ब्रह्मपुराणम् - अध्यायः १९१
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अक्रूरगमनवर्णनम्
व्यास उवाच
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाऽऽशुगामिना ।
कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले ॥१॥
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥२॥
अद्य मे सफलं जन्म सुप्रभाता च मे निशा ।
यदुन्निद्राब्जपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥३॥
पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् ।
तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥४॥
निर्जग्मुश्च यतो वेदा वेदाङ्गान्यखिलानि च ।
द्रक्ष्यामि यत्परं धाम देवानां भगवन्मुखम् ॥५॥
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥६॥
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥७॥
न ब्रह्म नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः ।
यस्य स्वरूपं जानन्ति स्पृशत्यद्य स मे हरिः ॥८॥
सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः ।
यो भवत्यव्ययो व्यापी स वीक्ष्यते मयाऽद्य ह ॥९॥
मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् ।
चकार योगतो योगं स मामालापयिष्यति ॥१०॥
सांप्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् ।
कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृगव्ययः ॥११॥
योऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् ।
सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ॥१२॥
पितृबन्धुसुहृद्भातृमातृबन्धुमयीमिमाम् ।
यन्मायां नालमुद्धर्तुं जगत्तस्मै नमो नमः ॥१३॥
तरन्त्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगमायामिमां मर्त्यास्तस्मै विद्यात्मने नमः ॥१४॥
यज्वभिर्यज्ञपुरुषो वासुदेवश्च शाश्वतैः ।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥१५॥
तथा यत्र जगद्धाम्नि धार्यते च प्रतिष्ठितम् ।
सदसत्त्वं मय्यसौ यातु सौम्यताम् ॥१६॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम् ॥१७॥
इत्थं स चिन्तयन्विष्णुं भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुलं प्राप्तः किंचित्सूर्ये विराजति ॥१८॥
स ददर्श तदा तत्र कृष्णमादोहने गवाम् ।
वत्समध्यगतं फुल्लनीलोत्पलदलच्छविम् ॥१९॥
प्रफुल्लपद्मपत्राक्षं श्रीवत्साङ्कितवक्षसम् ।
प्रलम्बबाहुमायामतुङ्गोरस्थलमुन्नसम् ॥२०॥
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥२१॥
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
सान्द्रनीललताहस्तं सिताम्भोजावतंसकम् ॥२२॥
हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः ।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥२३॥
प्रांशुमुत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् ।
मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥२४॥
तौ दृष्ट्वाविकसद्क्त्रसरोजः सः महामतिः ।
पुलकाञ्चितसर्वाङ्स्तदाऽक्रूरोऽभवद्द्विजाः ॥२५॥
य एतत्परमं धाम एतत्तत्परमं पदम् ।
अभवद्वसुदेवोऽसौ द्विधा योऽयं व्यवस्थितः ॥२६॥
साफल्यमक्ष्णोर्युगपन्ममास्तु, दृष्टे जगद्धातरि हासमुच्चैः(?) ।
अप्यङ्गमेतद्भगवत्प्रसादाद्दत्ताङ्गसङ्गे फलवर्त्म तत्स्यात् ॥२७॥
अद्यैव स्पृष्ट्वा मम हस्तपद्मं, करिष्यति श्रीमदनन्तमूर्तिः ।
यस्याङ्गुलिस्पर्शहताखिलाघैरवाप्यते सिद्धिरनुत्तमा नरैः ॥२८॥
तथाऽऽश्विरुद्रेन्द्रवसुप्रणीता, देवाः प्रयच्छन्ति वरं प्रहृष्टाः ।
चक्रं घ्नता दैत्यपतेर्हृतानि, दैत्याङ्गनानां नयनान्तराणि ॥२९॥
यत्रा(तोऽ)म्बु विन्यस्य बलिर्मनोभ्याम(ज्ञान)वाप भोगान्वसुधातलस्थः ।
तथाऽमरेशस्त्रिदशाधिपत्यं, मन्वन्तरं पूर्णमवाप शक्रः ॥३०॥
अथेश(थापि)मां कंसपरिग्रहेण, दोषास्पदीभूतमदोषयुक्तम् ।
कर्ता न मानोपहितं धिगस्तु, यस्मान्मनः साधुबहिष्कृतो यः(?) ॥३१॥
ज्ञानात्मकस्याखिलसत्त्वराशेर्व्यावृत्तदोषस्य सदाऽस्फुटस्य ।
किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति हृदि स्थितस्य ॥३२॥
तस्मादहं भक्तिविनम्रगात्रो, व्रजामि विश्वेश्वरमीश्वराणाम् ।
अंशावतारं पुरुषोत्तमस्य, अनादिमध्यान्तमजस्य विष्णोः ॥३३॥
इति श्रीमहापुराणे आदिब्राह्मे कृष्णक्रीडायामक्रूरागमनवर्णनं नामैकनवत्यधिकशततमोऽध्यायः ॥१९१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP