संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८९

ब्रह्मपुराणम् - अध्यायः ८९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अरुणावरुणासंगमाश्वभानुतीर्थवर्णनम्
ब्रह्मोवाच
अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे ।
तयोश्च संगमः पुण्यो गङ्गायां मुनिसत्तम् ॥१॥

तदुत्पत्तिं श्रृणुष्वेह सर्वपापविनाशिनीम् ।
काश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः ॥२॥

त्रैलोक्यचक्षुस्तीक्ष्णांशुः सप्ताश्वो लोकपूजितः ।
तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी ॥३॥

भर्तुः प्रतापतीव्रत्वमसहन्ती सुमध्यमा ।
चिन्तयामास किं कृत्यं मम स्यादिति भामिनी ॥४॥

तस्याः पुत्रौ महाप्राज्ञौ मनुर्वैवस्वतो यमः ।
यमुना च नदी पुण्या श्रृणु विस्मयकारणम् ॥५॥

साऽकरोदात्मनश्छायामात्मरूपेण यत्नतः ।
तामब्रवीत्तश्चोषां त्वं च मत्सदृशी भव ॥६॥

भर्तारं त्वमपत्यानि पालयस्व ममाऽज्ञया ।
यावदागमनं मे स्यात्पत्युस्तावत्प्रिया भव ॥७॥

नाऽऽख्यातव्यं त्वाया क्वापि अपत्यानां तथा प्रिये ।
तथेत्याह च सा छाया निजगाम गृहादुषा ॥८॥

इत्युक्त्वा सा जगामाऽऽशु शान्तं रूपमभीप्सती ।
सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् ॥
त्वष्टाऽपि चकितः प्राह तां सुतां सुतवत्सलः ॥९॥

त्वष्टोवाच
नैतद्युक्तं भर्तृमत्या यत्स्वैरेण प्रवर्तनम् ।
अपत्यानां कथं वृत्तिर्भर्तुर्वा सवितुस्तव ॥
बिभेमि भद्रे शिष्टोऽहं भर्तुर्गेह पुनर्व्रज ॥१०॥

ब्रह्मोवाच
एवमुक्ता तु पित्रा सा नेत्युक्त्वा वै पुनः पुनः ।
उत्तरं च कुरोर्देशं जगाम तपसे त्वरा ॥११॥

तत्र तेषे तपस्तीव्रं व़डवारूपधारिणी ।
दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा ॥१२॥

एतस्मिन्नन्तरं तात छाया चोषास्वरूपिणी ।
पत्यौ सा वर्तयामास अपत्यान्यथ जज्ञिरे ॥१३॥

सावर्णिश्च शनिश्चैव विष्टचिर्या दुष्टकन्यका ।
सा छाया वर्तयामास वैषम्येणैव नित्यशः ॥१४॥

स्वेष्वपत्येषु चोषाया यमस्तत्र चुकोप ह ।
वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा ॥१५॥

ताडयामास पादेन दक्षिणाशापतिर्यमः ।
पुत्रदौर्जन्यसंक्षोभाच्छाया वैवस्वतं यमम् ॥१६॥

शशाप पाप ते पादो विशीर्यतु ममाऽऽज्ञया ।
विशीर्णचरणो दुःखाद्रुदन्पितरमभ्यगात् ॥
सवित्रे तं तु वृत्तान्तं न्यवेदयदशेषतः ॥१७॥

यम उवाच
नेयं माता सुरश्रेष्ठ यया शप्तोऽहमीदृशः ।
अपत्येषु विरुद्धेषु जननी नैव कुप्यते ॥१८॥

यद्बाल्यादब्रवं किंचिदथवा दुष्कृतं कृतम् ।
नैव कुप्यति सा माता तस्मान्नेयं ममाम्बिका ॥१९॥

यदपत्यकृतं किंचित्साध्वस्वाधु यथा तथा ।
मात्यस्यां सर्वमप्येतत्तस्मान्मातेति गीयते ॥२०॥

प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा ।
वक्त्यग्निकालसदृशा वाचा नेयं मदम्बिका ॥२१॥

ब्रह्मोवाच
तत्पुत्रवचनं श्रुत्वा सविताऽचिन्तयत्ततः ।
इयं छाया नास्य माता उषा माता तु साऽन्यतः ॥२२॥

मम शान्तिमभीप्सन्ती देशेऽन्यस्मिंस्तपोरता ।
उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी ॥२३॥

तत्राऽऽस्ते सा इति ज्ञात्वा जगामेशो दिवाकरः ।
यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा ॥२४॥

तां दृष्ट्वा वडवारूपां पर्यधावद्धयाकृतिः ।
कामातुरं हयं दृष्ट्वा श्रुत्वा वै ह्रेषितस्वनम् ॥२५॥

उषा पतिव्रतोपेता पतिध्यानपरायणा ।
हयधर्षणसंभीता को न्वयं चेत्यजानती॥ ८९.२६॥

अपलायत्पतौ प्राप्ते दक्षिणाभिमुखी त्वरा ।
को नु मे रक्षकोऽत्र स्यादृषयो वाऽथवा सुराः ॥२७॥

धावन्तीं तां प्रियामश्वामश्वरूपधरः श्वयम् ।
पर्यधावद्यतो याति उषा भानुस्ततस्ततः ॥२८॥

स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते ।
भागीरथीं नदीश्चान्या वनान्युपवनानि च ॥२९॥

नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखावु(खी उ)भौ ।
अतिक्रम्य भयोद्विग्ना त्वाष्ट्य्रभ्यगाच्च गौतमीम् ॥३०॥

त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् ।
ऋषीणामाश्रमं साऽश्वा प्रविष्टा गौतमीं तथा ॥३१॥

अनुप्राप्तस्तथा चाश्वो भानुस्तुद्रूपवांस्ततः ।
अश्वं निवारयामासुजंनस्था मुनिदारकाः ॥
ततः कोपादृषींस्तांश्च शशापोषापतिः प्रभुः ॥३२॥

भानुरुवाच
निवारयथ मां यस्माद्वटा यूयं भविष्यथ ॥३३॥

ब्रह्मोवाच
ज्ञानदृष्ट्या तु मुनयो मेनिरेऽश्वमुषापतिम् ।
स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा ॥३४॥

स्तूयमानो मुनिगणैरश्वं भानुरथागमत् ।
वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम् ॥३५॥

ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद्वीर्यं प्रसुस्रुवे ।
तयोर्वीर्येण गङ्गायामश्विनौ समजायताम् ॥३६॥

तत्राऽऽगच्छन्सुरगणाः सिद्धाश्च मुनयस्तथा ।
नद्यो गावस्तथौषव्यो देवा ज्योदिर्गणास्तथा ॥३७॥

सप्ताश्वश्च रथः पुण्यो ह्यरुणो भानुसारथिः ।
यमो मनुश्च वरुणः शनिर्वैवस्वतस्तथा ॥३८॥

यमुना च नदी पुण्या तापी चैव महानदी ।
तत्तद्रूपं समास्थाय नद्यस्ता विस्मयान्मुने ॥३९॥

द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस्तथा ।
अभिप्रायं विदित्वा तु श्वशुरं भानुरब्रवीत् ॥४०॥

भानुरुवाच
उषायाः प्रीतये त्वष्टः कुर्वत्यास्तप उत्तमम् ।
यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्यनेकशः ॥
यावत्सौख्यं भवेदस्यास्तावच्छिन्धि प्रजापते ॥४१॥

तथेत्युक्त्वा ततस्त्वष्टा सोमनाथस्य संनिधौ ।
तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः ॥४२॥

भर्त्रा च संगता यत्र गौतम्यामश्वरूपिणी ।
अश्विनोर्यत्र चोत्पत्तिरश्वतीर्थं तदुच्यते ॥४३॥

भानुतीर्थं तदाख्यातं तथा पञ्चवटाश्रमः ।
तापी च यमुना चैव पितरं द्रष्टुमागते ॥४४॥

अरुणावरुणानद्योर्गङ्गायां संगमः शुभः ।
देवानां तत्र तीर्थानामागतानां पृथक्पृथक् ॥४५॥

नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च ।
तत्र स्नानं च दानं च सर्वंमक्षयपुष्यदम् ॥४६॥

स्मरणात्पठनाद्वाऽपि श्रवणादपि नारद ।
सर्वपापविनिर्मुक्तो धर्मवान्स सुखी भवेत् ॥४७॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽरुणासंगमाश्वभानुतीर्थवर्णनं नामोननवतितमोऽध्यायः ॥८९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP