संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ४०

उत्तरखण्डः - अध्यायः ४०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद
एतदाख्याहि भो स्वामिन्को देवस्तत्र पूज्यते ॥१॥
श्रीकृष्ण उवाच-
कथयिष्यामि राजेंद्र भवतः स्नेहबंधनात्
तुष्टिर्मे न तथा राजन्यज्ञैर्बहुलदक्षिणैः ॥२॥
यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो हरिवासरः ॥३॥
सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद
पौषस्य कृष्णपक्षे या सफला नाम नामतः ॥४॥
तस्यां नारायणं देवं पूजयेच्च यथाविधि
पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा ॥५॥
नागानां च यथा शेषो पक्षिणां पन्नगाशनः
देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः ॥६॥
व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः
ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम ॥७॥
हरिवासरसंलीनाः कुर्वंत्येकादशीव्रतम्
इहैव धनसंयुक्ता मृता मोक्षं लभंति ते ॥८॥
सफलायां फलै राजन्पूजयेन्नामतो हरिम्
नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः ॥९॥
जंबीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः
लवंगैर्बदरीभिश्च तथाम्रैश्च विशेषतः ॥१०॥
पूजयेद्देवदेवेशं धूपदीपैस्तथैव च
सफलायां विशेषेण दीपदानं तु कारयेत् ॥११॥
रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः
यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि ॥१२॥
एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि
तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि ॥१३॥
सर्वव्रतानि राजेंद्र कलां नार्हंति षोडशीम्
एवं वर्षसहस्राणि तपसा नैव यत्फलम् ॥१४॥
तत्फलं समवाप्नोति यः करोति हि जागरम्
श्रूयतां राजशार्दूल सफलायाः कथा शुभा ॥१५॥
चंपावतीति विख्याता पुरी माहिष्मतस्य च
बभूवुस्तस्य राजर्षेः पुत्राः पंच कुमारकाः ॥१६॥
तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा
परदाराभिचारी च वेश्यासक्तश्च मद्यपः ॥१७॥
पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा
असद्वृत्तिरतो नित्यं भूसुराणां तु निंदकः ॥१८॥
वैष्णवानां च देवानां नित्यं निंदां करोति सः
ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः ॥१९॥
नाम्ना तु लुंपक इति राजपुत्रेषु चापठत्
राज्यान्निष्कासितस्तेन पित्रा चैव तु बंधुभिः ॥२०॥
स चैवं परिवारैस्तु त्यक्तश्च परिपंथिवत्
लुंपकोऽपि तथा त्यक्तश्चिंतयामास वै तदा ॥२१॥
त्यक्तोऽहं बांधवैः पित्रा राज्यान्निष्कासितः किल
इति संचिंत्यमानोऽसौ मतिं पापे तदाकरोत् ॥२२॥
मया गंतव्यमेवास्तु दारुणे गहने वने
तस्माच्चैव पुरं सर्वं लुंपयिष्यामि वै पितुः ॥२३॥
इत्येवं स मतिं कृत्वा लुंपको दैवयोगतः
निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने ॥२४॥
जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः
सर्वं च नगरं तेन मुषितं पापकर्मणा ॥२५॥
स्तेयाभिगामी नगरे गृहीतः स निशाचरैः
उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च ॥२६॥
स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः
आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे ॥२७॥
आश्रमस्तस्य दुष्टस्य वासुदेवस्य संनिधौ
अश्वत्थो वर्त्तते तत्र जीर्णश्च बहुवार्षिकः ॥२८॥
देवत्वं तस्य वृक्षस्य विपिने वर्तते महत्
तत्रैव निवसंश्चैव लुंपकः पापबुद्धिमान् ॥२९॥
गते बहुतिथे काले कस्यचित्पुण्यसंचयात्
पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा ॥३०॥
फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः
लुंपको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः ॥३१॥
पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः
न निद्रा न सुखं तस्य गतप्राण इवाभवत् ॥३२॥
आछाद्य दशनैरास्यमेवं नीता निशाखिला
भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा ॥३३॥
लुंपको गतसंज्ञस्तु सफलाया दिने तथा
रवौ मध्यंगते चैव संज्ञां लेभे स लुंपकः ॥३४॥
इतस्ततो विलोक्याथ व्यथितश्च तदासनात्
स्खलत्पद्भ्यां प्रचलितः खंजन्निव मुहुर्मुहुः ॥३५॥
वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत्
न शक्तिर्जीवघाते तु लुंपकस्य दुरात्मनः ॥३६॥
फलानि च तदा राजन्नाजहार स लुंपकः
यावत्समागतस्तत्र तावदस्तं गतो रविः ॥३७॥
किं भविष्यति तातेति स विलापं चकार ह
फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत् ॥३८॥
इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः
इत्युक्त्वा लुंपकश्चैव निद्रां लेभे न वै निशि ॥३९॥
रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः
फलैस्तु पूजनं मेने सफलायास्तथानघ ॥४०॥
अकस्माद्व्रतमेवैतत्कृतवान्वै स लुंपकः
तेन पुण्यप्रभावेन प्राप्तं राज्यमकंटकम् ॥४१॥
सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह
दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी ॥४२॥
राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः
तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत् ॥४३॥
मतिरासीत्ततस्तस्य परमा वैष्णवी नृप
दिव्याभरणशोभाढ्यो लेभे राज्यमकंटकम् ॥४४॥
कृतं राज्यं तु तेनैवं वर्षाणि दशपंच च
मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः ॥४५॥
आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च
गतः कृष्णस्य सांनिध्यं यत्र गत्वा न शोचति ॥४६॥
एवं यः कुरुते राजन्सफलाव्रतमुत्तमम्
इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ॥४७॥
धन्यास्ते मानवा लोके सफलायां च ये रताः
तेषां च सफलं जन्म नात्र कार्या विचारणा ॥४८॥
पठनाच्छ्रवणाच्चैव करणाच्च विशांपते
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ॥४९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे पौषकृष्णासफलैकादशीनाम चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP