ब्रह्मपुराणम् - अध्यायः १२३
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ त्रयोविंशत्यधिकशततमोऽध्यायः
रामतीर्थवर्णनम्
ब्रह्मोवाच
रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥१॥
इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः ।
बलवान्मतिमाञ्शुरो यथा शक्रः पुरंदरः ॥२॥
पितृपैतामहां राज्यं कुर्वन्नास्ते यथा बलिः ।
तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि ॥३॥
कौशल्या च सुमित्रा च कैकेयी च महामते ।
एताः कुलीनाः सुभगा रूपलक्षणसंयुताः ॥४॥
तस्मिन्राजनि राज्ये तु स्थितेऽयोध्यापतौ मुने ।
वसिष्ठे ब्रह्मविचछ्रेष्ठे पुरोधसि विशेषत ॥५॥
न च व्याधिर्न दुर्भिक्षं न चावृष्टिर्न चाऽऽधयः ।
ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः ॥६॥
आश्रमाणां तु सर्वेषामानन्दोऽभूत्पृथक्पृथक् ।
तस्मिञ्शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे ॥७॥
देवानां दानवानां तु राज्यार्थे विग्रहोऽभवत् ।
क्वापि तत्र प्रापुर्देवाः क्वापि तथेतरे ॥८॥
एवं प्रवर्तमाने तु त्रैलोक्यमतिपीडितम् ।
अभून्नारद तत्राहमवदं दैत्यदावान् ॥९॥
देवांश्चापि विशेषेण न कृतं तैर्मदीरितम् ।
पुनश्च संगरस्तेषां बभूव सुमहान्मिथः ॥१०॥
विष्णुं गत्वा सुराः प्रोचुस्तथेशानं जगन्मयम् ।
तावूचतुरुभौ देवानसुरादैत्यदानवान् ॥११॥
तपसा बलिनो यान्तु पुनः कुर्वन्तु संगरम् ।
तथेत्याहुर्ययुः सर्वे तपसे नियतव्रताः ॥१२॥
ययुस्तु राक्षसान्देवाः पुनस्ते मत्सरान्विताः ।
देवानां दानवानां च संगरोऽभूत्सुदारुणः ॥१३॥
न तत्र देवा जेतारो नैव दैत्याश्च दानवाः ।
संयुगे वर्तमाने तु वागुवाचाशरीरिणी ॥१४॥
आकाशवागुवाच
येषां दशरथो राजा ते जेतारो न चेतरे ॥१५॥
ब्रह्मोवाच
इति श्रुत्वा जयायोभौ जग्मतुर्देवदानवौ ।
तत्र वायुस्त्वरन्प्राप्तो राजानमवदत्तदा ॥१६॥
वायुरुवाच
आगन्तव्यं त्वया राजन्देवदानवसंगरे ।
यत्र राजा दशरथो जयस्तत्रेति विश्रुतम् ॥१७॥
तस्मात्त्वं देवपक्षे स्या भवेयुर्जयिनः सुराः ॥१८॥
ब्रह्मोवाच
तद्वायुवचनं श्रुत्वा राजा दशरथो नृपः ।
आगम्यते मया सत्यं गच्छ वायो यथासुखम् । १२३.१९॥
गते वायौ तदा दैत्या आजग्मुर्भूपतिं प्रति ।
तेऽप्यूचुर्भगवन्नस्मत्साहाय्यं कर्तुमर्हसि ॥२०॥
राजन्दशरथ श्रीमन्विजयस्त्वयि संस्थितः ।
तस्मात्त्वं वै दैत्यपतेः साहाय्यं कर्तुमर्हसि ॥२१॥
ततः प्रोवाच नृपतिर्वायुना प्रार्थितः पुरा ।
प्रतिज्ञातं मया तच्च यान्तु दैत्याश्च दानवाः ॥२२॥
स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् ।
युद्धं चक्रे तथा दैत्यैर्दानवैः सह राक्षसैः ॥२३॥
पश्यत्सु देवसंघेषु नमुचेर्भ्रातरस्तदा ।
राजान्तिके स्थिता सुभ्रूः कैकेय्याऽज्ञायि नारद ॥२४॥
भिन्नाक्षं तं रथं राजा न जानाति स संभ्रमात् ।
राजान्तिके स्थिता चक्रे हस्तं तदा स्वकम् ॥२५॥
न ज्ञापितं तया राज्ञे स्वयामालोक्य सुव्रता ।
भग्नमक्षं समालक्ष्य चक्र हस्तं तदा स्वकम् ॥२६॥
अक्षवन्मुनिसार्दूल तदेतन्महादद्भुतम् ।
रथेन रथिनां श्रेष्ठस्तया दत्तकरेण च ॥२७॥
जितवान्दैत्यदनुजान् देवैः प्राप्य वरान्बहून् ।
ततो देवैरनुज्ञातस्त्वयोध्यां पुनरभ्यगात् ॥२८॥
स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् ।
कैकेय्याः तद्दृष्ट्वा विस्मयं परमं गतः ॥२९॥
ततस्तस्यै वरान्प्रादात्त्रींस्तु नारद सा अपि ।
अनुमान्य नृपप्रोक्तं कैकेयी वाक्यमब्रवीत् ॥३०॥
कैकेय्युवाच
त्वयि तिष्ठन्ति राजेन्द्र त्वया दत्ता वरा अमी ॥३१॥
विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह ।
रथेन विजयी राजा ययौ स्वनगरं सुखी ॥३२॥
योषितां किमदेयं हि प्रियाणामुचितगमे ।
स कदाचिद्दशरथो मृगयाशीलिभिर्वृतः ॥३३॥
अटन्नरण्ये शर्वर्यां वारिबन्धमथाकरोत् ।
सप्तव्यसनहीनेन भवितव्यं तु भूभुजा ॥३४॥
इति जानन्नपि च तच्चकार तु विधेर्वशात् ।
गर्तं प्रविश्य पानार्थमागतान्निशितैः शरैः ॥३५॥
मृगान्हन्ति महाबाहुः श्रृणु कालविपर्ययम् ।
गर्तं प्रविष्टे नृपतौ तस्मिन्नेव नगोत्तमे ॥३६॥
वृद्धो वैश्रवणो नाम न श्रृणोति न पश्यति ।
तस्य भार्या तथाभूता तावब्रूतां तदा सुतम् ॥३७॥
मातापितरावूचतुः
आवां तृषार्तौरात्रिश्च कृष्णा चापि प्रवर्तते ।
वृद्धानां जीवितं कृत्स्नं बालस्त्वमसि पुत्रक ॥३८॥
अन्धानां बधिराणां च वृद्धानां धिक्च जीवितम् ।
जराजर्जरदेहानां धिग्धिक्पुत्रक जीवितम् ॥३९॥
तावत्पुंभिर्जीवितव्यं यावल्लक्ष्मीर्दृढं वपुः ।
यावदाज्ञाऽप्रतिहता तीर्थादावन्यथा मृतिः ॥४०॥
ब्रह्मोवाच
इत्येतद्वचनं श्रुत्वा वृद्धयोर्गुरुवत्सलः ।
पुत्रः प्रोवाच तद्दुःखं गिरा मधुरया हरन् ॥४१॥
पुत्र उवाच
मयि जीवति किं नाम युवयोर्दुःखमीदृशम् ।
न हरत्यात्मजः पित्रोर्यश्चरित्रैर्मनोरुजम् ॥४२॥
तेन किं तनुजेनेह कुलोद्वेगविधायिना ॥४३॥
ब्रह्मोवाच
इत्युक्त्वा पितरौ नत्वा तावाश्वास्य महामनाः ।
तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा ॥४४॥
हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः ।
स ऋषिर्नतु राजानं जानाति नृपतिर्द्विजम् ॥४५॥
उभौ सरभसौ तत्र द्विजा वारि समाविशत् ।
सत्वरं कलशे न्युब्जे वारि गृह्णान्तमाशुगैः ॥४६॥
द्विजं राजा द्विषं मत्वा विव्याध निशितैः शरैः ।
वनद्विपोऽपि भूपानामवध्यस्तद्विदन्नपि ॥४७॥
विव्याध तं नृपः कुर्यान्न किं किं विधिवञ्चितः ।
स विद्धो मर्मदेशे तु दुःखितो वाक्यमब्रवीत् ॥४८॥
द्विज उवाच
केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे ।
मैत्रो ब्राह्मण इत्युक्तो नापराधोऽस्ति कश्चन ॥४९॥
ब्रह्मोवाच
तदेतद्वचनं श्रुत्वा मुनेरार्तस्य भूपतिः ।
निश्चेष्टश्य निरुत्साहो शनैस्तं देशमभ्यगात् ॥५०॥
तं तु दृष्ट्वा द्विजवरं ज्वलन्तमिव तेजसा ।
असावप्यभवत्तत्र सशल्य इव मुर्च्छितः ॥५१॥
आत्मानमात्मना कृत्वा स्थिरं राजाऽब्रवीदिदम् ॥५२॥
राजोवाच
को भवान्द्विजशार्दूल किमर्थमिह चाऽऽगतः ।
वद पापकृते मह्यं वद मे निष्टकृतिं पराम् ॥५३॥
ब्रह्महा वर्णिभिः किंतु श्वपचैरपि जातुचित् ।
न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन ॥५४॥
ब्रह्मोवाच
तद्राजवचनं श्रुत्वा मुनिपुत्रोऽब्रवीद्वचः ॥५५॥
मुनिपुत्र उवाच
उत्क्त्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किंचन ।
स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम् ॥५६॥
आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम ।
तयोः शुश्रषकः कः स्यादन्थयोरेकपुत्रयोः ॥५७॥
विना मया महारण्ये कथं तौ जीवयिष्यतः ।
ममाभाग्यमहो कीदृक्पितृशुश्रूषणे क्षतिः ॥५८॥
जाता मेऽद्य विना प्राणैर्हा विधे किं कृतं त्वया ।
तथाऽपि गच्छ तत्र त्वं गृहीतकलशस्त्वरन् ॥५९॥
ताभ्यां देह्युदपानं त्वं यथा तौ न मरिष्यतः ॥६०॥
ब्रह्मोवाच
इत्येवं ब्रुवतस्तस्य गताः प्राणा महावने ।
विसृज्य सशरं चापमादाय कलशं नृपः ॥६१॥
तत्रागात्स तु वेगेन यत्र वृद्धौ महावने ।
वृद्धौ चापि तदा रात्रौ तावन्योन्यं समूचतुः ॥६२॥
वृद्धावूचतुः
उद्विग्नः कुपितो वा स्यादथवा भक्षितः कथम् ।
न प्राप्तश्चाऽऽवयोर्यष्टिः किं कुर्मः का गतिर्भवेत् ॥६३॥
न कोऽपि तादृशः पुत्रो विद्यते सचराचरे ।
यः पित्रोरन्यथा वाक्यं न करोत्यपि निन्दितः ॥६४॥
वज्रादपि कठोरं वा जीवितं तमपश्यतोः ।
शीघ्रां न यान्ति यत्प्राणास्तदेकायत्तजीवयोः ॥६५॥
ब्रह्मोवाच
एवं बहुविधा वाचो वृद्धयोर्वदतोर्वने ।
तदा दशरथो राजा शनैस्तं देशमभ्यगात् ॥६६॥
पादसंचारशब्देन मेनाते सुतमागतम् ॥६७॥
वृद्धावूचतुः
कुतो वत्स चिरात्प्राप्तस्त्वं दृष्टिस्त्वं परायमम् ।
न ब्रूषे किंतु रुष्टोऽसि वृद्धयोरन्धयोः सुतः ॥६८॥
ब्रह्मोवाच
सशल्य इव दुःखार्तः शोचन्दुष्कृतमात्मनः ।
स भीत इव राजेन्द्रस्तावुवाचाथ नारद ॥६९॥
उदपानं च कुरुतां तच्छ्रुत्वा नृपभाषितम् ।
नायं वक्ता सुतोऽस्माकं को भवांस्तत्पुरा वद ॥७०॥
पश्चात्पिबावः पानीयं ततो राजाऽब्रवीच्च तौ ॥७१॥
राजोवाच
तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः ॥७२॥
तच्छ्रुत्वोचतुरार्तौ तौ सत्यं ब्रूहि न चान्यथा ।
आचचक्षे ततो राजा सर्वमेव यथातथम् ॥७३॥
ततस्तु पतितौ वृद्धौ तत्राऽऽवां नय मा स्पृश ।
ब्रह्मघ्नस्पर्शनं पापं न कदाचिद्विनश्यति ॥७४॥
निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः ।
यत्रासौ पतितः पुत्रस्तं स्पृष्ट्वा तौ विलेपतुः ॥७५॥
वृद्धावूचतुः
यथा पुत्रवियोगेन मृत्युर्नो विहितस्तथा ।
त्वं चापि पाप पुत्रस्य वियोगान्मृत्युमाप्स्यसि ॥७६॥
ब्रह्मोवाच
एवं तु जल्पतोर्ब्रह्मन्गताः प्राणास्ततो नृपः ।
अग्निना योजयामास वृद्धौ च ऋषिपुत्रकम् ॥७७॥
ततो जगाम नगरं दुःखितो नृपतिर्मुने ।
वसिष्ठाय च तत्सर्वं न्यवेदयदशेषतः ॥७८॥
नृपाणां सूर्यंवश्यानां वसिष्ठो हि परा गतिः ।
वसिष्ठोऽपि द्विजश्रेष्ठैः संमन्त्र्याऽऽह च निष्कृतिम् ॥७९॥
वसिष्ठ उवाच
गालवं वामदेवं च जाबालिमथ कश्यपम् ।
एतानन्यान्समाहूय हयमेधाय यत्नतः ॥८०॥
यजस्व हयमेधैश्च बहुभिर्बहुदक्षिणैः ॥८१॥
ब्रह्मोवाच
अकरोद्वयमेधांश्च राजा दशरथो द्विजैः ।
एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी ॥८२॥
आकाशवाण्युवाच
पूतं शरीरमभवद्राज्ञो दशरथस्य हि ।
व्यवहार्यश्च भविता भविष्यन्ति तथा सुताः ॥
ज्येष्ठपुत्रप्रसादेन राजाऽपापो भविष्यति ॥८३॥
ब्रह्मोवाच
ततो बहुतिथे काले ऋष्यश्रृङ्गान्मुनीश्वरात् ।
देवानां कार्यसिद्ध्यर्थं सुता आसन्सुरोपमाः ॥८४॥
कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः ।
शत्रुघ्नश्चापि कैकेय्यां भरतो मतिमत्तरः ॥८५॥
ते सर्वे मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः ।
तं राजानमृषिः प्राप्य विश्वामित्रः प्रजापतिः ॥८६॥
रामं च लक्ष्मणं चापि अयाचत महामते ।
यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः ॥८७॥
चिरप्राप्तसुतो वृद्धो राजा नैवेत्यभाषत ॥८८॥
राजोवाच
महता दैवयोगेन कथंचिद्वार्धके मुने ।
जातावानन्दसंदोहदायकौ मम बालकौ ॥८९॥
सशरीरमिदं राज्यं दास्ये नैव सुताविमौ ॥९०॥
ब्रह्मोवाच
वसिष्ठेन तदा प्रोक्तो राजा दशरथस्त्विति ॥९१॥
वसिष्ठ उवाच
रघवः प्रार्थनाभङ्गं न राजन्क्वापि शिक्षिताः ॥९२॥
ब्रह्मोवाच
रामं च लक्ष्मणं चैव कथंचिदवदन्नृपः ॥९३॥
राजोवाच
विश्वामित्रस्य ब्रह्मर्षेः कुरुतां(तं)यज्ञरक्षणम् ॥९४॥
ब्रह्मोवाच
वदन्निति सुतौ सोष्णं निश्वसन्ग्लपिताधरः ।
पुत्रौ समर्पयामास विश्वामित्रस्य शास्त्रकृत् ॥९५॥
तथेत्युक्त्वा दशरथं नमस्य च पुनः पुनः ।
जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा ॥९६॥
ततः प्रहृष्टः स मुनिर्मुदा प्रादात्तदोभयोः ।
माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम् ॥९७॥
शास्त्रीमास्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् ।
अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने ॥९८॥
सर्वविद्यामधावाप्य उभौ तौ रामलक्ष्मणौ ।
वनौकसां हितार्थाय जघ्नतुस्ताटकां वने ॥९९॥
अहल्यां शापनिर्मुक्तां पादस्पर्शाच्च चक्रतुः ।
यज्ञविध्यवंसनायाताञ्जघ्नतुस्तज्ञ राक्षसान् ॥१००॥
कृतविद्यौ धनुष्पाणी चक्रतुर्यज्ञरक्षणम् ।
ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः ॥१०१॥
पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुमभ्यगात् ।
चित्रामद्रशयत्तत्र राजमघ्ने नृपात्मजः ॥१०२॥
रामः सौमित्रिसहितो धनुर्विद्यां गुरोर्मताम् ।
तत्प्रीतो जनकः प्रादात्सीतां लक्ष्मीमयोर्निजाम् ॥१०३॥
तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च ।
शत्रुघ्नभरतादीनं वसिष्ठादिमते स्थितः ॥१०४॥
राजा दशरथः श्रीमान्विवाहमकरोन्मुने ।
ततो बहुतिथे काले राज्यं तस्य प्रयच्छति ॥१०५॥
नृपतौ सर्वलोकानामनुमत्या गुरोरपि ।
मन्थरात्मकदुर्दैवप्रेरिता मत्सराकुला ॥१०६॥
कैकेयी विघ्नमातस्थे वनप्रव्राजनं तथा ।
भरतस्य च तद्राज्यं राजा नैव च दत्तवान् ॥१०७॥
पितरं सत्यवाक्यं तं कुर्वन्रामो महावनम् ।
विवेश सीतया सार्धं तथा सौमित्रिणा सह ॥१०८॥
सतां च मानसं शुद्धं स विवेश स्वकैर्गुणैः ।
तस्मिर्न्विनिर्गते रामे वनवासाय दीक्षिते ॥१०९॥
समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते ।
तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम् ॥११०॥
दुःखेन महताऽऽविष्टो ब्रह्मोशापं च संस्मरन् ।
तदा दशरथो राजा प्राणांस्तत्याज दुःखितः ॥१११॥
कृतकर्मविपाकेन राजा नीतो यमानुगैः ।
तस्मै राज्ञे महाप्राज्ञ यावत्स्थावरजङ्मे ॥११२॥
यमसद्मन्यनेकानि तामिस्रादीनि नारद ।
नरकाण्यथ घोराणि भीषणानि बहूनि च ॥११३॥
तत्र क्षिप्तस्तदा राजा नरकेषु पृथक्पृथक् ।
पच्यते छिद्यते राजा पिष्यते चूणर्यते तथा ॥११४॥
शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते ।
एवमादिषु घोरेषु नरकेषु च पच्यते ॥११५॥
रामोऽपि गच्छन्नध्वानं चित्रकूटमथागमत् ।
तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते ॥११६॥
पुनः स दक्षिणामाशामाक्रामद्दण्डकं वनम् ।
विख्यातं त्रिषु लोकेषु देशानां तद्धि पुण्यदम् ॥११७॥
प्राविशत्तन्महारण्य भीषणं दैत्यसेवितम् ।
तद्भयादृषिभिस्त्यक्तं हत्वा दैत्यांस्तु राक्षसान् ॥११८॥
विचरन्दण्डकारण्ये ऋषिसेव्यमथाकरोत् ।
तत्रेदं वृत्तमाख्यास्ये श्रृणु नारद यत्नतः ॥११९॥
तावच्चनैस्त्वगाद्रामो यावद्योजनपञ्चकम् ।
गौतमीं समनुप्राप्तो राजाऽपि नरके स्थितः ॥१२०॥
यमः स्वकिंकरानाह रामो दशरथात्मजः ।
गौतमीमभितो याति पितरं तस्य धीमतः ॥१२१॥
आकर्षन्त्वथ राजानां नरकान्नात्र संशयः ।
उत्तीर्य गौतमीं याति यावद्योजनपञ्चकम् ॥१२२॥
रामस्तावत्तस्य पिता नरके नैव पच्यताम् ।
यदेतन्मद्वचः पुण्यं न कुर्युर्यदि दूतकाः ॥१२३॥
ततश्च नरके घोरे यूयं सर्वे निमज्जथ ।
या काऽप्युक्ता परा शक्तिः शिवस्य समवायिनी ॥१२४॥
तामेव गौतमीं सन्तो वदन्त्त्यम्भःस्वरूपिणीम् ।
हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत् ॥१२५॥
निस्तीर्यते न केनापि तदतिक्रमजंत्वघम् ।
पापिनोऽप्यात्मजः कश्चिद्यश्च(स्य)गङ्गामनुस्मरेत् ॥१२६॥
सोऽनेकदुर्गनिरयान्निर्गतो मुक्ततां व्रजेत् ।
किं पुनस्तादृशः पुत्रो गौतमीनिकटे स्थितः ॥१२७॥
यस्यासौ नरके पक्तुं न कैरपि हि शक्यते ।
दक्षिणाशापतेर्वाक्यं निशम्य यमकिंकराः ॥१२८॥
नरके पच्यमानं तमयोध्याधिपतिं नृपम् ।
उत्तर्य घोरनरकाद्वचनं चेदमब्रुवन् ॥१२९॥
यमकिंकरा ऊचुः
धन्योऽसि नृपशार्दूल यस्य पुत्रः स तादृशः ।
इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते ॥१३०॥
ब्रहमोवाच
स विश्रान्तः शनै राजा किंकरान्वाक्यमब्रवीत् ॥१३१॥
राजोवाच
नरकेष्वथ घोरेषु राजानमिदमब्रवीत् ॥१३२॥
ब्रह्मोवाच
तत्र कश्चिच्छान्तमना राजानमिदमब्रवीत् ॥१३३॥
यमदूत उवाच
वेदशास्त्रपुराणादावेतद्गोप्यं प्रयत्नतः ।
प्रकाश्यते तदपि ते सामर्थ्यं पुत्रतीर्थयोः ॥१३४॥
रामस्तव सुतः श्रीमान्गौतमीतीरमागतः ।
तस्मात्त्वं नरकाद्घोरादाकृष्टेऽसि नरोत्तम ॥१३५॥
यदि त्वां तत्र गौतम्यां स्मरेद्रामः सलक्ष्मणः ।
स्नानं कृत्वाऽथ पिण्डादि ते दद्यात्स नृपोत्तम ॥
ततस्त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम् ॥१३६॥
तत्र गत्वा भवद्वाक्यमाक्ख्यास्ये स्वसुतौ प्रति ।
भवन्त एव शरणमनुज्ञां दातुमर्हथ ॥१३७॥
ब्रह्मोवाच
तद्राजवचनं श्रुत्वा कृपया यमकिंकरा ।
आज्ञां च प्रददुस्तस्मै राजा प्रागात्सुतौ प्रति ॥१३८॥
भीषणं यातनादेहमापन्नो निःश्वसन्मुहुः ।
निरीक्ष्य स्वयं लज्जमानः कृतं कर्म च संस्मरन् ॥१३९॥
स्वेच्छया विहरन्गङ्गामाससाद च राघवः ।
गौतम्यास्तटमाश्रित्य रामो लक्ष्मण एव च ॥१४०॥
सीतया सह वैदेह्या सस्नौ चैव यथाविधि ।
नैव तत्राभवद्भोज्यं भक्ष्यं वा गौतमीतटे ॥१४१॥
तद्दिने तत्र वसतां गौतमीतीरवासिनाम् ।
तद्दृष्ट्वा दुःखितो भ्राता लक्ष्मणो राममब्रवीत् ॥१४२॥
लक्ष्मण उवाच
पुत्रौ दशरथस्याऽऽवां तवापि बलमीदृशम् ।
नास्ति भोज्यमथास्माकं गङ्गातीरनिवासिनाम् ॥१४३॥
राम उवाच
भ्रातर्यद्विहितं कर्म नैव तच्चान्यथा भवेत् ।
पृथिव्यामन्नपूर्णायां वयमन्नाभिलाषिणः ॥१४४॥
सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् ।
अवज्ञया महीदेवांस्तर्पयन्त्यर्चयन्ति न ॥१४५॥
ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः ।
स्नात्वा देवानथाभ्यर्च्य होतव्यश्च हुताशनः ॥
ततः स्वसमये देवो विधास्यत्यशनं तु नौ ॥१४६॥
ब्रह्मोवाच
भ्रात्रोः संजल्मपतोरेवं पश्यतोः कर्मणो गतिम् ।
शनैर्दशरथो राजा तं देशमुपजग्मिवान् ॥१४७॥
तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
धनुराकृष्य कोपेन रक्षस्त्वं दानवोऽथवा ॥१४८॥
आसन्नं च पुनर्दुष्ट्वा याहि यात्द्य(ह्य)त्र पुण्यभाक् ।
रामो दशरथी राजा धर्मभाक्पश्य वर्तते ॥१४९॥
गुरुभक्तः सत्यसंधो देवब्राह्मणसेवकः ।
त्रैलोक्यरक्षादक्षोऽसौ वर्तते यत्र राघवः ॥१५०॥
न तत्र त्वादृशामस्ति प्रवेशः पापकर्मणाम् ।
यदि प्रविशसे पाप ततो वधमवाप्स्यसि ॥१५१॥
तत्पुत्रवचनं श्रुत्वा शनैराहूय वाचया ।
उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः ॥
मुहुरन्तर्विनिध्यायन्गतिं दुष्कृतकर्मणः ॥१५२॥
राजोवाच
अहं दशरथो राजा पुत्रौ मे श्रृणुतं वचः ।
तिसृभिर्ब्रह्महत्याभिर्वृतोऽहं दुःखभागतः ॥
छिन्नं पश्यत मे देहं नरकेषु च पातितम् ॥१५३॥
ब्रह्मोवाच
ततः कृताञ्जली रामः सीतया लक्ष्मणेन च ।
भूमौ प्रणेमुस्ते सर्वे वचनं चैतदब्रुवन् ॥१५४॥
सीतारामलक्ष्मण ऊचुः
कस्येदं कर्मणस्तात फलं नृपतिसत्तम ॥१५५॥
ब्रह्मोवाच
स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा ॥१५६॥
राजोवाच
निष्कृतिर्ब्रह्महन्तॄणां पुत्रौ क्वापि न विद्यते ॥१५७॥
ब्रह्मोवाच
ततो दुःखेन महताऽऽवृताः सर्वे भुवं गताः ।
राजानं वनवासं च मातरं पितरं तथा ॥१५८॥
दुःखागमं कर्मगतिं नरके पातनं तथा ।
एवमाद्यथ संस्मृत्य मुमोह नृपतेः सुतः ॥
विसंज्ञं नृपतिं दृष्ट्वा सीता वाक्यमथाब्रवीत् ॥१५९॥
सीतोवाच
न शोचन्ति महात्मानस्त्वादृशा व्यसनागमे ।
चिन्तयन्ति प्रतीकारं दैव्यमप्यथ मानुषम् ॥१६०॥
शोचद्भिर्युगसाहस्रं विपत्तिर्नैव तीर्यते ।
व्यामोहमाप्नुवन्तीह न कदाचिद्विचक्षणाः । १२३.१६१॥
किमनेनात्र दुःखेन निष्फलेन जनेश्वर ।
देहि हत्यां प्रथमतो या जाता ह्यतिभीषणा ॥१६२॥
पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः ।
अनागा यो हतो विप्रस्तत्पापस्यात्र निष्कृतिम् ॥१६३॥
आचराणि यताशास्त्रं मा शोकं कुरुतं युवाम् ।
द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्वपरांभवान् ॥१६४॥
ब्रह्मोवाच
एतद्वर्मयुतं वाक्यं सीतया भाषितं दृढम् ।
तथेति चाऽऽहतुरुभौ ततो दशरथोऽब्रवीत् ॥१६५॥
दशरथ उवाच
त्वं हि व्रहमविदः कन्या जनकस्य त्वयोनिजा ।
भार्या रामस्य किं चित्रं यद्युक्तमनुभाषसे ॥१६६॥
न कोऽपि भवतां किंतु श्रमः स्वल्पोऽपि विद्यते ।
गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च ॥१६७॥
तिसृभिर्ब्रह्महत्याभिर्मुक्ता यामि त्रिविष्टपम् ।
त्वया जनकसंभूते स्वकुलोचितमीरितम् ॥१६८॥
प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः ।
गोदावर्याः प्रसादेन किं नामास्त्यत्र दुर्लभम् ॥१६९॥
ब्रह्मोवाच
तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा ।
नैवापश्यद्भक्ष्यभोज्यं ततो लक्ष्मणब्रवीत् ॥१७०॥
लक्ष्मणः प्राह विनयादिङ्गुद्याश्च फलानि च ।
सन्ति तेषां च पिण्याकमानीतं तत्क्षणादिव ॥१७१॥
पिष्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः ।
मनः कुर्वस्ततो रामो मन्दोऽभूद्दुःखितस्तदा ॥१७२॥
दैवी वागभवत्त दुःखं त्यज नृपात्मज ।
राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किंचनो भवान् ॥१७३॥
अशठो धर्मनिरतो न शोचितुमिहार्हसि ।
वित्तशाठ्येन यो धर्मं करोति स तु पातकी ॥१७४॥
श्रूयते सर्वशास्त्रेषु यद्राम श्रृणु यत्नतः ।
यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवताः ॥१७५॥
पिण्डे निपतिते भूमौ नापश्यत्पितरं तदा ।
शवं च पतितं यत्र शवतीर्थमनुत्तमम् ॥१७६॥
महापातकसंघातविघातकृदनुस्मृतिः ।
तत्राऽऽगच्छँल्लोकपाला रुद्रादित्यास्तथाऽशिवनौ ॥१७७॥
स्वं स्वं विमानमारूढास्तेषां मध्येऽतिदीप्तिमान् ।
विमानवरमारूढः स्तूयमानश्च किंनरैः ॥१७८॥
आदित्यसदृशाकारस्तेषां मध्ये बभौ पिता ।
तमदृष्ट्वा स्वपितरं देवान्दृष्ट्वा विमानिनः ॥१७९॥
कृताञ्जलिपुटो रामः पिता मे क्वेत्यभाषत ।
इति(ततो)दिव्याऽभवद्वाणी रामं संबोघ्य सीतया ॥१८०॥
तिसृभिर्ब्रह्महत्याभिर्मुक्तो दशरथो नृपः ।
वृतं पश्य सुरैस्तात देवा अप्यूचिरे च तम् ॥१८१॥
देवा ऊचुः
धन्योऽसि कृतकृत्योऽसि राम स्वर्गं गतः पिता ।
नानानिरयसंघातात्पूर्वजानुद्वरेत्तु यः ॥१८२॥
स धन्योऽलंकृतं तेन कृतिना भुवनत्रयम् ।
एनं पश्य महाबाहो मुक्तपापं रविप्रभम् ॥१८३॥
सर्वसंपत्तियुक्तोऽपि पापी दग्धद्रुमोपमः ।
निष्किंचनोऽपि सुकृती दृश्यते चन्द्रमौलिवत् ॥१८४॥
ब्रह्मोवाच
दृष्ट्वाऽब्रवीत्सुतं राजा आशीर्भिरभिनन्द्य च ॥१८५॥
राजोवाच
कृतकृत्योऽसि भद्रं ते तारितोऽहं त्वयाऽनघ ।
धन्यः स पुत्रो लोकेऽस्मिन्पितॄणां यस्तु तारकः ॥१८६॥
ब्रह्मोवाच
ततः सुरगणाः प्रोचुर्देवानां कार्यसिद्धये ।
रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् ॥
ततस्तद्वचनं श्रुत्वा रामस्तानब्रवीत्सुरान् ॥१८७॥
राम उवाच
गुरौ पितरि मे देवाः किं कृत्यमवशिष्यते ॥१८८॥
देवा ऊचुः
नदी न गङ्गा तुल्या न त्वाया सदृशः सुतः ।
न शिवेन समो देवो न तारेण समो मनुः ॥१८९॥
त्वया राम गुरूणां च कार्यं सर्वमनुष्ठितम् ।
तारिताः पितरो राम त्वया पुत्रेण मानद ॥
गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम् ॥१९०॥
ब्रह्मोवाच
तद्देववचनाद्धृष्टः सीतया लक्ष्मणाग्रजः ।
तद्दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यमब्रवीत् ॥१९१॥
राम उवाच
अहो गङ्गाप्रभावोऽयं त्रैलोक्ये नोपमीयते ।
वयं धन्या यतो गङ्गा दृष्टाऽस्माभिस्त्रिपावनी ॥१९२॥
ब्रह्मोवाच
हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् ।
तं षोडशीभिरीशानमुपाचरैः प्रयत्नतः ॥१९३॥
संपूज्याऽऽवरणैर्युक्तं षट्त्रिंशत्कलमीश्वरम् ।
कृताञ्जलिपुटो भूत्वा रामस्तुष्टाव संकरम् ॥१९४॥
राम उवाच
नमामि शंभुं पुरुषं पुराणं, नमामि सर्वज्ञमपारभावम् ।
नमामि रुद्रं प्रभुमक्षयं तं, नमामि शर्वं शिरसा नमामि ॥१९५॥
नमामि देवं परमव्य्यं तमुमापतिं लोकगुरुं नमामि ।
नमामि दारिद्र्यविदारणं तं, नमामि रोगापहरं नमामि ॥१९६॥
नमामि कल्याणमचिन्त्यरूपं, नमामि विश्वोद्भवबीजरूपम् ।
नमामि विश्वस्थितिकारणं तं, नमामि संहारकरं नमामि ॥१९७॥
नमामि गौरीप्रियमव्ययं तं, नमामि नित्यं क्षरमक्षरं तम् ।
नमामि चिद्रूपममेयभावं, त्रिलोचनं तं शिरसा नमामि ॥१९८॥
नमामि कारुण्यकरं भवस्य, भयंकरं वाऽपि सदा नमामि ।
नमामि दातारमभीप्सितानां, नमामि सोमेशमुमेशमादौ ॥१९९॥
नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् ।
नमामि पुण्यं सदसद्व्यतीतं, नमामि तं पापहरं नमामि ॥२००॥
नमामि विश्वस्य हिते रतं तं, नमामि रूपाणि बहूनि धत्ते ।
यो विश्वगोप्ता सदसत्प्रणेता, नमामि तं विश्वपतिं नमामि ॥२०१॥
यज्ञेश्वरं संप्रति हव्यकव्यं, तथा गतिं लोकसदाशिवो यः ।
आराधितो यश्च ददाति सर्वं,नमामि दानप्रियमिष्टदेवम् ॥२०२॥
नमामि सोमेश्वरमस्वत्त्रमुमापतिं तं विजयं नमामि ।
नमामि विघ्नेश्वरनन्दिनाथं, पुत्रप्रियं तं शिरसा नमामि ॥२०३॥
नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि ।
नमामि गङ्गाधरमीशमीड्यमुमाधवं देववरं नमामि ॥२०४॥
नमाम्यजादीशपुरंदरादिसुरासुरैर्चितपादपद्म ।
नमामि देवीमुखवादनानामीक्षार्थमक्षित्रितयं य ऐच्छत् ॥२०५॥
पञ्चामृतैर्गन्धसुधूपदीपैर्विचित्रपुष्पैर्विविधैश्च मन्त्रैः ।
अन्नप्रकारैः सकलोपचारैः, संपूजितं सोममहं नमामि ॥२०६॥
ब्रह्मोवाच
ततः स भगवानाह रामं शंभुः सलक्ष्मणम् ।
वरान्वृणीष्व भद्रं ते राम प्राह वृषध्वजम् ॥२०७॥
स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम ।
तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर ॥२०८॥
येषां च पितरः शंभो पतिता नरकार्णवे ।
तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टिपम् ॥२०९॥
जन्मप्रभृति पापानि(यच्चापि)मनोवाक्कायिकं त्वघम् ।
अत्र तु स्नानात्रेण तत्सद्यो नाशमाप्नुयात् ॥२१०॥
अत्र ये भक्तितः शंभो ददत्यर्थिभ्य अण्वपि ।
सर्वं तदक्षयं शंभो दातॄणां फलकृद्भवेत् ॥२११॥
ब्रह्मोवाच
एवमस्त्विति तं रामं शंकरो हृषितोऽब्रवीत् ।
गते तस्मिन्सुरश्रेष्ठे रामोऽप्यनुचरैः सह ॥२१२॥
गौतमी यत्र चोत्पन्ना शनैस्तं देशमभ्यगात् ।
ततः प्रभृति तत्तीर्थं रामतीर्थमुदाहृतम् ॥२१३॥
दयालोरपतत्त(द्य)त्र लक्ष्मणस्य कराच्छरः ।
तद्बाणतीर्थमभवत्सर्वापद्विनिवारणम् ॥२१४॥
यत्र सौमित्रिणा स्नानं शंकरस्यार्चनं कृतम् ।
तत्तीर्थं लक्ष्णणं जातं तथा सीतासमुद्भवम् ॥२१५॥
नानाविधाशेषपापसंघनिर्मूलनक्षमम् ।
यदङ्घ्रिसङ्गादभवद्गङ्गा त्रैलोक्यपावनी ॥२१६॥
स यत्र स्नानमकरोत्तद्वैशिष्ट्यं किमुच्यते ।
तद्रामतीर्थमदृशं तीर्थं क्वापि न विद्यते ॥२१७॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये रामतीर्थादितीर्थवर्णनं नाम त्रयोविंशाधिकशततमोऽध्यायः ॥१२३॥
गौतमीमाहात्म्ये चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP