्य नोद्धृतिः ॥११॥
स स्वाम्यखिललोकानां महाकालस्त्रिशूलवान् ।
निरीक्षणीयः केन स्याद्भवान्या रहसि स्थितः ॥१२॥
देवा ऊचुः
महाभये चानुगते न्यायः कोऽन्वत्र वर्ण्यते ।
तारकाद्भय आपन्ने गच्छ त्वं तारको भवान् ॥१३॥
महाभयाब्धौ साधूनां यत्परार्थाय जीवितम् ।
रूपेणान्येन वा गच्छ वाचं वद यथा तथा ॥१४॥
विश्राव्य देववचनं शंभुमागच्छ सत्वरः ।
ततो दास्यामह पूजामुभयोर्लोकयोः कवे ॥१५॥
ब्रह्मोवाच
शुको भूत्वा जगामाऽऽशु देववाक्याद्धताशनः ।
यत्राऽऽसीज्जगतां नाथो रममाणस्तदोमया ॥१६॥
स भीतवदथ प्रायाच्छुको भूत्वा तदाऽनलः ।
नाशकद्द्वारदेशे तु प्रवेष्टुं हव्यवाहनः ॥१७॥
ततो गवाक्षदेशे तु तस्थौ धुन्वन्नधोमुखः ।
तं दृष्ट्वा प्रहसञ्शंभुरुमां प्राह रहोगतः ॥१८॥
शंभुरुवाच
पश्य देवि शुकं प्राप्तं देववाक्याद्धुताशनम् ॥१९॥
ब्रह्मोवाच
लज्जिता चावदद्देवमलं देवेति पार्वती ।
पुरश्चरन्तं देवेशो ह्यग्निं चं द्विजरूपिणम् ॥२०॥
आहूय बहुशश्चापि ज्ञातोऽस्यग्नेऽत्र मा वद ।
विदारयस्व स्वरमुखं गृहाणेदं नयस्व तत् ॥२१॥
इत्युक्त्वा तस्य चाऽऽस्येऽग्ने रेतः स प्राक्षिपद्बहु ।
रेतोगर्भस्तदा चग्निर्गन्तुं नैव च शक्तवान् ॥२२॥
सुरनद्यास्ततस्तीरं श्रान्तोऽग्निगुपतस्थिवान् ।
कृत्तिकासु च तद्रेतः प्रक्षेपात्कार्तिकोऽभवत् ॥२३॥
अवशिष्टं च यत्किंचिदग्नेर्दहे च शांभवम् ।
तदेव रेतो वहित्नस्तु स्वभार्यायां द्विधाऽक्षिपत् ॥२४॥
स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः ।
पुरा साऽऽश्वासिता तेन संततिस्ते भविष्यति ॥२५॥
तद्वहिननाथ संस्मृत्य तत्क्षिप्तं शांभवं महः ।
तदग्ने रेतसस्तस्यां जज्ञे मिथुनमुत्तमम् ॥२६॥
सुवर्णश्च सुवर्णा च रूपेणाप्रतिमं भुवि ।
अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम् ॥२७॥
अग्निः प्रीत्य सुवर्णां तां प्रादाद्धर्माय धीमते ।
सुवर्णस्याथ पुत्रस्य संकल्पामकरोत्प्रियाम् ॥
एवं पुत्रस्य पुत्र्याश्च विवाहमकरोत्कविः ॥२८॥
अन्योन्यरेतोव्यतिषङ्गदोषादग्नेरपत्यमुभयं तथैव ।
पुत्रः सुवर्णो बहुरूपरूपी, रूपाणि कृत्वा सुरसत्तमानाम् ॥२९॥
इन्द्रस्य वायोर्धनदस्य भार्या, जलेश्वरस्यापि मुनीश्वराणाम् ।
भार्यास्यु गच्छत्यनिशं सुवर्णो, यस्याः प्रियं यच्च वपुः स कृत्वा ॥३०॥
याति क्वचिच्चाप कवेस्तनूजस्तद्भर्तृरूपं च पतिव्रतासु ।
कृत्वाऽनिशं ताभिरुदारभावः, कुर्वन्कृतार्थं मदनं स रेमे ॥३१॥
कृत्वा गता क्वापि चैवं सुवर्णा, धर्मस्य भार्याऽपि सुवर्णनाम्नी ।
स्वाहासुता स्वैरिणी सा बभुव, यस्यापि यस्यापि मनोगता या ॥३२॥
भार्यास्वरूपा सैव भूत्वा सुवर्णा, रेमे पतीन्मानुषानासुरांश्च ।
देवानृषीन्पितृरूपांस्तथाऽन्यान्नूपौदार्यस्थैर्यगाम्भीर्ययुक्तान् ॥३३॥
याऽभिप्रेता यस्य देवस्य भार्या, तद्रुपा सा रमते तेन सार्धम् ।
नानाभेदैः करणैश्चाप्यनेकैराकर्षन्ती तन्मनःकामसिद्धिम् ॥३४॥
एवं सुवर्णस्य निरीक्ष्य चेष्टामग्नेः सूनोः पुत्रिकायास्तथाऽग्नेः ।
सर्वे च शेषुः कुपितास्तदाऽग्नेः, पुत्रं च पुत्रीं च सुरासुरास्ते ॥३५॥
सुरासुरा ऊचुः
कृतं यदेतद्व्यभिचाररूपं यच्छद्मना वर्तनं पापरूपम् ।
तस्मात्सुतस्ते व्यभिचारवांश्च, सर्वत्र गामी जायतां हव्यवाह ॥३६॥
तथा सुवर्णाऽपि न चैकनिष्ठा, भूयादग्ने नैकतृप्ता बहूंश्च ।
नानाजातीन्निन्दितान्देहभाजो, भजित्री स्यादेष दोषश्च पुत्र्याः ॥३७॥
ब्रह्मोवाच
इत्येतच्छापवचनं श्रुत्वाऽग्निरतिभीतवत् ।
मामभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः । ॥३८॥
तदाऽहमब्रवं वह्ने गौतमीं गच्छ शंकरम् ।
स्तुत्वा तत्र महाबाहो निवेदय जगत्पते ॥३९॥
माहेश्वरेण वीर्येण तव देहस्थितेन च ।
एवंविधं त्वपत्यं ते जातं वह्ने ततो भवान् ॥४०॥
निवेदयस्व(तु)देवाय देवानां शापमीदृशम् ।
स्वापत्यरक्षणायासौ शंभुः श्रेयः करिष्यति ॥४१॥
स्तुहि देवं च देवीं च भक्त्या प्रीतो भवेच्छिवः ।
ततस्त्वपत्यविषये प्रियान्कामानवाप्स्यसि ॥४२॥
ततो मद्वचनादग्निर्गङ्गां गत्वा महेश्वरम् ।
तुष्टाव नियतो वाक्यैः स्तुतिभिर्वेदसंमितैः ॥४३॥
अग्निरुवाच
विश्वस्य जगतो धाता विश्वमूर्तिर्निरञ्जनः ।
आदिकर्ता स्वयंभूश्च तं नमामि जगत्पतिम् ॥४४॥
योऽग्निर्भूत्वा संहरति स्रष्टा वै जलरूपतः ।
सूर्यरूपेण यः पाति तं नमामि च त्र्यम्बकम् ॥४५॥
ब्रह्मोवाच
ततः प्रसन्नो भगवाननन्तः शंभुरव्ययः ।
वरेण च्छन्दयामास पावकं सुरपूजितम् ॥४६॥
स विनीतः शिवं प्राह तव वीर्यं मयि स्थितम् ।
तेन जातः रम्यः सुवर्णो लोकविश्रुतः ॥४७॥
तथा सुवर्णा पुत्री च तस्मादेव जगत्प्रभो ।
अन्योन्यवीर्यसङ्गाच्च तद्दोषादुभयं त्विदम् ॥४८॥
व्यभिचारात्सदोषं च अपत्यमभवच्छिव ।
शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो ॥४९॥
तदग्निवचनाच्छम्भुः प्रोवाचेदं शुभोदयम् ॥५०॥
शंभुरुवाच
मद्वीर्यादभवत्त्वत्तः सुवर्णो भूरिविक्रमः ।
समग्रा ऋद्धयः सर्वाः सुवर्णेऽस्मिन्समाहिताः ॥५१॥
भविष्यन्ति न संदहो वह्ने श्रृणु वचो मम ।
त्रयाणामपि लोकानां पावनः स भविष्यति ॥५२॥
स एव चामृतं लोके स एव सुरवल्लभः ।
स एव भुक्तिमुक्ती च स एव मखदक्षिणा ॥५३॥
स एव रूपं सर्वस्य गुरूणामप्यसौ गुरुः ।
वीर्यं श्रेष्ठतमं विद्याद्वीर्यं मत्तो यदुत्तमम् ॥५४॥
विशेषतस्त्वयि क्षिप्तं तस्य का स्याद्विचारणा ।
हीनं तेन विना सर्वं संपूर्णास्तेन संपदः ॥५५॥
जीवन्तोऽपि मृताः सर्वे सुवर्णेन विना नराः ।
निर्गुणोऽपि धनी मान्यः सगुणोऽप्यधनो नहि ॥५६॥
तस्मान्नातः परं किंचित्सुवर्णाद्धि भविष्यति ।
तथा चैषा सुवर्णाऽपि स्यादुत्कृष्टाऽपि चञ्चला ॥५७॥
अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति ।
तपसा जपहोमैश्च येयं प्राप्या जगत्त्रये ॥५८॥
तस्याः प्रभावं प्राशस्त्यमग्ने किंचिच्च कीर्त्यते ।
सर्वत्र या तु संतिष्ठेदायातु विचरिष्यर्ति ॥५९॥
सुवर्णा कमला साक्षात्पवित्रा च भविष्यति ।
अद्य प्रभृत्यात्समजयोस्तथा स्वैरं विचेष्टतोः ॥६०॥
तथाऽपि चैतयोः पुण्यं न भूतं न भविष्यति ॥६१॥
ब्रह्मोवाच
एवमुक्त्वा ततः शंभुः साक्षात्तत्राभवच्छिवः ।
लिङ्गरूपेण सर्वेषां लोकानां हितकाम्यया ॥६२॥
वरान्प्राप्य सुताभ्यां व अग्निस्तुष्टोऽभवत्ततः ।
स्वभर्त्रा च सुवर्णा सा धर्मेणाग्निसुता मुदा ॥६३॥
वर्तयामास पुत्रोऽपि वह्नेः संकल्पया मुदा ।
एतस्मिन्नन्तरे स्वर्णामग्नेर्दुहितरं मुने ॥६४॥
परिभूय च धर्मं तं शार्दूलो दानवेश्वरः ।
अहरद्भाग्यसौभाग्यविलासवसतिं छलात् ॥६५॥
नीता रसातलं तेन सुवर्णा लोकविश्रुता ।
जामाताऽग्नेः स धर्मश्च अग्निश्चैव स हव्यवाट् ॥६६॥
विष्णवे लोकनाथाय स्तुत्वा चैव पुनः पुनः ।
कार्यविज्ञापनं चोभौ चक्रतुः प्रभविष्णवे ॥६७॥
ततश्चक्रेण चिच्छेद शार्दूलस्य शिरो हरिः ।
साऽऽनीता विष्णुना देवी सुवर्णा लोकसुन्दरी ॥६८॥
महेश्वरसुता चैव अग्नेश्चैव तथा प्रिया ।
महेश्वराय तां विष्णुर्दर्शयामास नारद ॥६९॥
प्रीतोऽभोवन्महेशोऽपि सस्वजे तां पुनः पुनः ।
चक्रं प्रक्षालितं यत्र शार्दूलच्छेदि दीप्तिमत् ॥७०॥
चक्रतीर्थं तु विख्यातं शार्दूलं चेति तद्विदुः ।
यत्र नीता सुवर्णा सा विष्णुना शंकरान्तिकम् ॥७१॥
तत्तीर्थं शांकरं ज्ञेयं वैष्णवं सिद्धमेव तु ।
यत्राऽऽनन्दमनुप्राप्तो ह्यग्निर्धर्मश्च शाश्वतः ॥७२॥
आनन्दाश्रूणि न्यपतन्यत्राग्नेर्मुनिसत्तम ।
आनन्देति नदीं जाता तथा वै नन्दिनीति च ॥७३॥
तस्याश्च संगमः पुण्यो गङ्गायां तत्र वै शिवः ।
तत्रैव संगमे साक्षात्सुवर्णाऽद्यापि संस्थिता ॥७४॥
दाक्षायणी सैव शिवा आग्नेयी चेति विश्रुता ।
अम्बिका जगदाधारा शिवा कात्यायनीश्वरी ॥७५॥
भक्ताभीष्टप्रदा नित्यमलंकृत्योभयं तटम् ।
तपस्तेपे यत्र चाग्निस्तत्तींर्थं तु तपोवनम् ॥७६॥
एवमादीनि तीर्थानि तीरयोरुभयोर्मुने ।
तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥७७॥
उत्तरे चैव पारे च सहस्राणि चतुर्दश ।
दक्षिणे च तथा पार सहस्राण्यथ षोडश ॥७८॥
तत्र तत्र च तीर्थाना साभिज्ञानानि सन्ति वै ।
नामानि च पृथक् सन्ति संक्षेपात्तन्मयोच्यते ॥७९॥
एतानि यश्च श्रृणुयाद्यश्च वा पठति स्मरेत् ।
सर्वेषु तत्र काम्येषु परिपूर्णो भवेन्नरः ॥८०॥
एतद्वृत्तं तु यो ज्ञात्वा तत्र स्नानादिकं चरेत् ।
लक्ष्मीवाञ्चायते नित्यं धर्मवांश्च विशेषतः ॥८१॥
अब्जकात्पश्चिमे तीर्थं तच्छार्दूलमुदाहृतम् ।
वाराणस्यादितीर्थेभ्यः सर्वेभ्यो ह्यधिकं भवेत् ॥८२॥
तत्र स्नात्वा पितॄन्देवान्वन्दते तर्पयत्यपि ।
सर्वपापाविनिर्मुक्तो विष्णुलोके महीयते ॥८३॥
तपोवनाच्च शार्दूलान्मध्ये तीर्थान्यशेषतः ।
तस्यैकैकस्य माहात्म्यं न केनाप्यत्र वर्ण्यते ॥८४॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये तपोवननन्दिनीसंगमेश्वरदेवीदाक्षायणीसिद्धेश्वरवैष्णवशार्दूलाग्निचक्रतीर्थादित्रिंशत्सहस्रतीर्थवर्णनं नामाष्टाविंशत्यधिकशततमोऽध्यायः ॥१२८॥
गौतमीमाहात्म्य एकोनषष्टितमोऽध्यायः ॥४९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP