संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४३

ब्रह्मपुराणम् - अध्यायः ४३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अवन्तिकावर्णन्म्
ब्रह्मोवाच
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः ।
बभूव नृपतिः श्रीमानिन्द्रद्युम्न इति श्रुतः ॥१॥

सत्यदादी शुचिर्दक्षः सर्वशास्त्रविशारदः ।
रूपवान्सुभगः शूरो दाता भोक्ता प्रियंवदः ॥२॥

यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः ।
धनुर्वेदे च वेदे च सास्त्रे च निपुण कृती ॥३॥

वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ।
आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः ॥४॥

वैष्णवः सत्त्वसंपन्नो जितक्रोधो जितेन्द्रियः ।
अध्येता योगसांख्यानां मुमुक्षुर्धर्मतत्परः ॥५॥

एवं स पालयन्पृथ्वीं राजा सर्वगुणाकरः ।
तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति ॥६॥

कथमाराधयचिष्यामि देवदेवं जनार्दनम् ।
कस्मिन्क्षेत्रेऽथवा तीर्थे नदीतीरे तथाऽऽश्रमे ॥७॥

एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम् ।
आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि ॥८॥

तानि सर्वाणि संत्यज्य जगामाऽऽयतनं पुनः ।
विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥९॥

स गत्वा तत्क्षेत्रवरं समृद्धबलवाहनः ।
अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः ॥१०॥

कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् ।
तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ॥११॥

पञ्चतीर्थं च विधिवत्कृत्वा तत्र महीपतिः ।
स्नानं दानं तपो होमं देवताप्रेक्षणं तथा ॥१२॥

भक्त्या चाऽऽराध्य विधिवत्प्रत्यहं पुरुषोत्तमम् ।
प्रसादाद्‌देवदेवस्य ततो मोक्षमवाप्तवान् ॥१३॥

मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः ।
सागरे चेन्द्रद्भुम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम् ॥१४॥

मुनय ऊचुः
कस्मात्स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः ।
जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ॥१५॥

गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः ।
वाजिमेधेन विधिवदिष्टवान्पुरुषोत्तमम् ॥१६॥

कथं स सर्वफलदे क्षेत्रे परमदुर्लभे ।
प्रासादं कारयामास चेष्टं त्रैलोक्याविश्रुतम् ॥१७॥

कथं स कृष्णं रामं च सुभद्रां च प्रजापते ।
निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान्कथम् ॥१८॥

कथं तत्र महीपालः प्रासादे भुवनोत्तमे ।
स्थापयामास मतिमान्कृष्णादींस्त्रिदशार्चितान् ॥१९॥

एतत्सर्वं सुरश्रेष्ठ विस्तरेम यताथम् ।
वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः ॥२०॥

 न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै ।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥२१॥

ब्रह्मोवाच
साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम् ।
सर्वपापहरं पुण्यं भिक्तिमुक्तिप्रदं शुभम् ॥२२  ।
वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे ।
श्रृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः ॥२३॥

अवन्ती नाम नगरी मालवे भुवि विश्रुता ।
बभूव तस्य नृपतेः पृथिवी ककुदोपमा ॥२४॥

हृष्टपुष्टजनाकीर्मा द्वढप्राकारतोरणा ।
दृढयन्त्रार्गलद्वारा परिखाभिरलंकृता ॥२५॥

नानाविणिक्समाकीर्णा नानाभाण्डसुविक्रिया ।
रथ्यापणवती रम्या सुविभक्तचतुष्पथा ॥२६॥

गृहगोपुरसंबाधा वीथीभिः समलंकृता ।
राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः ॥२७॥

अनेकशतसास्रैः प्रासादैः समलंकृता ।
यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना ॥२८॥

नानावर्ण पताकाभिर्ध्वजैश्च समलंकृता ।
हस्त्यश्वरथसंकीर्मपदातिगणसंकुला ॥२९॥

नानायोधसमाकीर्णा नानाजनपदैर्युता ।
ब्राह्मणैः क्षत्रियैर्वश्यैः शूद्रैश्चैव द्विजातिभिः ॥३०॥

समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलंकृता ।
न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः ॥३१॥

न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः ।
सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रिय ॥३२॥

क्रीडनति स्म दिवा रात्रौ हृष्टास्तत्र पृथक्पृथक् ।
सुवेषाः पुरुषास्तत्र दृश्यते मृष्टकुण्डलाः ॥३३॥

सरूपाः सुगुणाश्चैव दिव्यालंकारभूषिताः ।
कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः ॥३४॥

सुकेशाः सुकपोलास्च सुमुखाः श्मश्रुधारिणः ।
ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम् ॥३५॥

दातारः सर्वरत्नानां भोक्तारः सर्वसंपदाम् ।
स्त्रियस्तत्र मुनिश्रेष्ठा दृस्यन्ते सुमनोहरा ॥३६॥

हंसवारणगामिन्यः प्रफुल्लाम्बोजलोचनाः ।
सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः ॥३७॥

सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः ।
हावभावानतग्रीवाः कर्णाभरणभूषिताः ॥३८॥

बिम्बोष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः ।
सुवर्णाभरणोपेताः सर्वालंकारभूषिताः ॥३९॥

श्यामावदाताः सुश्रेण्यः काञ्चीनूपुरनादिताः ।
दिव्यमाल्याम्बधरा दिव्यगन्धानुलेपनाः ॥४०॥

विदग्धाः सुभगाः कान्ताश्चार्वाङ्ग्‌यः प्रियदर्शनाः ।
रूपलाबण्यसंयुक्ताः सर्वाः प्रहसिताननाः ॥४१॥

क्रीडन्त्यश्च मदोन्मत्ताः सभासु चत्वरेषु च ।
गीतावाद्यतालापै रमयन्त्यश्व ताः स्त्रियः ॥४२॥

वारमख्यास्च दृश्यन्ते नृत्यगीतविशारदाः ।
प्रेक्षणालापकुशलाः सर्वयोषिद्‌गुणान्विताः ॥४३॥

अन्याश्च तत्र दृस्यन्ते गुणाचार्याः कुलस्त्रियः ।
पतिव्रताश्च सुभगा गुणैः सर्वैरलंकृताः ॥४४॥

वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः ।
देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः ॥४५॥

शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः ।
पिप्पलैः कर्णिकारैश्च चन्दनागुरु चम्पकैः ॥४६॥

पुंनार्गर्नारिकेरैश्च पनसैः सरलद्रुमैः ।
नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः ॥४७॥

चूतबिल्वकदम्बैस्च शिंशपैर्धवखादिरैः ।
पाटलाशोकतगरैः करवीरैः सितेतरैः ॥४८॥

पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा ।
न्यग्रोधास्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः ॥४९॥

मन्दारैः पारिजातैश्च तिन्तिडीकविबीतकैः ।
प्राचीनामलकैः प्लक्षैर्जम्बूसिरीषपादपैः ॥५०॥

कालेयैः पाञ्चनारैश्च मधुजम्बीरतिन्दुकैः ।
खर्जुरागस्त्यबकुलैः शाखोटकहरोतकैः ॥५१॥

कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीदजपूरकैः ।
केतकीवनखण्डैश्च अतिमुक्तैः सुकब्जकैः ॥५२॥

मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः ।
मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः ॥५३॥

बहुवारैः कोविदारैर्वदरैः सकरञ्जकैः ।
अन्यैश्च विविधैः पुष्पवृक्षैश्चान्यैर्मनोहरैः ॥५४॥

लतागुल्मैर्वितानैस्च उद्यानैर्नन्दनोपमैः ।
सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः ॥५५॥

नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः ।
चकोरैः शतपत्रैश्च भृङ्गारैः प्रियपुत्रकैः ॥५६॥

कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा ।
कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा ॥५७॥
खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः ।
सरितः पुष्कपिम्यश्च सरांसि सुबहूनि च ॥५८॥

अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः ।
पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः ॥५९॥

अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः ।
गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्जवलैः ॥६०॥

हंसकारण्डवाकीर्णैस्चक्रवाकोपशोभितैः ।
सारसैश्च बलसाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः ॥६१॥

जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः ।
खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः ॥६२॥

नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः ।
एवं नानाविधैः पुष्पैर्विविधैस्च जलाशयैः ॥६३॥

विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा ।
जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठतैः ॥६४॥

देवतायतनैर्दिव्यैः शोबिता सा महापुरी ।
तत्राऽऽस्ते भगवान्देवस्त्रिपुरारिस्त्रिलोचनः ॥६५॥

महाकालेति विख्यातः सर्वकामप्रदः शिवः ।
शिवकुण्डे नरः स्नात्वा विधिवत्पापनाशने ॥६६॥

देवान्पितॄनृषींश्चैव संतर्पय विधिवद्‌बुधः ।
गत्वा शिवालयं पश्चात्कृत्वा तं त्रिःप्रदक्षिणम् ॥६७॥

प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः ।
स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दोपैश्च भक्तितः ॥६८॥

नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः ।
दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैस्च शंकरम् ॥६९॥

संपूज्य विधिवद्भवात्या महाकालं सकृच्छिवम् ।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥७०॥

पापैः सर्वैर्विनिर्मुक्तो विमानैः सर्वकामिकैः ।
आरुह्य त्रिदिवं याति यत्र शंभोर्निकेतनम् ॥७१॥

दिव्यरूपधरः श्रीमान्दिव्यालंकारभूषितः ।
भुङ्क्ते तत्र वरान्भोगान्यावदाभूतसंप्लवम् ॥७२॥

शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः ।
पुण्यक्षयादिहाऽऽयातः प्रवरे ब्राह्मणे कुले ॥७३॥

चतुर्वेदी भवेद्विप्रः सर्वशास्त्रविशारदः ।
योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥७४॥

आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता ।
तस्यां स्नातस्तु विधिवत्संतर्प्य पितृदेवताः ॥७५॥

सर्वपापविनिर्मुक्तो विमानवरमास्थितः ।
भुङ्क्ते बहुविदान्भोगान्स्वर्गलोके नरोत्तमः ॥७६॥

आस्ते तत्रैव भगवान्देदेवो जनार्दनः ।
गोविन्दस्वामिनामाऽसौ भुक्तिमुक्तिप्रदो हरिः ॥७७
तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः ।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥७८॥

सर्वकामसमृद्धेन कामगेनास्थिरेम च ।
उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते ॥७९॥

भुङ्क्ते च विविधान्कामान्निरातङ्को गतज्वरः ।
आभूतसंप्लवं यावत्सुरूपः सुभगः सुखी ॥८०॥

कालेनाऽऽगत्य मतिमान्ब्राह्मणः स्यान्महीतले ।
प्रवरेयोगिनां गेहे वेदशास्त्रार्थतत्त्ववित् ॥८१॥

वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ।
विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः ॥८२॥

दृष्ट्वा नरो नारी वा फलं पूर्वोदितं लभेत् ।
अन्येऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः ॥८३॥

मातरश्च मुनिश्रेष्ठा सर्वकामफलप्रदाः ।
दृष्ट्वा तान्विधिवद्‌भक्त्या संपूज्य प्रणिपत्य च ॥८४॥

सर्वपापिविनिर्मुक्तो नरो याति त्रिविष्टपम् ।
एवं सा नगरी रम्या रादजसिंहेन पालिता ॥८५॥

नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती ।
पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा ॥८६॥

धनुर्ज्याघोषनिनदा सिद्धसंगमभूषिता ।
विद्यावद्‌गमभूयिष्ठा वेदनिर्घोषनादिता ॥८७॥

इतिहासपुराणानि शास्त्राणि विविधानि च ।
काव्यालापकथाश्चैव श्रूयन्तेऽहर्निशं दिजाः ॥८८॥

एवंमयागुणाढ्या सा तदु (सोज्जः यिनी समुदाहृता ।
यस्यां राजाऽभवत्पूर्वमिन्द्रद्युम्नो महामतिः ॥८९॥

इति श्रीमहापुराणे आदिब्राह्ये स्वयंभुऋषिसंवादेऽवन्तिकावर्णनं नाम त्रिचत्वारिंशोऽध्यायः॥ ४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP