ब्रह्मपुराणम् - अध्यायः ५४
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
मार्कण्डेयाख्यानम्
ब्रह्मोवाच
स प्रविश्योदरे तस्य बालस्य मुनिसत्त्मः ।
ददर्श पृथवीं कृत्स्नां नानाजनपदैर्वृताम् ॥१॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलोदधीन् ।
ददर्श तान्समुद्रांश्च जम्बु प्लक्षं च शाल्मलम् ॥२॥
कुशं क्रौञ्चंचशाकं च पुष्करं च ददर्श सः ।
भारतादीनि वर्षाणि तथा सर्वंश्च पर्वतान् ॥३॥
मेरुं च सर्वरत्नाढ्यमपश्यत्कनकाचलम् ।
नानारत्नान्वितैः श्रृङ्गैर्भूषितं बहुकन्दरम् ॥४॥
नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् ।
नानासत्त्वसमायुक्तं नानाशचर्यसमन्वितम् ॥५॥
व्याघ्रैः सिंहर्वराहैस्च चामरेर्महिषैर्गजै ।
मृगैः शाखामृगैश्चान्यैर्भूषितं सुमनोहरम् ॥६॥
शक्राद्यैर्विविधैर्देवैः सिद्धचारणपन्नगैः ।
मुनियक्षाप्सरोभिश्च वृतैश्चान्यैः सुरालयैः ॥७॥
ब्रह्मोवाच
एवं सुमेरुं श्रीमन्तमपश्यन्मुनिसत्तमः ।
पर्यटन्स तदा विप्रस्तस्य बालस्य चोदरे ॥८॥
हिमवन्तं हेमकूटं निषधं गन्धमादनम् ।
श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम् ॥९॥
महेन्द्रं मलयं विन्ध्यं पारियात्रं तथाऽर्बुदम् ।
सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम् ॥१०॥
एताश्चान्यास्च बहवो यावन्तः पृथिवीधराः ।
ततस्तांस्तु मनिश्रेष्ठाः सोऽपश्यद्रत्नभूषितान् ॥११॥
कुरुक्षेत्रं च पाञ्चालान्मत्स्यान्मद्रान्सकेकयान् ।
वाह्लीकान्शूरसेनांश्च काश्मीरांस्तङ्गणान्खसान् ॥१२॥
पार्वतीयान्किरातांश्च कर्णप्रावरणान्मरून् ।
अन्त्यजान्त्यजातींस्च सोऽपश्यत्तस्य चोदरे ॥१३॥
मृगाच्छाखामृगान्सिंहान्वराहन्सृमराञ्छशान् ।
गजांश्चान्यांस्तथा सत्त्वान्सोऽपस्यत्तस्य चोदरे ॥१४॥
पृथिव्यां यानि तीर्थानि ग्रामश्च नगराणि च ।
कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा ॥१५॥
शक्रादीन्विबुधाञ्छेष्ठांस्तथाऽन्यांश्च दिवौकसः ।
गन्धर्वाप्सरसो यक्षानृषींश्चैव सनातनान् ॥१६॥
दैत्यदानवसंघांश्च नागांश्च मुनिसत्तमाः ।
सिंहिकातनयांश्चैव ये चान्ये सुरशत्रवः ॥१७॥
यत्किंचित्तेन लोकेऽस्मिन्दृष्टपूर्वं चराचरम् ।
अपश्यत्स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः ॥१८॥
अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः ।
ब्रह्मादिस्तम्बपर्यन्तं यत्किंचित्सचराचरम् ॥१९॥
भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः ।
महर्जनस्तपः सत्यमतलं वितलं तथा ॥२०॥
पातालं सुतलं चैव वितलं च रसातलम् ।
महातलं च ब्रह्माण्डमपश्यत्त्स्य चोदरे ॥२१॥
अव्याहता गतिस्तस्य तदाऽभूद्द्विजसत्तमाः ।
प्रसादात्तस्य देवस्य स्मृतिलोपश्च नाभवत् ॥२२॥
भ्रममाणस्तदा कुक्षौ कृत्स्नं जगदिदं द्विजाः ।
नान्तं जगाम देहस्य तस्य विष्णोः कदाचन ॥२३॥
यदाऽसौ नाऽऽगतश्चान्तं तस्य देहस्य भो द्विजाः ।
तदा तं वरदं देवं शरणं गतवान्मुनिः ॥२४॥
ततोऽसौ सहसा विप्रा वायुवेगेन निःसृतः ।
महात्मनो मुखात्तस्य विवृतात्पुरुषस्य सः ॥२५॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे मार्कण्डेयस्य भगवत्कुक्षिपरिवर्तनं नाम चतुष्पश्चाशत्त्मोध्यायः॥ ५४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP