उत्तरखण्डः - अध्यायः १२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उवाच-
दैत्यसैन्यं हतं दृष्ट्वा गणैर्नंदिपुरोगमैः
क्रुद्धाः शुंभादयो दैत्याः समाजग्मुर्गणान्प्रति ॥१॥
ततः शुंभो महादैत्यो नंदिनं प्रत्ययुध्यत
महाकालं निशुंभोऽथ कालो लोकेश्वरं रणे ॥२॥
पुष्पदंतं शैलरोमा माल्यवंतं महाबलः
कोलाहलो रणे राजन्प्राप्तो मायाबलेन च ॥३॥
चंडं भयानको नाम राहुः स्कंदमधावत
कूष्मांडं सर्परोमा च घर्घरो मदनं तथा ॥४॥
शुभं केतुमुखो हंतुं ययौ जंभो विनायकम्
हासं पातालकेतुश्च भृंगीशं रोमकंटकः ॥५॥
युयुधुः कोटिशो रुद्रगणा दैत्याः परस्परम्
पश्यतोरुभयोस्तत्र स्वामिनोरिति ते युधि ॥६॥
दृढप्रहारिणो जघ्नुर्गणा दैत्याः शरैरथ
नंदी मुमोच तान्बाणान्महासारो यथा नगे ॥७॥
ततः संपूरयामास मुखं शुंभस्य पत्रिभिः
यथा पर्णचयैर्वातो मंदरस्येव कंदरम् ॥८॥
शुंभोऽथ कार्मुकं त्यक्त्वा रथात्तं प्रत्यधावत
उत्पाट्य च गिरिं तेन जघान हृदि नंदिनः ॥९॥
नंदिनो हृदयं भित्त्वा चूर्णयित्वा रथं रणे
पपात भूमौ स गिरिर्वज्रं प्राप्य गिरिं यथा ॥१०॥
मूर्च्छां प्राप्य क्षणात्संज्ञां वेगवान्स पलायितः
महाकालो निशुंभेन मुद्गरेण हतो हृदि ॥११॥
आगत्य दैत्यं गदया जघान मुकुटोपरि
तत्प्रहारमचिंत्याथ निशुंभोऽपि महाबलः ॥१२॥
तं गृहीत्वा चरणयोर्महाकालं महाबलः
भ्रामयित्वा करतलाच्चिक्षेप च ननाद च ॥१३॥
स तद्वक्त्रानिलं पीत्वा ननाद रुधिरारुणः
पुष्पदंतः शैलरोम्णा चाहतो मुष्टिना मुखे ॥१४॥
गदया शैलरोमाणं हत्वा भूमौ न्यपातयत्
तं दृष्ट्वा पतितं भूमौ गिरिकेतुर्महाबलः ॥१५॥
पुष्पदंतं महाभीमं मुद्गरेण व्यपोथयत्
पुष्पंदंतोऽथ खड्गेन गिरिकेतोः शिरोऽछिनत् ॥१६॥
गृहीत्वा चर्म खड्गं च गिरिकेतोरधावत
शिरस्तं प्राह किं यासि मां त्यक्त्वा समरार्थिनम् ॥१७॥
शिरोहीने च कायेऽस्मिन्किं तु धावन्न लज्जसे
इत्युक्ते शिरसा तेन कबंधेन तु पादयोः ॥१८॥
विधृतः पुष्पदंतश्च कुक्षौ तीक्ष्णासिनाच्छिनत्
निश्चक्रामासुरः कुक्षेः शतशीर्षो महाबलः ॥१९॥
द्विशताक्षिसमायुक्तः शतद्वयभुजाकुलः
भ्रमत्तस्य शिरो राजन्कबंधोपांतमागमत् ॥२०॥
तच्छिरः प्राप्तमालोक्य पुष्पदंतोऽसिनाच्छिनत्
ततो भूकंपनो नाम ज्वरो दैत्यो भयावहः ॥२१॥
पुष्पंदंतस्तदा तत्र द्वाभ्यां राजन्विमर्दितः
ज्वरेण तेन च क्लिष्टो दुःसहेनातिवेगिना ॥२२॥
त्यक्त्वा शिवगणः संख्यं कंपमानो गिरिं ययौ
कोलाहलो महाधन्वी माल्यवंतं शरैस्त्रिभिः ॥२३॥
विव्याध स्कंधयोर्भाले माल्यवांश्च ततोऽसुरम्
बाणाहतो माल्यवता शस्त्रैर्नानाविधैः शितैः ॥२४॥
कोलाहलः प्रहृतवान्दर्शयन्नात्मलाघवम्
सोऽपि हेति व्यथां त्यक्त्वा माल्यवांश्च गणाग्रणीः ॥२५॥
गिरिं गृहीत्वा तेनाजौ कोलाहलमथाहनत्
निश्चक्राम ज्वरस्तस्माज्ज्वलनो नाम भीषणः ॥२६॥
त्रिशीर्षो नवहस्तश्च नवपादोऽतिपिंगलः
स ज्वरो मोहयामास माल्यवंतं स्वतेजसा ॥२७॥
माल्यवान्समरं त्यक्त्वा पराक्रांतो गिरिं ययौ
चंडिर्भयानकेनाजौ पाशेन हृदये हतः ॥२८॥
हयो विनिर्गतस्तस्मात्क्षिप्तः सोऽपि च सागरे
कार्त्तिकेयो रणे राहुं शितैर्बाणैः समाहनत् ॥२९॥
आच्छाद्य शरजालैश्च शीघ्रं शक्तिं मुमोच ह
आपतंतीं महाशक्तिं ज्वलंतीमिव तेजसा ॥३०॥
दृष्ट्वा राहुः खमुत्पत्य कराभ्यां जगृहे द्रुतम्
स तां शक्तिं गृहीत्वा तु विनद्योच्चैः पुनः पुनः ॥३१॥
स्वर्भानुः शिरसोनोपि तस्य शक्त्या जघान तम्
वक्षस्यभिहते शक्त्या तद्देहान्निर्गता सरित् ॥३२॥
तया संप्लावितः पुत्रो महादेवस्य संयुगे
कथंचित्सा नदी रुद्धा समं पूरो गिरिं ययौ ॥३३॥
श्रुत्वार्णवजो ज्वरतः कटककदंबस्य कर्कशं विरुतम्
सुस्वरवचनविदग्धं तमपि च कोकिलापतिं न सस्मार ॥३४॥
शरैः किरंतं दहनमसिना बर्बरोऽवधीत्
कूष्मांडो निहतो मूर्ध्नि सर्परोम्णाथ मुष्टिना ॥३५॥
पातालकेतुना हासो मुद्गरेण समाहतः
तस्य देहाद्विनिष्क्रम्य हस्ती मुद्गरमाभुनक् ॥३६॥
शुंडायां मुष्टिघातेन हतः पातालकेतुना
आयुधैर्जर्जरं चक्रे भृंगीशं रोमकंटकः ॥३७॥
भृंगीशोऽपि रणाद्भीतस्त्वरन्नेव गिरिं ययौ
सहसा धूम्रवर्णश्च शुभ्रः केतुमुखेऽपतत् ॥३८॥
गणं गिलितवान्दैत्यो महाकायो महाननः
हाहाकारो महानासीद्गिलिते केतुना रणे ॥३९॥
जृंभस्य निशितैर्बाणैश्छिन्नांगोऽथ विनायकः
शुंडादंडं परशुना तस्य चिच्छेद दंतिनः ॥४०॥
जृंभासुरो जघानाथ शक्त्या लंबोदरोदरम्
मूषकोऽपि शरैर्भिन्नः प्रविवेश गुहामुखम् ॥४१॥
विनायकः प्रहारार्त्तो विललापाकुलो रणे
हा मातस्तात हा भ्रातर्हा मूषक मम प्रिय ॥४२॥
गणेशक्रंदितं श्रुत्वा भगवत्या तया तदा
समेत्य कूटादन्यस्मात्पार्वत्योक्तः शिवस्तदा ॥४३॥
हेरंबो वध्यते दैत्यैः स्कंदोऽपि विनिपातितः
शिव किं क्रीडसे शैले रक्ष पुत्रौ गणानपि ॥४४॥
सदा शूलादिशस्त्राणां धृतानामद्य वै क्षणः
अथ गौर्या वचः श्रुत्वा वीरभद्रं शिवोऽब्रवीत् ॥४५॥
वृषः सज्जीयतां शीघ्रमित्युक्ते स तदाकरोत्
बबंध मुकुटं तस्य शृंगयोर्भास्करप्रभम् ॥४६॥
कंठे घंटाशतं बद्ध्वा कर्णयोर्दर्पणौ धृतौ
स्कंधे च किंकिणीजालं चरणे नूपुरं महत् ॥४७॥
पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे
कल्याणी च तदा देवी शर्वपार्श्वे व्यस्थिता ॥४८॥
पाशाष्टकेन संयुक्ता तत्र खड्गधरांबिका
न्यस्तानि सर्वशस्त्राणि स वृषः सज्जितो बभौ ॥४९॥
पार्वत्या भूषितः सोऽथ निजया घंटमालया
कृतं च तिलकं देव्या प्रोक्तः सत्कृतिपूर्वकम् ॥५०॥
हरस्त्वया न मोक्तव्यो वृषेन्द्र रणसंकटे
आगंतव्यमरीन्जित्वा शंभुना सह संगरे ॥५१॥
इति श्रुत्वा वचो देव्या हरो वृषमथारुहत्
धृत्वायुधसहस्रं तु निजालंकारभूषितः
रणं गच्छामि तां प्राह पार्वतीं प्रति सादरम् ॥५२॥
ईश्वर उवाच-
त्वं तिष्ठसि स्वरूपाणि एकाकिन्यपि सस्पृहा
भामिनी दुरभिप्राया दानवा हि समागताः ॥५३॥
तस्मात्त्वयात्मनैवात्मा रक्षणीयो वरानने
इत्युक्त्वा वृषभारूढो ययौ रुद्रो रणांगणम् ॥५४॥
त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः
वीरभद्रो रथेनाशु सिंहयुक्तेन सत्वरः ॥५५॥
वामपार्श्वं महेशस्य शूरो रक्षति पार्थिव
मणिभद्रो ऽश्वयुक्तेन रथेन परवीरहा ॥५६॥
दक्षिणं धूर्जटेः पार्श्वं संरक्षति धनुर्द्धरः
तुंगादुत्तीर्य शैलेंद्राद्रणं प्राप्तो गणैः सह ॥५७॥
दृष्ट्वा जगर्जुस्ते दैत्या महेशानं वृषस्थितम्
ततो महान्निनादोऽभूद्दैत्यप्रमथसेनयोः ॥५८॥
तयोरभून्मिथो राजन्संप्रमर्दोऽथ दारुणः
ततो नंदी महाकालः कालस्कंदौ महाबलः ॥५९॥
माल्यवान्पुष्पदंतश्च वृषली स्वर्णदंतिकः
चंडीशो मदनश्चंडः कूष्मांडो गुप्तलोमकः ॥६०॥
ये ये पूर्वं रणे भग्नाः प्राप्तास्ते रणसंकटम्
शिवस्य पुरतो दैत्या युयुधुस्ते महाबलाः ॥६१॥
गणदानवयोधानां संग्रामोऽभूद्भयावहः
ततो गणानां विद्राव्य सैन्यं ते च महाबलाः ॥६२॥
रणे संवेष्टयामासुः शरौघैः सर्वतः शिवम्
शूलैः कुंतैर्गदाभिश्च मुद्गरैः परिघैरपि ॥६३॥
इंद्रियाणि यथात्मानं विषयैः पंचपंचभिः
जघानाथ रणे दैत्याञ्छंभुर्बाणैः सुदारुणैः
यथाशु माघः पापानि हंति स्नानेन तत्क्षणात् ॥६४॥
इति श्रीपाद्मे महापुराणे पंचपंचात्सहस्रसंहितायामुत्तरखण्डे नारदयुधिष्ठिरसम्वादे
जालंधरोपाख्याने श्रीमहादेवरणमागमनंनाम द्वादशोऽध्यायः ॥१२॥
N/A
References : N/A
Last Updated : November 15, 2020
TOP