ब्रह्मपुराणम् - अध्यायः १८६
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
धेनुकवधाख्यानम्
व्यास उवाच
गाः पालयन्तौ च पुनः सहितौ रामकेशवौ ।
भ्रममाणौ वने तत्र रम्यं तालवनं गतौ ॥१॥
तच्च तालवनं नित्यं धेनुको नाम दानवः ।
नृगोमांसकृताहारः सदाऽध्यास्ते खराकृतिः ॥२॥
तत्र तालवनं रम्यं फलसम्पत्समन्वितम् ।
दृष्ट्वा स्पृहान्विता गोपाः फलदानेऽब्रुवन्वचः ॥३॥
गोपा ऊचुः
हे राम हे कृष्ण सदा धेनकेनैव रक्ष्यते ।
भूप्रदेशो यतस्तस्मात्त्यक्तानीमानि सन्ति वै ॥४॥
फलानि पश्य तालानां गन्धमोदयुतानि वै ।
वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥५॥
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः ।
कृष्णश्च पातयामास भुवि तालफलानि वै ॥६॥
तालानां पततां शब्दमाकर्ण्यासुरराट्ततः ।
आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः ॥७॥
पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां च तं बली ।
जघानोरसि ताभ्यां च स च तेनाप्यगृह्यत ॥८॥
गृहीत्वा भ्रमणेनैव चाम्बरे गतजीवितम् ।
तस्मिन्नेव प्रचिक्षेप वेगेन तृणराजनि ॥९॥
ततः फलान्यनेकानि तालाग्रान्निपतन्खरः ।
पृथिव्यां पातयामास महावातोऽम्बुदानिव ॥१०॥
अन्यानप्यस्य वै ज्ञातीनागतान्दैत्यगर्दभान् ।
कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥११॥
क्षणेनालंकृता पृथ्वी पक्वैस्तालफलैस्तदा ।
दैत्यगर्दभदेहैश्च मुनयः शुशुभेऽधिकम् ॥१२॥
ततो गावो निराबाधास्तस्मिंस्तलवने द्विजाः ।
नवशष्पं सुखं चेरुर्यत्र भुक्तमभूत्पुरा ॥१३॥
इति श्रीमहापुराणे आदिब्राह्मे बालचरिते धेनुकवधवर्णनं नाम ष़डशीत्यधिकशततमोऽध्यायः ॥१८६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP