ब्रह्मपुराणम् - अध्यायः ७२
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ द्विसप्ततितमोऽध्यायः
हिमवद्वर्णनम्
ब्रह्मोवाच
हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते ।
नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥१॥
नदीनदसरःकूपतडागादिभिरावृते ।
देवगन्धर्वयक्षादिसिद्धचारणसेविते ॥२॥
शुभमारुतसंपन्ने हर्षोत्कर्षैककारणे ।
मेरुमन्दरकैलासमैनाकादिनगैर्वृते ॥३॥
वसिष्ठागस्त्यपौलस्त्यलोमसादिभिरावृते ।
महोत्सवे वर्तमाने विवाहः समजायत ॥४॥
तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता ।
वज्रमाणिक्यवैदूर्यतन्मयस्तम्भशोभिता ॥५॥
जयालक्ष्मीसुभाक्षान्तिकीर्तिपुष्ट्यादिसंवृता ।
मेरुमन्दरकैलासरैवतैः परिशोभितैः ॥६॥
पूजितो लोकनाथेन विष्णुना प्रभविष्णुना ।
मैनाकः कर्वतश्रेष्ठो रेजेऽतीव हिरण्मयः ॥७॥
ऋषयो लोकपालाश्च आदित्याः समरूद्गणाः ।
विवाहे वेदिकां चक्रुर्देवदेवस्य शूलिनः ॥८॥
विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् ।
सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी ॥९॥
आभिस्तु शोभितेशान्या विवाहः समजायत ।
समुद्राः सरितो नागा ओषध्यो लोकमातरः ॥१०॥
सवनस्पतिबीजाश्च सर्वे तत्र समाययुः ।
भुवः कर्म इला चक्रे ओषध्यस्त्वन्नकर्म च ॥११॥
वरुणः पानकर्माणि दानकर्म धनाधिपः ।
अग्निश्चकार तत्रान्नं यच्चेष्टं लोकनाथयोः ॥१२॥
तत्र तत्र पृथक्पूजां चक्रे विष्णुः सनातनः ।
वेदाश्च सरहस्या वै गायन्ति च हसन्ति च ॥१३॥
नृत्यन्त्यप्सरसः सर्वा जगुर्गन्धर्वकिंनराः ।
लाजाधृक्चापि मैनाको बभूव सुरत्तमौ ॥१४॥
प्रतिष्ठाप्यग्निं विधिवदश्मानं चापि पुत्रक ।
हुत्वा लाजांश्च विधिवत्प्रदक्षिणमथाकरोत् ॥१५॥
प्रतिष्ठाप्यग्निं विधिवदश्मानं चापि पुत्रक ।
हुत्वा लाजांश्च विधिवत्प्रदक्षिणमथाकरोत् ॥१६॥
अश्मनः स्पर्शहेतोश्च देव्यङ्गुष्ठं करेऽस्पृशत् ।
विष्णुना प्रेरितः शंभुर्दक्षिणस्य पदस्य च ॥१७॥
तामदर्शमहं तत्र होमं कुर्वन्हरान्तिके ।
दृष्टेऽङ्गुष्ठे दृष्ट्बुद्ध्या वीर्यं सुस्राव मे तदा ॥१८॥
लज्जया कलुषीभूतः स्कन्नं वीर्यमचूर्णयम् ।
मद्वीर्याच्चूर्णितात्सूक्ष्माद्वालखिल्यास्तु जज्ञिरे ॥१९॥
ततो महानभूत्तत्र हाहाकारः सुरोदितः ।
लज्जया परिभूतोऽहं निर्गतस्तु तदाऽऽसनात् ॥२०॥
पश्यत्सु देवसंघेषु तूष्णींभूतेषु नारद ।
गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनमब्रवीत् ॥२१॥
शिव उवाच
ब्रह्मणमाह्वयस्वेह गतपापं करोम्यहम् ।
कृतापराधेऽपि जने सन्तः सकृपमानसाः ॥
मोहयन्त्यपि विद्वांसं विषयाणामियं स्थिताः ॥२२॥
ब्रह्मोवाच
एवमुक्त्वा स भगवानुमया सहितः शिवः ।
ममानुकम्पया चैव लोकानां हितकाम्यया ॥२३॥
एतच्चकार लोकेशः श्रृणु नारद यत्नतः ।
पापिनां पापमोक्षाय भूमिरापो भविष्यति ॥२४॥
तयोश्च सारसर्वस्वमाहरिष्यामि पावनम् ।
एवं निश्चित्य भगवांस्तयोः सारं समाहरत् ॥२५॥
भूमिं कमण्डलुं कृत्वा तत्रापः संनिवेश्य च ।
पावमान्यादिभिः सूक्तैरभिमन्त्र्य च यत्नतः ॥२६॥
त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा ।
मामुवाच स लोकेशो गृहाणेमं कमण्डलुम् ॥२७॥
आपो वै मातरो देव्यो भूमिर्माता तथाऽपरा ।
स्थित्युत्पत्तिविनाशानां हेतुत्वमुभयोः स्थितम् ॥२८॥
अत्र प्रतिष्ठतो धर्मो ह्यत्र यज्ञः सनातनः ।
अत्र भुक्तिश्च मुक्तिश्च स्थावरं जङ्गमं तथा ॥२९॥
स्मारणान्मानसं पापं वचनाद्वाचिकं तथा ।
स्नानपानाभिषेकाच्च प्रणश्यत्यपि कायिकम् ॥३०॥
एतदेवामृतं लोके नैतस्मात्पावनं परम् ।
मयाऽभिमन्त्रितं ब्रह्मन्गृहाणेमं कमण्डलुम् ॥३१॥
अत्रत्यं वारि यः कश्चित्स्मरेदपि पठेदपि ।
स सर्वकामानाप्नोति गृहाणेमं कमण्डलुम् ॥३२॥
भूतेभ्यश्चापि पञ्चभ्य आपो भूतं महोदितम् ।
तासामुत्कृष्टमेतस्माद्गृहाणेमं कमण्डलुम् ॥३३॥
अत्र यद्वारि शोभिंष्ठं पुण्यं पावनमेव च ।
स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन्पापाद्विमोक्ष्यसे ॥३४॥
एवमुक्त्वा महादेवः प्रादान्मम कमण्डलुम् ।
ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम् ॥
आह्लादस्च महांस्तत्र जयशब्दो व्यवर्तत ॥३५॥
देवोत्सवे मातुरजः पदाग्रं, समीक्ष्य पापात्पतितत्वमाप ।
प्रादात्कृपालुः स्मरणत्पवित्रां गङ्गां पिता पुण्यकमण्डसुस्थाम् ॥३६॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे तीर्थमाहात्म्ये गङ्गोत्पत्तौ ब्रह्मकमण्डलुदानं नाम द्विसप्ततितमोऽध्यायः ॥७२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP