ब्रह्मपुराणम् - अध्यायः १००
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ शततमोऽध्यायः
कद्रूसुपर्णासंगमतीर्थवर्णनम्
ब्रह्मोवाच
सुपर्णासंगमं नाम काद्रब्रासंगमं तथा ।
महेश्वरो यत्र देवो गङ्गापुलिनमाश्रितः ॥१॥
अग्निकुण्डं च तत्रैव रौद्रं वैष्णवमेव च ।
सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा ॥२॥
अप्सरा च नदी यत्र संगता गङ्गया तथा ।
तत्तीर्थस्मरणादेव कृतकृत्यो भवेन्नरः ॥३॥
सर्वपापाप्रशमनं श्रृणु यत्नेन नारद ।
इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः ॥
दत्तार्धतपसः सर्वे प्रोचुस्ते काश्यपं मुनिम् ॥४॥
वालखिल्या ऊचुः
पुत्रमुत्पादयानेन इन्द्रदर्पहरं शुभम् ।
तपसोऽर्धं तु दास्यामस्तथेत्याह मुनिस्तु तान् ॥५॥
सुपर्णायां ततो गर्भमादधे स प्रजापतिः ।
कद्र्वां चैव शनैर्ब्रह्मन्सर्पाणां सर्पमातरि ॥६॥
ते गर्भिण्यावुभे आह गन्तुकामः प्रजापतिः ॥
अपराधो न च क्वापि कार्यो गमनमेव च ॥७॥
अन्यत्र गमनाच्छापो भविष्यति न संशयः ॥८॥
इत्युक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे ।
तदैव जग्मनुः सत्रमृषीणां भावितात्मनाम् ॥९॥
ब्रह्मोवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् ।
उन्मत्ते ते उभे नित्यं वयःसंपत्तिगर्विते ॥१०॥
निवार्यमाणे बहुशो मुनिभिस्तत्त्वदर्शिभिः ।
विकुर्वत्यौ तत्र सत्रे समानि च हवींषि च ॥११॥
योषितां दुर्विलसितं कः संवरितुमीश्वरः ।
ते दृष्ट्वा चुक्षुभुर्विप्रा अपमार्गरते उभे ॥१२॥
अपमार्गस्थिते यस्मादापगे हि भविष्यथः ।
सुपर्णा चैव कद्रूश्च नद्यौ ते संबभूवतुः ॥१३॥
स कदाचिद्गृहं प्रायात्कश्यपोऽथ प्रजापतिः ।
ऋषिभ्यस्तत्र वृत्तान्तं सापं ताभ्यां सविस्तरम् ॥१४॥
श्रुत्वा तु विस्मयाविष्टः किं करोमीत्यचिन्तयत् ।
ऋषिभ्यः कथयामास वालखिल्या इति श्रुताः ॥१५॥
त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् ।
तत्र स्तुहि महेशानं पुनर्भार्ये भविष्यतः ॥१६॥
ब्रह्महत्याभयादेव यत्र देवो महेश्वरः ।
गङ्गामध्ये सदा हायास्ते मध्यमेश्वरसंज्ञया ॥१७॥
तथेत्युक्त्वा कश्यपोऽपि स्नात्वा गङ्गां जितव्रतः ।
तुष्टाव स्तवनैः पुण्यैर्देवदेवं महेश्वरम् ॥१८॥
कश्यप उवाच
लोकत्रयैकाधिपतेर्न यस्य, कुत्रापि वस्तुन्यभिमानलेशः ।
स सिद्धनाथोऽखिलविश्वकर्ता, भर्ता शिवाया भवतु प्रसन्नः ॥१९॥
तापत्रयोष्णद्युतितापितानामितस्ततो वै परिधावतां च ।
शरीरिणां स्थावरजङ्गमानां, त्वमेव दुःखव्यपनोददक्षः ॥२०॥
सत्त्वादियोगस्त्रिविधोऽपि यस्य, शक्रादिभिर्वक्तुमशक्य एव ।
विचित्रवृत्तिं परिचिन्त्य सोमं, सुखी सदा दानपरो वरेण्यः ॥२१॥
ब्रह्मोवाच
इत्यादिस्तुतिभिर्देवः स्तुतो गौरीपतिः शिवः ।
प्रसन्नो ह्यददाच्छंभुः कश्यपाय वरान्बहून् ॥२२॥
भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते ।
नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम् ॥२३॥
तत्संगमनमात्रेण ताभ्यां भूयात्स्वकं वपुः ।
ते गर्भिण्यौ पुनर्जाते गङ्गायाश्च प्रसादतः ॥२४॥
ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः ।
आह्वयामास तान्विप्रान्गौतमीतीरमाश्रितान् ॥२५॥
सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः ।
ब्राह्मणान्पूजयामास विधिदृष्टेन कर्मणाः ॥२६॥
भुक्तवत्स्वथ विप्रेषु कस्यपस्याथ मन्दिरे ।
भर्तृसमीपोपविष्टा कद्रुर्विप्रान्निरीक्ष्य च ॥२७॥
ततः कद्रुर्ऋषीनक्ष्णा प्राहसत्ते च चुक्षुभुः ।
येनाक्ष्णा हसिता पापे भज्यतां तेऽक्षि पापवत् ॥२८॥
काणाऽभवत्ततः कद्रुः सर्पमातेति योच्यते ।
ततः प्रसादयामास कश्यपो भगवानृषीन् ॥२९॥
ततः प्रसन्नास्ते प्रोचुर्गौतमी सरितां वरा ।
अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात् ॥३०॥
भार्यान्वितस्तथा चक्रे कश्यपो मुनिसत्तमः ।
ततः प्रभृति तत्तीर्थमुभयोः संगमं विदुः ॥
सर्वपापप्रशमनं सर्वक्रतुफलप्रदम् ॥३१॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे कद्रूसुपर्णासंगमतीर्थवर्णनं नाम शततमोऽध्यायः ॥१००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP