उत्तरखण्डः - अध्यायः १९८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
कुमारा ऊचुः-
अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम्
येन भागवतं सिद्ध्येत्पुंसां कृष्णार्पितात्मनाम् ॥१॥
दैवज्ञं शास्त्रकुशलं समाहूय धनांशुकैः
समभ्यर्च्य मुहूर्तं तु प्राक्पृच्छेद्भक्तिमान्नरः ॥२॥
स वदेद्यं मुहूर्तं तु तत्रारंभः प्रशस्यते
नभोनभस्येषोर्जाश्च सहः शुचिसमन्विताः ॥३॥
मासाः श्रेष्ठाः कथारंभे पूर्णा चापि तिथिः शुभा
भौमार्किवर्जिता वारा भानि ध्रुव मृदूनि च ॥४॥
शुभे योगे शुभे लग्ने प्रारंभः शस्यते सदा
नित्यायां च कथायां तु पुराणानां मुनीश्वर ॥५॥
द्वादशीं वर्जयेत्प्राज्ञः सूतसूतकसंभवात्
श्रीमद्भागवतस्यापि सप्ताहेनैव केऽपि च ॥६॥
न निषेधोस्ति देवर्षे प्राहुरेवं पुराविदः
श्रीभागवतसप्ताहो महायज्ञः स्मृतो बुधैः ॥७॥
अतो निमंत्रणं कार्यं वैष्णवानां समंततः
सतां समाजो भविता सप्ताहं वैष्णवोत्तमाः ॥८॥
आगंतव्यमतश्चात्र वैष्णवैः श्रवणार्थिभिः
समागतानां तेषां तु निवासं परिकल्पयेत् ॥९॥
तीर्थे वापि वने वापि ग्रामे वापि प्रयत्नतः
संशोधितायां भूम्यां तु मंडपं परिकल्पयेत् ॥१०॥
कदलीस्तंभसंयुक्तं चतुर्दिक्षु ध्वजान्वितम्
उच्चमासनमप्युक्तं वक्तुस्तस्याग्रतो मुने ॥११॥
आपार्श्वद्वयमुक्तानि श्रोतॄणामासनानि च
उदङ्मुखो भवेद्वक्ता समाजेस्मिन्विदांवरः ॥१२॥
वेदशास्त्रार्थतत्वज्ञो वैष्णवो ब्राह्मणोत्तमः
दृष्टांतकुशलो धीरो वक्ता कार्योऽतिनिस्पृहः ॥१३॥
सर्वसंदेहहर्त्तापि कार्यो वक्ता न चैव हि
वक्तुः पार्श्वे सहायार्थं स्थाप्योऽन्य पंडितः सुधीः ॥१४॥
श्रोतॄणां संशयच्छेत्ता ज्ञानांबोधविधायकः
कथाविघ्नविघातार्थं गणेशं प्राक्प्रपूजयेत् ॥१५॥
ततो दुर्गां हरं विष्णुं ब्रह्माणं भास्करं द्विजान्
संपूज्य विधिवद्भक्त्या तर्पयेद्देवताः पितॄन् ॥१६॥
मुख्यः श्रोता ततः पश्चात्पूजयेत्पुस्तके हरिम्
ततः प्रदक्षिणीकृत्य द्रव्यवस्त्रफलानि च ॥१७॥
धृत्वांजलौ पुस्तकस्थं हरिं संप्रार्थयेन्मुने
त्वं भागवतलोकेस्मिन्स्वयं कृष्णो व्यवस्थितः ॥१८॥
समाश्रितो मया नाथ मुक्त्यर्थं भवसागरे
मनोरथो मदीयोऽयं सर्वथा सफलस्त्वया ॥१९॥
निर्विघ्नेन प्रकर्तव्यो दासोऽहं तव केशव
इत्युच्चार्य मुने द्रव्यं पुस्तकाग्रे समर्प्यतु ॥२०॥
वक्तारं प्रार्थयेच्चापि नमस्कुर्वन्कृतांजलि
शुकरूपद्विजश्रेष्ठ सर्वशास्त्रविशारद ॥२१॥
श्रीभागवतव्याख्यानादज्ञानं मे विनाशय
इति संप्रार्थ्य वक्तारं वरयेत्पंच वाडवान् ॥२२॥
द्वादशाक्षरमंत्रस्य जपार्थं मुनिसत्तम
गीतवाद्यविधिज्ञांश्च संपूज्यार्थांशुकादिभिः ॥२३॥
स्थापयेत्कीर्तनार्थं तु कथांते विधिवन्मुने
यस्तु जाया धनागार पुत्रचिंतां व्युदस्य च ॥२४॥
शृणुयादेकचित्तस्तु स समग्रं फलं लभेत्
सूर्योदयं समारभ्य सार्द्धत्रिप्रहरांतकम् ॥२५॥
पठित्वार्थः प्रकर्त्तव्यो वाक्यमध्यायमेव वा
मध्याह्ने घटिकायुग्मं विरमेदपि नारद ॥२६॥
कथाऽवसाने कर्त्तव्यं कीर्तनं केशवस्य च
उपवासः प्रकर्त्तव्यः श्रोतृभिस्तत्फलेप्सुभिः ॥२७॥
तदशक्तो हविष्यान्नं सकृत्स्वल्पं समाहरेत्
जलेनापि फलेनापि दुग्धेन च घृतेन वा ॥२८॥
केवलेनैव कर्त्तव्यं निर्विघ्नं धारणं तनोः
सप्ताहव्रतिनां पुंसां नियमान्शृणु नारद ॥२९॥
विष्णुदीक्षाविहीनानां नाधिकारोऽत्र कीर्तितः
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ॥३०॥
समाचरेन्नित्यमेव सप्ताहे मुनिसत्तम
द्विदलं मधु तैलं च परान्नं चेक्षुजं रसम् ॥३१॥
भावदुष्टं क्रियादुष्टं जह्यात्पर्युषितं व्रती
पलांडुलशुनं हिंगुं मूलकं गृंजनं तथा ॥३२॥
नालिकां चैव कूष्मांडं नरो नाद्यात्कथाव्रती
कामं क्रोधं मदं लोभं दंभं मात्सर्यमेव च ॥३३॥
मोहं द्वेषं तथा हिंसां नैव कुर्यात्कथाव्रती ॥३४॥
वेदवैष्णवविप्राणां गुरु गोव्रतिनां तथा
स्त्री राजमहतां चापि निंदां जह्यात्कथाव्रती ॥३५॥
सत्यं शौचं दयामौनमार्जवं विनयं तथा
मनः प्रसन्नतां चापि बुधः कुर्यात्कथाव्रती ॥३६॥
श्रीकामस्तनयार्थी च जयकामश्च मोक्षधीः
शृणुयाद्वै भागवतं निष्कामः श्रीहरिं लभेत् ॥३७॥
सप्तमे दिवसे कुर्याल्लंघनं तत्समाप्तिके
वक्तुश्च पूजा कर्त्तव्या गोभूस्वर्गं वरादिभिः ॥३८॥
प्रसाद तुलसीं मालां श्रोतृभ्यः प्रतिदापयेत्
उत्सवश्च तथा कार्यो गीतवाद्यविशारदैः ॥३९॥
गीतार्थं शृणुयाच्चापि परेऽहनि विचक्षणः
प्रतिश्लोकं च जुहुयाद्गायत्र्या वा यथाविधि ॥४०॥
पायसं मधुसर्पिश्च तिलांस्तंडुलकान्यवान्
शर्करां च प्रियालं च द्राक्षां वाताम खर्जुरौ ॥४१॥
अंभोजानि च कर्पूरं चंदनागुरुणीपुरम्
लवंगं बिल्वपत्राणि सहस्रं च पृथक्पृथक् ॥४२॥
विघ्नस्य च विघातार्थं न्यूनाधिक्यनिवृत्तये
आत्मनः पूततार्थं च पठेन्नामसहस्रकम् ॥४३॥
द्वादशाष्टादशाथापि श्रद्धयाह्यधिकांस्तथा
पायसेनाशयेद्विप्रान्स्वर्णं धेनुश्च दक्षिणा ॥४४॥
व्रतसिद्ध्यर्थमप्यत्र प्रौष्ठपद्यामथापि वा
स्वर्णसिंहं विनिर्माय तस्य पृष्ठे निधाय च ॥४५॥
श्रीमद्भागवतं वक्त्रे लेखयित्वा समर्पयेत्
एवं कृते विधाने तु सर्वपापनिवारणम् ॥४६॥
भवेच्छ्रोतुः सुफलदं श्रीमद्भागवतं श्रुतम्
धर्मकामार्थमोक्षाणां साधनं भक्तिदायकम् ॥४७॥
न कार्यं विद्यते लोके यदनेन न सिध्यति
ततो भागवतं लोके पुराणेभ्योऽधिकं मतम् ॥४८॥
दोषाष्टादशनिर्मुक्तो वाचकः परिकीर्तितः
द्वात्रिंशदपराधैर्हि मुक्तो श्रोता मतो बुधैः ॥४९॥
श्रीमद्भागवतं नाम पुराणं कामदं नृणाम्
तथापि श्रवणं चास्य निष्कामस्यैव भक्तिदम् ॥५०॥
श्रीमद्भागवताभिधः सुरतरुस्तारांकुरः सज्जनिः स्कंधैर्द्वादशभिस्ततः प्रविलसद्भक्त्यालवालोदयः
द्वात्रिंशत्त्रिशतं च यस्य विलसच्छाखाः सहस्राण्यलं पर्णान्यष्टदशेष्टदोतिसुलभो वर्वर्ति सर्वोपरि ॥५१॥
इति ते कथितं सर्वं कृतं चापि तवेप्सितम्
ज्ञानवैराग्यभक्तीनां तारुण्यं लोकमोक्षदम् ॥५२॥
सूत उवाच-
इत्युक्ता ते कुमारास्तु कृष्णांघ्रिसुधयाप्लुताः
विरेमुर्भगवद्भक्ता दीनोद्धरणतत्पराः ॥५३॥
तद्वाक्यं तु समाकर्ण्य नारदो भगवत्प्रियः
प्रेमगद्गदया वाचा तानुवाच कृतांजलिः ॥५४॥
नारद उवाच-
धन्योस्म्यनुगृहीतोस्मि भवद्भिः करुणापरैः
यद्भागवतसप्ताहान्निकटे दर्शितो हरिः ॥५५॥
एवं ब्रुवति वै तस्मिन्नारदे वैष्णवोत्तमे
पर्यटंस्तं समायातस्तत्र योगेश्वरः शुकः ॥५६॥
द्विरष्टवर्षाकृतिरंबुजाक्षो व्यासात्मजो ज्ञानपयोधिचंद्रः
कथावसाने निजलाभतुष्टो हृदानिशं भागवतं पठंश्च ॥५७॥
दृष्ट्वा सदस्यास्तमथोरुतेजसंसद्यःसमुत्थाय वरासनं ददुः
स चोपविष्टः सुखमासने यदा तदाविरासीद्धरिरब्जलोचनः ॥५८॥
भवो भवान्या कमलासनः सुतैस्तत्रागतः कीर्तनदर्शनाय च
सुरेशमुख्यास्त्रिदशा विमानकैः समागतास्तैरभवद्वृतं नभः ॥५९॥
प्रह्लादस्तालधारीतरलगतितया ह्युद्धवः कांस्यधारी वीणाधारी सुरर्षिः स्वरकुशलतया रागकर्ताऽर्जुनोऽभूत्
इंद्रो मार्दंगिकोऽभूज्जयजय सुवचः प्रावदंस्ते कुमाराः सद्भावस्य प्रवक्ता निरतिशयगुणोव्यासपुत्रो बभूव ॥६०॥
ननर्त्त मध्ये त्रिकमेव तत्र ज्ञानादिकानां नवरूपयुक्तम्
अलौकिकं कीर्त्तनकं समीक्ष्य प्रसन्नचेता हरिरित्युवाच ॥६१॥
मत्तो वरं भागवता वृणीध्वं प्रीतात्कथाकीर्त्तनतो भृशं वः
श्रुत्वाथ तद्वाक्यमतिप्रसन्ना प्रेमार्द्रचित्ता हरिमूचिरे ते ॥६२॥
कुमारा ऊचुः-
सप्ताहयज्ञेन वितायतेन सद्यः प्रसन्नो भविता मुरारे
कलौयुगे घोरतरे नराणां स्वल्पायुषां विघ्नशताकुलानाम् ॥६३॥
एवं वरं विश्वविधानपालनप्रणाशहेतोर्भवतोखिलात्मनः
वृणीमहेऽन्यो न मनोरथो विभो भवत्पदांभोजनिषेविणां हि नः ॥६४॥
एवमस्त्विति चैवोक्त्वा तत्रैवांतर्दधे हरिः
नारदः सुप्रसन्नात्मा कुमारानभ्यवादयत् ॥६५॥
ततस्ते सनकाद्याश्च भृग्वाद्याश्च शुकादयः
प्रययुः स्वाश्रमान्हृष्टाः पीत्वा तच्च कथामृतम् ॥६६॥
भक्तिः सुताभ्यां सहिता नारदेन प्रवर्तिता
भूमंडले समस्तेऽस्मिस्तदा प्रभृति शौनक ॥६७॥
शिव उवाच-
आख्यानं महदाकर्ण्य प्रीतात्मा शौनकः प्रिये
पर्यपृच्छत्पुनः सूतं सर्वसंदेहभंजनम् ॥६८॥
शौनक उवाच-
शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः
सुरर्षये कदा ब्राह्मैरेतदाख्याहि मानद ॥६९॥
सूत उवाच-
श्रीकृष्णनिर्गमात्त्रिंशद्वर्षावधिगते कलौ
भाद्रशुक्लनवम्यां वै कथारंभं शुकोऽकरोत् ॥७०॥
परीक्षिच्छ्रवणांते तु गते वर्षशतद्वये
शुचिशुक्लनवम्यां तु गोकर्णोकथयत्कथाम् ॥७१॥
कलौ सहस्रमब्दानामधुना प्रगतं द्विज
परीक्षितो जन्मकालात्समाप्तिं नीयतां मखः ॥७२॥
ईश्वर उवाच-
इति श्रुत्वा वचस्तस्य शौनको मुनिसत्तमः
पूर्णं चकार तं यज्ञं सहस्रपरिवत्सरम् ॥७३॥
ब्राह्मं पाद्मं वैष्णवं च कौर्म्यं मात्स्यं च वामनम्
वाराहं ब्रह्मवैवर्त्तनारदीयं भविष्यकम् ॥७४॥
आग्नेयमर्द्धं वै सूताच्छुश्रुवुर्लोमहर्षणात्
एतानि तु पुराणानि द्वापरांते श्रुतानि हि ॥७५॥
शौनकाद्यैर्मुनिवरैर्यज्ञारंभात्पुरैव हि
यदा तु तीर्थयात्रायां वलदेवः समागतः ॥७६॥
नैमिषं मिश्रिकं नाम समाहूतो मुनीश्वरैः
तत्र सूतं समासीनं दृष्ट्वा त्वध्यासनोपरि ॥७७॥
चुक्षुभे भगवान्रामः पर्वणीव महोदधिः
आषाढशुक्लद्वादश्यां पारणाहनि पार्वति ॥७८॥
पूर्वार्द्धयामवेलायां भावित्वात्कृष्णमायया
मुग्धो दर्भकरो रामः प्राहरल्लोमहर्षणम् ॥७९॥
ततो मुनिगणाः सर्वे हाहाकारपरायणाः
बभूवुर्नगजेत्यर्थं शोकदुःखाकुलांतराः ॥८०॥
ऊचुश्च रामं लोकेशं विनयेन क्षमापराः
ऋषय ऊचुः-
रामराम महाबाहो भवता लोककारिणा ॥८१॥
अजानतेवाचरिता हिंसा ब्रह्मवधाधिका
व्यासशिष्यो ह्ययं साक्षात्पुराणर्षिर्महातपाः ॥८२॥
अस्मै ह्यध्यासनं दत्तमस्माभिर्यज्ञकर्मणि
अष्टादशपुराणानां वाचकाय कृतक्षणैः ॥८३॥
कथायां जगदीशस्य दीर्घमायुश्च मानद
तद्भवांल्लोकरक्षार्थं धर्मसेतुप्रवर्तकः ॥८४॥
आविर्भूतो जगन्नाथो निग्रहानुग्रहक्षमः
इत्युक्त्वा मुनयस्ते तु बलदेवाग्रतः प्रिये ॥८५॥
तूष्णीं बभूवुः सहसा स्मरंतो नियतेर्बलम्
ततः प्रोवाच भगवान्रामः शत्रुनिषूदनः ॥८६॥
विप्रान्संप्रीणयंस्तांस्तु लोकवेदपथानुगः
श्रीराम उवाच-
विप्राः शृणुत भद्रं वः कोपं त्यक्त्वा सुदूरतः ॥८७॥
यदहं वेद्मि भवतामभीष्टं कार्यसिद्धिदम्
अस्य पुत्रो महाज्ञानी भविष्यति वरान्मम ॥८८॥
भवतामीप्सितं सर्वं शास्त्रं वै कथयिष्यति
यदर्थमहमाहूतस्तच्च कार्य्यं समुच्यताम् ॥८९॥
ईश्वर उवाच-
इति श्रुत्वा वचस्ते तु रामस्य सुमहात्मनः
बल्वलस्य वधार्थाय प्रेरयामासुरीश्वरम् ॥९०॥
ततः स बल्वलं हत्वा प्रसाद्य मुनिपुंगवान्
प्रणिपत्याभ्यनुज्ञातस्तीर्थयात्रामुपागमत् ॥९१॥
तीर्थयात्रां गते रामे शौनकाद्या मुनीश्वराः
लौमहर्षणिमाहूय सत्कृत्य नगनंदिनि ॥९२॥
तत्पदे स्थापयामासुः शेषं संकीर्तनाय वै
आग्नेयोत्तरमाहात्म्यं श्रीमद्भागवतांतकम् ॥९३॥
पुराणसप्तकं सार्द्धं शुश्रुवुर्हृष्टमानसाः
दशसप्तपुराणानि कृत्वा सत्यवतीसुतः ॥९४॥
नाप्तवान्मनसस्तोषं भारतेनापि भामिनि
ज्ञात्वास्य हृदयं खिन्नं नारदो देवदर्शनः ॥९५॥
समाजगाम भगवान्व्यासस्याश्रममुत्तमम्
तं दृष्ट्वा वासवीसूनुः सत्कृत्यासनपूर्वकम् ॥९६॥
नारदं पूजयामास विधिदृष्टेनकर्मणा
अथ तं नारदः प्राह किं भवान्क्लिष्टमानसः ॥९७॥
ध्यायते तत्समाचक्ष्व सर्वं संदेहकारणम्
इति पृष्टः स मुनिना पराशर सुतोऽब्रवीत् ॥९८॥
ब्रह्मन्किं कारणं चेतो मोहे जाने न तत्त्वहम्
भवान्विज्ञानकुशलो ज्ञात्वा तत्प्रब्रवीतु मे ॥९९॥
एवं विज्ञापितस्तेन नारदोऽध्यात्मकोविदः
उवाच परमं तत्वं यदुक्तं विधिनात्मने ॥१००॥
नारद उवाच-
शृणु पाराशरे मत्तः कारणं येन वै तव
असंपन्नं मनो भाति शास्त्रयोनेरपि प्रभोः ॥१०१॥
त्वयावतीर्य लोकेस्मिन्वेदा व्यस्ता विभागशः
कृतानि च पुराणानि सेतिहासानि चानघ ॥१०२॥
यत्र सर्वस्त्रयी धर्मो वर्णाश्रमनिवासिनाम्
निर्दिष्टो वीक्ष्य कालेन नृणामल्पायुषां कलौ ॥१०३॥
यत्राधिकारः सर्वेषां दृश्यते श्रवणादिषु
स्त्री शूद्र द्विजबंधूनां साधूनां साधुसंगमः ॥१०४॥
धर्मादयो यथाशश्वद्वर्णितास्तेषु वै त्वया
प्राधान्येन तथा नैव वर्णितो महिमा हरेः
सर्वधर्मक्रियाशून्ये कलौ दोषनिधौ मुने ॥१०५॥
न गतिः पापकर्तॄणां विना कृष्णकथाऽमृतम्
एष एव गुणो ह्यस्मिन्घोरे कलियुगे नराः ॥१०६॥
यत्कृष्णकीर्तनेनैव मुच्यंते कर्मबंधनात्
यज्ञो दानं तपः कर्म ज्ञानं ध्यानं कृतादिषु ॥१०७॥
सिद्धिदं च तथा ब्रह्मन्नामकीर्त्तनकं कलौ
अतो वै कलिजातानामुद्धारार्थं नृणां भवान् ॥१०८॥
श्रीमद्भागवतं नाम पुराणं वर्णयत्वलम्
येन प्रवर्तितेनांग भवतो मानसं ध्रुवम् ॥१०९॥
तोषमेष्यति लोकाश्च प्राप्स्यंति कृतकृत्यताम् ॥११०॥
ईश्वर उवाच-
एवमादिश्य स मुनिर्व्यासायामिततेजसे
ययौ यादृच्छिकः शश्वद्गायन्हरिगुणान्प्रिये ॥१११॥
नारदे तु गते पश्चाद्व्यासः सर्वार्थदर्शनः
चकार संहितामेतां श्रीमद्भावतीं पराम् ॥११२॥
पैलादींश्चतुरो वेदानध्याप्य विधिपूर्वकम्
पुराणसंहिताः सर्वाः सूताय प्रत्यपादयत् ॥११३॥
श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम्
शुकमध्यापयामास विरतं लोकवेदतः ॥११४॥
सा संहिता भागवती लोमहर्षणसूनुना
श्रुता कथयतो राज्ञे औत्तरेयाय वै शुकात् ॥११५॥
शौनकादिऋषिभ्यस्तु तेन प्रोक्ता यथार्थतः
वरीवर्त्ति पुराणानामुपरीयं नगात्मने ॥११६॥
अस्यां संलग्नचित्तानां नृणामन्यत्र नो रतिः
जायते मानसे कृष्णो नंदसूनुश्चकास्ति च ॥११७॥
यत्तु पृष्टं त्वया भद्रे लोकनिस्तारहेतवे
श्रीभागवतमाहात्म्यं मह्यं संकीर्त्तयेति ह ॥११८॥
तत्सर्वं च मया तुभ्यं निर्दिष्टं गणपांबिके
नानेतिहाससहितं भक्तिमुक्तिप्रदायकम् ॥११९॥
यः शृणोति नरो भक्त्या माहात्म्यं पठतेऽपि च
अनुमोदनेन वा सोपि लभते परमां गतिम् ॥१२०॥
द्विजोऽधीत्याप्नुयाद्वेदान्क्षत्रियस्तु लभेज्जयम्
धनं वैश्यस्तथाशूद्रः श्रुत्वैव लभते गतिम् ॥१२१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहे श्वरसंवादे श्रीमद्भागवतमाहात्म्ये अष्टनवत्यधिकशततमोऽध्यायः ॥१९८॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP