गौतमकृतमुमामहेश्वरस्तवनम्
नारद उवाच
कैलासशिखरं गत्वा गौतमो भगवानृषिः ।
किं चकार तपो वाऽपि कां चक्रे स्तुतिमुत्तमाम ॥१॥
गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः ।
आस्तीर्य स कुशान्प्राज्ञः कैलासे पर्वतोत्तमे ॥२॥
उपविश्य शुचिर्भूत्वा स्तोत्रं चेदं ततो जगौ ।
अपतत्पुष्पवृष्टिश्च स्तूयमाने महेश्वरे ॥३॥
गौतम उवाच
भोगार्थिनां भोगमभीप्सितं च, दातुं महान्त्यष्टवपूंषि धत्ते ।
सोमो जनानां गुणवन्ति नित्यं, देवं महादेवमिति स्तुवन्ति ॥४॥
कर्तुं स्वकीयैर्विषयैः सुखानि, भर्तुं समस्तं सचराचरं च ।
संपत्तये ह्यस्य विवृद्धये च, महीमयं रूपमितीश्वरस्य ॥५॥
सृष्टेः स्थितेः संहरणाय भूमेराधारमाधातुमपां स्वरूपम् ।
भेजे शिवः शान्ततनुर्जनानां, सुखाय धर्माय जगत्प्रतिष्ठितम् ॥६॥
कालव्यवस्थाममृतस्रवं च, जीवस्थितिं सृष्टिमथो विनाशनम् ।
मुदं प्रजानां सुखमुन्नतिं च, चक्रेऽर्कचन्द्राग्निमयं शरीरम् ॥७॥
वृद्धिं गतिं शक्तिमथाक्षराणि, जीवव्यस्थां मुदमप्यनेकाम् ।
स्रष्टुं कृतं वायुरितीशरूपं, त्वं वोत्सि नूनं भगवन्भवन्तम् ॥८॥
भेदैर्विना नैव कृतिर्न धर्मो, नाऽऽत्मीयमन्यन्न दिशोऽन्तरिक्षम् ।
द्यावापृथिव्यौ न च भुक्तिमुक्ती, तस्मादिदं व्योमवपुस्तवेश ॥९॥
धर्मं व्यवस्थापयितुं व्यवस्य, ऋक्सामशास्त्राणि यजुश्च शाखाः ।
लोके च गाथाः स्मृतयः पुराणमित्यादिशब्दात्मकतामुपैति ॥१० ।
यष्टा क्रतुर्यान्यपि साधनानि, ऋत्विक्प्रदेशं(यं)फलदेशकाला ।
त्वमेव शंभो परमार्थतत्त्वं, वदन्ति यज्ञाङ्गमयं वपुस्ते ॥११॥
कर्ता प्रदाता प्रतिभूः प्रदानं, सर्वज्ञसाक्षी पुरुषः परश्च ।
प्रत्यात्मभूतः परमार्थरूपस्त्वमेव सर्वं किमु वाग्विलासैः ॥१२॥
न वेदशास्त्रैर्गुरुभिः प्रदिष्टो, न नासि बुद्ध्यादिभिरप्रधृष्यः ।
अजोऽप्रमेयः शिवशब्दवाच्यस्त्वमस्ति(मेव)सत्यं भगवन्नमस्ते ॥१३॥
आत्मैकतां स्वप्रकृतिं कदाचिदैक्षच्छिवः संपदियं ममेति ।
पृथक्तदैवाभवदप्रतर्क्याचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥१४॥
भावोऽभिवृद्धा च भवे भवे च, स्वकारणं कारणमास्थिता च ।
नित्या शिवा सर्वसुलक्षणा वा, विलक्षणा विश्वकरस्य शक्तिः ॥१५॥
उत्पादनं संस्थितिरन्नवृद्धिलयाःसतां यत्र सनातनास्ते ।
एकैव मूर्तिर्न समस्ति किंचिदसाध्यमस्या दयिता हरस्य ॥१६॥
यदर्थमन्नानि धनानि जीवा, यच्छन्ति कुर्वन्ति तपांसि धर्मान् ।
साऽपीयमम्बा जगतो जनित्री, प्रिया तु सोमस्य महासुकीर्तिः ॥१७॥
यदीक्षितं काङ्क्षति वासवोऽपि, यन्नामतो मङ्गलमाप्नुयाच्च ।
या व्याप्य विश्वं विमलीकरोति, सोमा सदा सोमसमानरूपा ॥१८॥
ब्रह्मादिजीवस्य चराचरस्य, बुद्ध्यक्षिचैतन्यमनःसुखानि ।
यस्याः प्रसादात्फलवन्ति नित्यं, वागीश्वरी लोकगुरोः सुरम्या ॥१९॥
चतुर्मुखस्यापि मनो मलीनं किमन्यजन्तोरिति चिन्त्य माता ।
गङ्गाऽवतारं विविधैरुपायैः, सर्वं जगत्पावयितुं चकार ॥२०॥
श्रुतीः समालक्ष्य हरप्रभुत्वं, विश्वस्य लोकः सकलैः प्रमाणैः ।
कृत्वा च धर्मान्बुभुजे च भोगान्विभूतिरेषा तु सदाशिवस्य ॥२१॥
कार्यक्रियाकारकसाधनानां, वेदोदितानामथ लौकिकानाम् ।
यत्साध्यमुत्कृष्टतमं प्रियं च, प्रोक्ता च सा सिद्धिरनादिकर्तुः ॥२२॥
ध्यात्वा वरं ब्रह्म परं प्रधानं, यत्सारभूतं यदुपासितव्यम् ।
यत्प्राप्य मुक्ता न पुनर्भवन्ति, सद्योगिनो मुक्तिरुमापतिः सः ॥२३॥
यथा यथा शंभुरमेयमायारूपाणि धत्ते जगतो हिताय ।
तद्योगयोग्यानि तथैव धत्से, पतिव्रतात्वं त्वयि मातरेवम् ॥२४॥
ब्रह्मोवाच
इत्येवं स्तुवतस्तस्य पुरस्ताद्वृषभध्वजः ।
उमया सहितः श्रीमान्गणेशादिगणैर्वृतः ॥२५॥
साक्षादागत्य तं शंभुः प्रसन्नो वाक्यमब्रवीत् ॥२६॥
शिव उवाच
किं ते गौतम् दास्यामि भक्तिस्तोत्रव्रतैः शुभैः ।
परितुष्टोऽस्मि याचस्व देवानामपि दुष्करम् ॥२७॥
ब्रह्मोवाच
इति श्रुत्वा जगन्मूर्तेर्वाक्यं वाक्यविशारदः ।
हर्षवाष्पपरीताङ्गो गौतमः पर्यचिन्तयत् ॥२८॥
अहो दैवमहो धर्मो ह्यहो वै विप्रपूजनम् ।
अहो लोकगतिश्चित्रा अहो धातर्नमोऽस्तु ते ॥२९॥
गौतम उवाच
जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित ।
यदि तुष्टोऽसि देवेश त्रयीधाम नमोऽस्तु ते ॥३०॥
ईश्वर उवाच
त्रयाणामुपकारार्थं लोकानां याचितं त्वया ।
आत्मनस्तूकाराय तद्याचस्वाकुतोभयः ॥३१॥
गौतम उवाच
स्तोत्रेणानेन ये भक्तास्त्वां च देवीं स्तुवन्ति वै ।
सर्वकामसमृद्धाः स्युरेतद्धि वरयाम्यहम् ॥३२॥
ब्रह्मोवाच
एवमस्त्विति देवेशः परितुष्टोऽब्रवीद्वचः ।
अन्यानपि वरान्मत्तो याचस्व विगतज्वरः ॥३३॥
एवमुक्तस्तु हर्षेण गौतमः प्राह शंकरम् ॥३४॥
गौतम् उवाच
इमां देवीं जटासमस्थां पावनीं लोकपावनिम् ।
तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ ॥३५॥
सर्वासां तीर्थभूता तु यावद्गच्छति सागरम् ।
ब्रह्मह्त्यादिपापानि मनोवाक्कायिकानि च ॥३६॥
स्नानमात्रेण सर्वाणि विलयं यान्तु शंकर ।
चन्द्रसूर्योपरागे च अयने विषुवे तथा ॥३७॥
संक्रान्तौ वैधृतौ पुण्यतीर्थेष्वन्येषु यत्फलम् ।
अस्यास्तु स्मारणादेव तत्पुण्यं जायतां हर ॥३८॥
श्लाघ्यं कृते तपः प्रोक्तः त्रेतायां यज्ञकर्म च ।
द्वापरे यज्ञदाने च दानमेव कलौ युगे ॥३९॥
युगधर्माश्च ये सर्वे देशधर्मास्तथैव च ।
देशकालादिसंयोगे यो धर्मो यत्र शस्यते ॥४०॥
यदन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः ।
अस्यास्तु स्मरणादेव तत्पुण्यं जायतां हर ॥४१॥
यत्र यत्र त्वियं याति यावत्सागरगामिनी ।
तत्र तत्र त्वया भाव्यमेष चास्तु वरो वरः ॥४२॥
योजनानां तूपरि तु दशा यावच्च संख्यया ।
तदन्तरप्रविष्टानां महापातकिनामपि ॥४३॥
तत्पितॄणां च तेषा च स्नानायाऽऽगच्छतां शिव ।
स्नाने चताप्यन्तरे मृत्योर्मुक्तिभाजो भवन्तु वै ॥४४॥
एकतः सर्वतीर्थानि स्वर्गमतर्त्यरसातले ।
एषा तेभ्यो विशिष्टा तु अलं शंभो नमोऽस्तु ते ॥४५॥
ब्रह्मोवाच
तद्गौतमवचः श्रुत्वा तथाऽस्त्वित्यब्रवीच्छिवः ।
अस्याः परतरं तीर्थं न भूतं न भविष्यति ॥४६॥
सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम् ।
सर्वेषां गौतमी पुण्या इत्युक्त्वाऽन्तरधीयत ॥४७॥
ततो गते भगवति लोकपूजिते, तदाज्ञया पूर्णबलः स गौतमः ।
जटां समादाय सरिद्वरां तां, सुरैर्वृतो ब्रह्मगिरिं विवेश ॥४८॥
ततस्तु गौतमे प्राप्ते जटामादाय नारद ।
पुष्पवृष्टिरभूत्तत्र समाजग्मुः सुरेश्वराः ॥४९॥
ऋषयश्च महाभागा ब्राह्मणाः क्षत्रियास्तथा ।
जयशब्देन तं विप्रं पूजयन्तो मुदन्विताः ॥५०॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे तीर्थमाहात्म्ये गौतम्यानयनं नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥