संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ११२

ब्रह्मपुराणम् - अध्यायः ११२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ द्वादशधिकशततमोऽध्यायः
मातृतीर्थवर्णनम्
ब्रह्मोवाच
मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणादपि ॥१॥

देवानामसुराणां च संगरोऽभीत्सुदारुणः ।
नाशक्नुवंस्तदा जेतुं देवा दानवसंगरम् ॥२॥

तदाऽहमगमं देवैस्तिष्ठन्तं शूलपाणिनम् ।
अस्तवं विविधैर्वाक्यैः कृताञ्जलिपुटः शनैः ॥३॥

संमन्त्र्य देवैर्सुरैश्च सर्वैर्यदाऽऽहृतं संमथितुं समुद्रम् ।
यत्कालकूटं समभून्महेश, तत्त्वां विना को ग्रसितुं समर्थः ॥४॥

पुष्प्रहारेण जगत्त्रयं यः, स्वाधीनमापादियितुं समर्थः ।
मारो हरेऽप्यन्यसुरादिवन्द्यो, वितायमानो विलयं प्रयातः ॥५॥

विमथ्य वारीशमनङ्गशत्रो, यदुत्तमं तत्तु दिवौकसेभ्यः ।
दत्त्वा विषं संहरन्नीलकण्ठ, को वा धर्तुं त्वामृते वै समर्थः ॥६॥

ततश्च तुष्टो भगवानादिकर्ता त्रिलोचनः ॥७॥

शिव उवाच
दास्येऽहं यदभीष्टं वो ब्रुवन्तु सुरसत्तमाः ॥८॥

देवा ऊचुः
दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज ।
जहि शत्रुन्सुरान्पाहि नाथवन्तस्त्वया प्रभो ॥९॥

निष्कारणः सुहृच्छंभो नाभविष्यद्भवान्यदि ।
तदाऽकरिष्यन्किमिव दुःखार्ताः सर्वदेहिनः ॥१०॥

ब्रह्मोवाच
इत्युक्तस्तत्क्षणात्प्रायाद्यत्र ते देवशत्रवः ।
तत्र तद्युद्धमभवच्छंकरेण सुरद्विषाम् ॥११॥

ततस्त्रिलोचनः श्रान्तस्तमोरूपधरः शिवः ।
ललाटाद्व्यपतंस्तस्य युध्यतः स्वेदबिन्दवः ॥१२॥

स संहरन्दैत्यगणांस्तामसीं मूर्तिमाश्रितः ।
तां मूर्तिमसुरा दृष्ट्वा मेरुपृष्ठाद्भुवं ययुः ॥१३॥

स संहरन्तसर्वदैत्यांस्तदाऽगच्छद्भुवं हरः ।
इतश्चेतश्च भीतास्तेऽधावन्सर्वां महीमिमाम् ॥१४॥

तथैव कोपाद्रुद्रोऽपि शत्रुंस्ताननुधावति ।
तथैव युध्यतः शंभोः पतिताः स्वेदबिन्दवः ॥१५॥

यत्र यत्र भुवं प्राप्तो बिन्दुर्माहेश्वरे मुने ।
तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः ॥१६॥

प्रोचुर्महेश्वरं सर्वाः खादामस्त्वसुरानिति ।
ततः प्रोवाच भगवान्सर्वैः सुरगणैर्वृतः ॥१७॥

शिव उवाच
स्वर्गाद्भुवमनुप्राप्ता राक्षसास्ते रसातलम् ।
अनुप्राप्तास्ततः सर्वाः श्रृण्वन्तु मम भाषितम् ॥१८॥

यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः ।
रसातलमनुप्राप्ता इदानीं मद्भयाद्द्विषः ॥
भवत्योऽप्यनुगच्छन्तु रसातलमनु द्विषः ॥१९॥

ब्रह्मोवाच
ताश्च जग्मुर्भुवं भित्त्वा यत्र ते दैत्यदानवाः ।
तान्हत्वा मातरः सर्वान्देवारीनतिभीषणान् ॥२०॥

पुनर्देवानुपाजग्मुः पथा तेनैव मातरः ।
गताश्च मातरो यावद्यावच्च पुनरागताः ॥२१॥

तावद्देवाः स्थिता आसन्गौतमीतीरमाश्रिताः ।
प्रस्थानात्तत्र मातॄणां सुराणां च प्रतिष्ठितेः ॥२२॥

प्रतिष्ठानं तु तत्क्षेत्रं पुण्यं विजयवर्धनम् ।
मातॄणां यत्र चोत्पत्तिर्मातृतीर्थं पृथक्पृथक् ॥२३॥

तत्र तत्र बिलान्यासन्रसातलगतानि च ।
सुरास्ताभ्यो वरान्प्रोचुर्लोके पूजां यथा शिवः ॥२४॥

प्राप्नोति तद्वन्मातृभ्यः पूजा भवतु सर्वदा ।
इत्युक्त्वाऽन्तर्दधुर्देवा आसंस्तत्रैव मातरः ॥२५॥

यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः ।
सुराणामपि सेव्यानि कं पुनर्मानुषादिभिः ॥२६॥

तेषु स्नानमथो दानं पितॄणां चैव तर्पणम् ।
सर्वं तदक्षयं ज्ञेयं शिवस्य वचनं यथा ॥२७॥

यस्त्विदं श्रृणुयान्नित्यं स्मरेदपि पठेत्तथा ।
आख्यानं मातृतीर्थानामायुष्मान्स सुखी भवेत् ॥२८॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे देवतीर्थमातृतीर्थप्रतिष्ठानवर्णनं नाम द्वादशाधिकशततमोऽध्यायः ॥११२॥

गौतमीमाहात्म्ये त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP