संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९७

ब्रह्मपुराणम् - अध्यायः ९७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ सप्तनवतितमोऽध्यायः
पौलस्त्यतीर्थवर्णनम्
'ब्रह्मोवाच
पोलस्त्यं तीर्थमाख्यातं सर्वसिद्धिप्रदं नृणाम् ।
प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥१॥

उत्तराशापतिः पूर्वमृद्धिसिद्धिसमन्वितः ।
पुरा लङ्कापतिश्चाऽऽसीज्ज्येष्ठो विश्रवसः सुतः ॥२॥

तस्येतै भ्रातरश्चाऽऽसन्बलवन्तोऽमितप्रभाः ।
सापत्ना रावणश्चैव कुम्भकर्णो विभीषणः ॥३॥

तेऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास्तु ते ।
मद्द्त्तेन विमानेन धनदो भ्रातृभिः सह ॥४॥

ममान्तिकं भक्तियुक्तो नित्यमेति तु याति च ।
रावणस्य तु या माता कुपिता साऽऽब्रवीत्सुतान् ॥५॥

रावणमातोवाच
मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् ।
देवाश्च दानवाश्चाऽऽसन्सापत्ना भ्रातरो मिथः ॥६॥

अन्योन्यवधमीप्सन्ते जयैश्वर्यवाशानुगाः ।
तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः ॥
सापत्नं योऽनुमन्यते तस्य जीवो निरर्थकः ॥७॥

तन्मातृवचनं श्रुत्वा भ्रातरस्ते त्रयो मुने ।
जग्मुस्ते तपसोऽरण्यं कृतवन्तस्तपो महत् ॥८॥

मत्तो वरानवापुश्च त्रय एते च राक्षसाः ।
मातुलेन मरीचेन तथा मातामहेन तु ॥९॥

तन्मातृवचनाच्चापि ततो लङ्कामयाचत ।
रक्षोभावान्मातृदोषाद्भ्रात्रोर्वरमभून्महत् ॥१०॥

ततस्तदभवद्युद्धं देवदानवयोरिव ।
युद्धे जित्वाऽग्रजं शान्तं धनदं भ्रातरं तथा ॥११॥

पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् ।
रावणो घोषयामास त्रैलोक्ये सचराचरे ॥१२॥

यो दद्यादाश्रयं भ्रातुः स चज वध्यो भवेन्मम ।
भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाऽऽश्रयं क्वचित् ॥
पितामहं पुलस्त्यं तं गत्वा नन्वाऽब्रवीद्वचः ॥१३॥

धनद उवाच
भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे ।
आश्रयः शरणं यत्स्याद्दैवं वा तीर्थमेव च ॥१४॥

ब्रह्मोवाच
तत्पौत्रवचनं श्रुत्वा पुलस्त्यो वाक्यमब्रवीत् ॥१५॥

पुलस्त्य उवाच
गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् ।
तत्र नास्य प्रवेशः स्याद्गङ्गाया जलमध्यतः ॥१६॥

सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह ॥१७॥

ब्रह्मोवाच
तथेत्युक्त्वा जगामासौ सभार्यो धनदस्तथा ।
पित्रा मात्रा च वृद्धेन पुलस्येन धनेश्वरः ॥१८॥

गत्वा तु गौतमी गङ्गां शुचिः स्नात्वा यतव्रतः ।
तुष्टाव देवदेवशं भुक्तिमुक्तिप्रदं शिवम् ॥१९॥

धनद उवाच
स्वामी त्वमेवास्य चराचरस्य, विश्वस्य शंभो न परोऽस्ति कश्चित् ।
त्वामप्यवज्ञाय यदीह मोहात्प्रगल्भते कोऽपि स शोच्य एव ॥२०॥

त्वमष्टमूर्त्या सकलं बिभर्षि, त्वदाज्ञया वर्तत एव सर्वम् ।
तथाऽपि वेदेति बुधे भवन्तं, न जात्वविद्धान्महिमा पुरातनम् ॥२१॥

मलप्रसूतं यदवोचदम्बा हास्यात्सुतोऽयं तव देव शूरः ।
त्वत्प्रेक्षिताद्य स च विघ्नराजो, जज्ञे त्वहो चेष्टितमीशदृष्टेः ॥२२॥

अश्रुप्लुताङ्गी गिरिजा समीक्ष्य, वियुक्तदांपत्यमितीशमूचे ।
मनोभवोऽभून्मदनो रतिश्च, सौभाग्यपूर्व(र्ण)त्वमवाप सोमात् ॥२३॥

ब्रह्मोवाच
इत्यादि स्तुवतस्तस्य पुरतोऽभूत्त्रिलोचनः ।
वरेण च्छन्दयामास हर्षान्नोवाच किंचन ॥२४॥

तूष्णींभूते तु धनदे पुलस्त्ये च महेश्वरे ।
पुनः पुनर्वरस्वेति शिवे वादिनि हर्षिते ॥२५॥

एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी ।
प्राप्तव्यं धनपालत्वं वदन्तीदं महेस्वरम् ॥२६॥

पुलस्त्यस्य तु यच्चित्तं पितुर्वैश्रवणस्य तु ।
विदित्वेव तदा वाणी शुभमर्थमुदीरयत् ॥२७॥

भूतवद्भवितव्यं स्याद्दास्यमानं तु दत्तवत् ।
प्राप्तव्यं प्राप्तवत्तत्र दैव्री वागभवच्छुभा ॥२८॥

प्रभूतशत्रुः परिभूतदुःखः, संपूज्य सोमेश्वरमाप लिङ्गम् ।
दिगीश्वरत्वं द्रविणप्रभुत्वमपारदातृत्वकलत्रपुत्रान् ॥२९॥

तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् ।
एवं भवतु नामेति धनदो वाक्यमब्रवीत् ॥३०॥

तथैवास्त्विति देवेशो दैवीं वाचममन्यत ।
पुलस्त्यं च वरैः पुण्यैस्तथा विश्रवसं मुनिम् ॥३१॥

धनपालं च देवेशो ह्यभिन्द्य ययौ शिवः ।
ततः प्रभृति तत्तीर्थं पौलस्त्यं धनदं विदुः ॥३२॥

तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम् ।
तेषु स्नानादि यत्किंचित्तत्सर्वं बहुपुण्यदम् ॥३३॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पौलस्त्यतीर्थवर्णनं नाम सप्तनवतितमोऽध्यायः ॥९७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP