उत्तरखण्डः - अध्यायः १८२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शिव उवाच
अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति
यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि ॥१॥
आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि
द्विजन्मा भावशर्मेति तत्रासीद्गणिकापतिः ॥२॥
खादन्मांसं पिबन्मद्यं चोरयन्साधुसंपदः
रममाणः परस्त्रीभिराखेटक कुतूहली ॥३॥
अत्यवाहयदत्युग्रो गरीयांसं मनोरथम्
सुहृदां विटगोष्ठ्यां च तालीफलसुधारसम् ॥४॥
निपीय कंठपर्यंतमजीर्णेनातिपीडितः
मृतः कालेन पापात्मा जातस्तालीतरुर्महान् ॥५॥
तस्यच्छायामुपाश्रित्य निबिडामतिशीतलाम्
अभूतां दंपती कौचिद्ब्रह्मराक्षसतां गतौ ॥६॥
देव्युवाच
किं जातीयौ किमात्मानौ किंवृत्तावित्युदीरय
कर्मणा केन वा देव ब्रह्मराक्षसता तयोः ॥७॥
शिव उवाच
वेदवेदांगतत्वज्ञः सर्वशास्त्रार्थकोविदः
सदाचारोऽभवत्कश्चिद्दिवजो नाम कुशीवलः ॥८॥
जाया च तस्य कुमति नामधेया दुराशया
स सभार्यो महादानान्याददानोऽतिलोभवान् ॥९॥
महिषीं कालपुरुषं हयादीननुवासरम्
अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम् ॥१०॥
कालेन दंपती प्रेतौ ब्रह्मराक्षसरूपिणौ
पर्यटंतौ महीमेतां क्षुत्तृषाकुलविग्रहौ ॥११॥
विशश्रमतुरागत्य मूलं तालीतरोस्ततः
कथमेतन्महादुःखमावयोरपगच्छति ॥१२॥
कथं वा जायते मुक्तिर्ब्रह्मराक्षसयोनितः
इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत ॥१३॥
ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात्
विनाकर्मविधिज्ञानात्कथं मुच्येत संकटात् ॥१४॥
भार्योवाच
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम
एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु ॥१५॥
अष्टमाध्यायश्लोकार्द्धश्रवणात्स तरुस्तदा
विहाय तालीरूपं तद्बभूव द्विजसत्तमः ॥१६॥
सद्योज्ञानविधूतात्मा विमुक्तः पापकंचुकात्
तन्माहात्म्याद्विनिर्मुक्तौ दंपती तौ बभूवतुः ॥१७॥
एतावदेव मुक्तं च दैवान्निर्गत्य तन्मुखात्
ततोंतरिक्षादायांतं क्वणत्किंकिणिकं शुभम् ॥१८॥
दिवि दिव्यांगनावक्त्रचंद्रमंडलमंडितम्
अप्सरोवदनांभोज भ्राम्यद्भ्रमरसंकुलम् ॥१९॥
निर्मथ्यमानदुग्धाब्धि वेलाडिंडिरपांडुरैः
गंगातरंगसुभगैश्चामरैरुपशोभितम् ॥२०॥
गायद्गंधर्वसुभगं नृत्यत्सुरवधूशतम्
दिव्यं विमानमारूढौ दंपती जग्मतुर्दिवम् ॥२१॥
अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम्
ततो लिलेख मेधावी श्लोकार्द्धमिदमादरात् ॥२२॥
ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम्
आराधयितुमन्विच्छन्देवदेवं जनार्दनम् ॥२३॥
स तत्र कर्तुमारेभे तपः परमुदारधीः
अत्रांतरे जगन्नाथो देवदेवो जनार्दनः ॥२४॥
पृष्टो दुग्धाब्धिसुतया संयोज्य करसंपुटम्
निद्रापथं विहायैव स्थीयते कथ्यतामिति ॥२५॥
श्रीभगवानुवाच
काश्यां भागीरथी तीरे तपस्यतितरां द्विजः
भावशर्माति मेधावी मद्भक्तिरसपूरितः ॥२६॥
जपन्गीताष्टमाध्यायश्लोकार्द्धं नियतेंद्रियः
संतुष्टवानहं देवि तदीयतपसा भृशम् ॥२७॥
चिरं विचारयन्नेव तत्तपः सदृशं फलम्
दातुमुत्कंठितमना वर्तेयं सांप्रतं प्रिये ॥२८॥
पार्वत्युवाच
हरिः प्रसन्नभूतोऽपि चिंतां प्राप यदि प्रभो
भावशर्मा हरेर्भक्तः प्राप्तः किं तत्फलं पुनः ॥२९॥
श्रीमहादेव उवाच
ततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः
सुखमात्यंतिकं प्राप भावशर्मा द्विजोत्तमः
लेभिरे पदवीं सर्वे तदीया अपि वंशजाः ॥३०॥
तत्कर्मवशतो ये वै संप्राप्ता यातनां पुरा
एतदेवाष्टमाध्यायमाहात्म्यं किंचिदेव ते ॥३१॥
कथितं मृगशावाक्षि द्रष्टव्यं तु सदैव च ॥३२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सा० उत्तरखंडे गीता माहात्म्ये द्व्यशीत्यधिकशततमोऽध्यायः ॥१८२॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP