उत्तरखण्डः - अध्यायः १९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिर उवाच-
श्रीशैलः पर्वतो रम्यः कुत्र तिष्ठति नारद
किं तत्र वर्त्तते तीर्थं कस्य देवस्य पूजनम्
कस्यां दिशि समाख्यातो लोकेषु च वदाधुना ॥१॥
नारद उवाच-
शृणु राजन्प्रवक्ष्यामि श्रीशैलं पर्वतोत्तमम्
यं श्रुत्वा मुच्यते लोको बालहत्यादि पातकात् ॥२॥
तत्पर्वतवनं रम्यं मुनिभिश्चोपसेवितम्
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥३॥
हंसकोकिलनादैश्च मयूरध्वनिनादितम्
श्रीवृक्षैश्च कपित्थैश्च शिरीषै राजवृक्षकैः ॥४॥
पारिजातकपुष्पैश्च कदंबोदुंबरैस्तथा
नानापुष्पैः सुगंधाढ्यैर्वासितं तद्वनं गिरौ ॥५॥
सर्वाभिरृषिपत्नीभिः सशिष्याभिः सुसेवितम्
केचिदभ्यासयुक्ताश्च केचिद्व्याख्यानतत्पराः ॥६॥
केचिदूर्ध्वभुजास्तत्र अंगुष्ठाग्रैः स्थिताः परे
शिवध्यानरताः केचित्केचिद्विष्णुपरायणाः ॥७॥
निराहाराश्च केप्यत्र केचित्पर्णाशने रताः
कंदमूलफलाहाराः केचिन्मौनव्रताः स्थिताः ॥८॥
एकपादाः स्थिताः केचित्केचित्पद्मासने स्थिताः
केचिच्चैव निराहारास्तपस्तेपुः सुदुष्करम् ॥९॥
आश्रमाणि च पुण्यानि नद्यश्च विविधाः शुभाः
देवखातान्यनेकानि तडागानि बहूनि च ॥१०॥
पर्वतोऽयं महाराज दृश्यते किल सर्वतः
मल्लिकार्जुनको राजन्यत्र तिष्ठति नित्यशः ॥११॥
तच्चैव शिखरं रम्यं पर्वतोपरि सेवितम्
शृंगदर्शनमात्रेण मुक्तिरेव न संशयः ॥१२॥
दक्षिणां दिशमाश्रित्य वर्त्तते पर्वतोत्तमः
अत्र गंगा महद्रम्या पातालेति समाश्रिता ॥१३॥
तत्र च स्नानमात्रेण महापापैः प्रमुच्यते
श्रीशैलशिखरं दृष्ट्वा वाराणस्यां मृतौ ध्रुवम् ॥१४॥
केदारे ह्युदकं पीत्वा पुनर्जन्म न विद्यते
तापसानां महत्स्थानं योगिनां च तथैव च ॥१५॥
तस्मात्सर्वप्रयत्नेन दर्शनं तस्य कारयेत्
अयं विज्ञानदेवोऽसौ महापातकनाशनः ॥१६॥
सिद्धपुरं च नगरं रम्यं स्वर्गसुखावहम्
नित्यमप्सरसो यत्र गायंति च रमंति च ॥१७॥
अतः पर्वताराजोऽयं दर्शने सौख्यकारकः
तस्य तैर्दर्शनं कार्यं मुक्तिमिच्छंति ये नराः ॥१८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखंडे श्रीशैलोपाख्याने एकोनविंशोऽध्यायः ॥१९॥
N/A
References : N/A
Last Updated : November 15, 2020
TOP