ब्रह्मपुराणम् - अध्यायः ११६
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ षोडशाधिकशततमोऽध्यायः
वडवादिसहस्रतीर्थवर्णनम्
ब्रह्मोवाच
महानलमिति ख्यातं वडवानलमुच्यते ।
महानलो यत्र देवो वडवा यत्र सा नदी ॥१॥
तत्तीर्थं यत्र वक्ष्यामि मृत्युदोषजरापहम् ।
पुराऽऽसन्नैमिषारण्ये ऋषयः सत्रकारिणः ॥२॥
शमितारं च ऋषयो मृत्युं चक्रुस्तपस्विनः ।
वर्तमाने सत्रयागे मृत्यौ शमितरि स्थिते ॥३॥
न ममार तदा कश्चिदुभयं स्थास्तु जङगमम् ।
विना पशून्मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम् ॥४॥
ततस्त्रिविष्टपे शून्ये मर्त्ये चैवातिसंभृते ।
मृत्युनोपेक्षिते देवा राक्षसानूचिरे तदा ॥५॥
देवा ऊचुः
गच्छध्वमृषिसत्रं तन्नाशयध्वं महाध्वरम् ।
ब्रह्मोवाच
इति देववचः श्रुत्वा प्रोचुस्ते राक्षसाः सुरान् ॥६॥
असुरा ऊचुः
विध्वंसयामस्तं यज्ञमस्माकं किं फलं ततः ।
प्रवर्तते विना हेतुं न कोऽपि क्वापि जातुचित् ॥७॥
ब्रह्मोवाच
देवा अप्यसुरानूचुर्यज्ञार्धं भवतामपि ।
भवेदेव ततो यान्तु ऋषीणां सत्रमुत्तमम् ॥८॥
ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते ।
जग्मुस्तत्र विनाशाय देववाक्याद्विशेषतः ॥९॥
तज्ज्ञात्वा ऋषयो मृत्युमाहुः किं कुर्महे वयम् ।
आगता देववचनाद्राक्षसा यज्ञनाशिनः ॥१०॥
मृत्युना सह संमन्त्र्य नैमिषारण्यवासिनः ।
सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद ॥११॥
अग्निमात्रमुपादाय त्यक्त्वा पात्रादिकं तु यत् ।
क्रतुनिष्पत्तये जग्मुगौर्तमीं प्रति सत्वराः ॥१२॥
तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे ।
कृताञ्जलिपुटास्ते तु तुष्टुवुस्त्रिदशेश्वरम् ॥१३॥
ऋषय ऊचुः
यो लीलया विश्वमिदं चकार, धाता विधाता भुवनत्रयस्य ।
यो विश्वरूपः सदसत्परो यः, सोमेश्वरं तं शरणं व्रजाम् ॥१४॥
मृत्युरुवाच
इच्छामात्रेण यः सर्वं हन्ति पाति करोति च ।
तमहं त्रिदशेशानं शरणं यामि शंकरम् ॥१५॥
महानलं महाकायं महानागविभूषणम् ।
महामूर्तिधरं देवं शरणं यामि शंकरम् ॥१६॥
ब्रह्मोवाच
ततः प्रोवाच भगवान्मृत्यो का प्रीतिरस्तु ते ॥१७॥
मृत्युरुवाच
राक्षसेभ्यो भयं घोरमापन्नं त्रिदशेश्वर ।
यज्ञमस्मांश्च रक्षस्व यावत्सत्रं समाप्यते ॥१८॥
ब्रह्मोवाच
तथा चकार भगवांस्त्रिनेत्रो वृषभध्वजः ।
शमित्राः मृत्युना सत्रमृषीणां पूर्णतां ययौ ॥१९॥
हविषां भागधेयाय आजग्मुरमराः क्रमात् ।
तानवोचन्मुनिगणाः संक्षुब्धा मृत्युना सह ॥२०॥
ऋषय ऊचुः
अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः ।
तस्माद्भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः ॥२१॥
ततः प्रभृति देवानां राक्षसा वैरिणोऽभवन् ।
कृत्यां च व़डवां तत्र देवाश्च ऋषयोऽमलाः ॥२२॥
मृत्योर्भार्या भव त्वं तामित्युक्त्वा तेऽभ्यषेचयत् ।
अभिषेकोदकं यत्तु सा नदी वडवाऽभवत् ॥२३॥
मृत्युना स्तापितं लिङ्गं महानलमिति श्रुतम् ।
ततः प्रभृति तत्तीर्थं वडवासंगमं विदुः ॥२४॥
महानलो यत्र देवस्तत्तीर्थं भुक्तिमुक्तिदम् ।
सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् ॥
उभयोस्तीरयोस्तत्र स्मरणादघघातिनाम् ॥२५॥
इति श्रीमहापुराणे आदिब्राह्मो तीर्थमाहात्म्ये व़डवादिसहस्रतीर्थवर्णनं नाम षोडशाधिकशततमोऽध्यायः ॥११६॥
गौतमिमाहात्म्ये सप्तचत्वारिंशोऽध्यायः ॥४७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP