ब्रह्मपुराणम् - अध्यायः ४९
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
इन्द्रद्युम्नकृतभगवत्सतुतिः
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण ।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ॥१॥
निर्मलाम्बरसंकाश नमस्ते पुरुषोत्तम ।
संकर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ॥२॥
नमस्ते हेमगर्भाभ नमस्ते मकारध्वज ।
रतिकान्त नमस्तेऽस्तु त्राहि मां संवरान्तक ॥३॥
नमस्तेऽञ्जनसंकाश नमस्ते विबुधप्रिय ।
नारायण नमस्तेऽस्तु त्राहिं मां वरदो भव ॥४॥
नमस्ते विबुधावास नमस्ते विबुधप्रिय ।
नारायण नमस्तेऽस्तु त्राहिं मां शरणागतम् ॥५॥
नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गायुध ।
चतुर्मुख जगद्धाम त्राहिं मां प्रपितामह ॥६॥
नमस्ते नीलमेघाभ नमस्ते त्रदशार्जित ।
त्राहिं विष्णो जगन्नाथ मग्नं मां भवसागरे ॥७॥
प्रलयानलसं काश नमस्ते दितिजान्तक ।
नरसिंह महावीर्य त्राहि मां दीप्तलोचन ॥८॥
यथा रसातलादुर्वीं त्वया दंष्ट्रोद्धृता पुरा ।
तथा महावराहस्त्वं त्राहि मांदुःखसागरात् ॥९॥
तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया ।
तवेमेबलदेवाद्याः पृथग्रूपेण संस्थिताः ॥१०॥
अङ्गानि तव देवेश गरुत्माद्यास्तता प्रभो ।
दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाऽच्युत ॥११॥
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ।
तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ॥१२॥
मयाऽर्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः ।
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ॥१३॥
भेदास्ते कीर्तिता ये तु हरे संकर्षणादयः ।
तव पूर्जार्थसंभूतास्ततस्त्वयि समाश्रिताः ॥१४॥
न भेदस्तव देवेश विद्यते परमार्थतः ।
विविधं तव यद्रूपमुक्तं तदुपचारतः ॥१५॥
अद्वैतं त्वां कथं द्वैतं वक्तुं शक्रोतिमानवः ।
एकस्त्वं हि हरे व्यापी चित्स्वबावो निरञ्जनः ॥१६॥
परमं तव यद्रुपं भावाभावविवर्जितम् ।
निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ॥१७॥
सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् ।
तद्देवास्च न जानन्ति कथं जानाम्यहं प्रभोः ॥१८॥
अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् ।
शङ्खचक३गदापाणिमुकुटाङ्गदधारिणम् ॥१९॥
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् ।
तदर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ॥२०॥
देवदेव सुरश्रेष्ठ भक्तानामभयप्रद ।
त्राहि मां पद्मपत्राक्ष मग्नं विषयसागरे ॥२१॥
जान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे ।
त्वामृते कमलाकान्त प्रसीद मधुसूदन ॥२२॥
राव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः ।
हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ॥२३॥
पतितोऽहं महारौद्रे घोरे संसारसागरे ।
विषमोदकदुष्पारे रागद्वेषझषाकुले ॥२४॥
इन्द्रियावर्तगम्भीरे तृष्णशोकोर्मिसंकुले ।
निराश्रये निरालम्बे निःसारेऽत्यन्तच्ञ्च्ले ॥२५॥
मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो ।
नानाजातिसहस्रेषु जयमानः पुनः पुनः ॥२६॥
मया जन्मान्यनेकानि सहस्राण्ययुतानि च ।
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन ॥२७॥
वेदाः साङ्ग मयाऽधीताः शास्राण्ययुतानि च ।
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन ॥२८॥
असंतोषाश्च संतोषाः संचयापचया व्ययाः ।
मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः ॥२९॥
भार्यारिमित्रबन्धूनां वियोगाः संगमास्तता ।
पितरो विविधा दृष्टा मातरस्च तथा मया ॥३०॥
दुःखानि चानुबूतानि यानि सौख्यान्यनेकशः ।
प्राप्ताश्च बान्धवाः पुत्रा भ्रातरोज्ञतयस्तथा ॥३१॥
मयोषितं तथा स्त्रीणां कोष्ठे विण्मुत्रपिच्छले ।
गर्भवासे महादुःखमनुभूतं तथा प्रभो ॥३२॥
दुःखानि यान्यनेकानि बाल्ययौवनागोचरे ।
वार्धके च हृषीकेश तानि प्राप्तानि वै मया ॥३३॥
मरणे यानि दुःखानि यममार्गे यमालये ।
मया तान्यनुभूतानि नरके यातनास्तथा ॥३४॥
कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् ।
महिषोष्ट्गवां चैव तथाऽन्येषां वनौकसाम् ॥३५॥
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु ।
धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ॥३६॥
नृपाणां नृपभृत्यानां तथाऽन्येषां च देहिनाम् ।
गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ॥३७॥
गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् ।
दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ॥३८॥
हतो मया हताश्चान्ये घातितो घातिततास्तथा ।
दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ॥३९॥
पितृमातृसुहहृद्भ्रातृकलत्राणां कृतेन च ।
धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ॥४०॥
उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन ।
देवतिर्ङ्मनुष्येषु स्थावरेषु चरेषु च ॥४१॥
न विद्यते तथा स्थानं यत्राहं न गतः प्रभो ।
कदा मे नरके वासः कदा स्वर्गे जगत्पते ॥४२॥
कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च ।
जलयन्त्रे यता चक्रे घटी रज्जुनिबन्धना ॥४३॥
याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति ।
तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमाव-तः ॥४४॥
भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् ।
न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ॥४५॥
शोकतष्णाभिबूतोऽहं कांदिशीको विचेतनः ।
इदानीं त्वामहं देव विह्वलः शरणं गतः ॥४६॥
त्राहि मां दुःखतं कृष्ण मग्नं संसारसागरे ।
कृपां कुरु जगन्नाथ भक्तं मं यदि मन्यसे ॥४७॥
त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे ।
कृपां कुरु जगन्नात भक्तं मां यदि मन्यसे ॥४८॥
त्वदृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति ।
देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ॥४९॥
जीविते मरणे चैव योगक्षेणेऽथ वा प्रभो ।
ये तु त्वां विधिवद्देव नार्चयन्ति नराधमाः ॥५०॥
सुगतिस्तु कथं तेषां भवेत्संसारबन्दनात् ।
किं तेषां कुलशीलेन विद्यया जीवितेन च ॥५१॥
येषां न जायते भक्तिर्जगद्धातरि केशवे ।
प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ॥५२॥
पतन्ति नरके घोरे जायमानाः पुनः पुनः ।
न तेषां निष्कृकिस्तस्माद्विद्यते नरकार्णवात् ॥५३॥
ये दूषयन्तित दुर्वृत्तास्त्वां देव पुरूषाधमाः ।
यत्र यत्र भवेज्जन्म मम क्रमनिबन्धनात् ॥५४॥
तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा ।
आराध्य त्वां सुरा दैत्या नराश्चान्येऽपि संयताः ॥५५॥
अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् ।
न शक्नुवन्ति ब्रह्माद्याः स्तेतुं त्वां त्रिदसा हरे ॥५६॥
कथं मानुषबुद्ध्याऽहं स्तौमि त्वां प्रकृते परम् ।
तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ॥५७॥
तत्क्षमस्वापराधं मे यदि तेऽस्ति दया मयि ।
कृपापराधेऽपि हरे क्षमां कुर्वन्ति साधवः ॥५८॥
तस्मात्प्रसीद देवेश भक्तस्नेहं समाश्रितः ।
स्तुतोऽसि यन्मया देव भक्ति भावेन चेतसा॥
साङ्गं भवतु ततसर्वं वासुदेव नमोऽस्तु ते ॥५९॥
ब्रह्मोवाच
इत्थं स्तुतास्तदा तेन प्रसन्नो गरुडध्वजः ।
ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम् ॥६०॥
यः संपूज्य जगन्नाथं प्रत्यहं स्तौति मानवः ।
स्तोत्रेणानेन मतिमान्स मोक्षं लभते ध्रुवम् ॥६१॥
त्रिसंध्यं यो जपेद्विद्वानिदं स्तोत्रवरं शुचिः ।
धर्मं चार्थं च कामं च मोक्षं च लभते नरः ॥६२॥
यः पठेच्छृणुयाद्वाऽपि श्रावयेद्वा समाहितः ।
स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः ॥६३॥
धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् ।
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् ॥६४॥
न नास्तिकाय मूर्खाय न कृतध्नाय मानिने ।
न दुष्टमतये दद्यान्नाभक्ताय कदाचन ॥६५॥
दातव्यं भक्तियुक्ताय गुणशीलान्विताय च ।
विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने ॥६६॥
इदं समस्ताघविनाशहेतुः, कारुण्यसंज्ञं सुखमोभदं च ।
अशेषवाञ्छाफलदं वरिष्ठं, स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥६७॥
ये तं सुसूक्ष्मं विमला मुरारिं, ध्यायन्ति नित्यं पुरषं पुराणम् ।
ते मुक्तिभाजः प्रविशनति विष्णुं, मन्त्रैर्यथाऽऽज्यं हुतमध्वराग्नौ ॥६८॥
एकः स देवो भवदुःखहन्ता, परः परेषां न ततोऽस्ति चान्यत् ।
द्र (स्र) ष्टा स पाता स तु नाशकर्ता, विष्णुः समस्ताखिलसारभूतः ॥६९॥
किं विद्यया किं स्वगुणैस्च तेषां, यज्ञैश्च दानैश्च तपोभिरुग्रैः ।
येषां न भक्तिर्भवतीह कृष्णे, जगद्गुरौ मोक्षसुखप्रदे च ॥७०॥
लोके स धन्यः स शुचिः स विद्वान् मखैस्तपोभिः स गुणैर्वरिष्ठः ।
ज्ञाता स दाता स तु स्त्यवक्ता, यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ॥७१॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे कारुण्यस्तवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः॥ ४९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP