उत्तरखण्डः - अध्यायः २३४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
पार्वत्युवाच-
भगवञ्छ्रोतुमिच्छामि द्वादश्याश्च विधानकम्
विष्णोः पूजाविधानं च कर्त्तव्यं तत्र वै प्रभो ॥१॥
एकादश्याः प्रभावं च सर्वपापहरंनृणाम्
आचक्ष्व विस्तरेणैव मयि प्रीत्या महेश्वर ॥२॥
महादेव उवाच-
शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम्
तस्याः स्मरणमात्रेण संतुष्टः स्याज्जनार्दनः ॥३॥
एकादश्यां तु प्राप्तायां समुपोष्येह मानवः
सर्वपापविनिर्मुक्ता यांति विष्णोः परम्पदम् ॥४॥
सप्तजन्मार्जितं पाप ज्ञानतोऽज्ञानतः कृतम्
क्षणादेव लयं याति द्वादश्यां हरिपूजनात् ॥५॥
अश्वमेधसहस्राणि वाजपेयशतानि च
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ॥६॥
धर्म्मदा ह्यर्थदा चैव कामदा मोक्षदा किल
सर्व्वकामदुघा नॄणां द्वादशी वरवर्णिनी ॥७॥
एकादशी समं किंचित्पापत्राणं न विद्यते
एकादशीसमंकिचिद्व्रतं नास्ति शुभेक्षणे ॥८॥
एकादशीं परित्यज्य यो ह्यन्यद्व्रतमाचरेत्
स करस्थं महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते ॥९॥
एकादशेंद्रियैः पापं यत्कृतं भवति प्रिये
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ॥१०॥
रटंतीह पुराणानि भूयोभूयो वरानने
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ॥११॥
अभक्ष्यं सर्वदा प्रोक्तं किं पुनः शुक्लकृष्णयोः
वर्णानामाश्रमाणां च सर्वेषां वरवर्णिनी ॥१२॥
एकादश्युपवासस्तु कर्त्तव्यो नात्र संशयः
एकादश्यां च प्राप्तायां मातापित्रोर्मृतेऽहनि ॥१३॥
द्वादश्यां तु प्रदातव्यं नोपवासदिने क्वचित्
गर्हितान्नं न वाश्नंति पितरश्च दिवौकसः ॥१४॥
एकादश्यां न भोक्तव्यं सुरां वा न पिबेत्क्वचित्
ब्राह्मणं नैव हन्यात्तु सममेतत्त्रयं मतम् ॥१५॥
तस्मादेकादशीं शुद्धामुपवासं समाचरेत्
अवस्थात्रितये यस्तु यत्नो वाक्कायकर्म्मभिः ॥१६॥
दशमीमिश्रितां तां तु प्रयत्नेन विवर्ज्जयेत्
अरुणोदयवेलायां दशमीमिश्रिता भवेत् ॥१७॥
तां त्यक्त्वा द्वादशीं शुद्धामुपोष्येहाविचारयन्
कलायां विद्यमानायां सूर्य्यस्योदयनं प्रति ॥१८॥
त्रयोदश्यां तथा देवि द्वादशी परिविद्यते
तथा च द्वादशी शुद्धा ह्युपवासे विधीयते ॥१९॥
अरुणोदयवेलायां कृत्यं सर्वं समाचरेत्
कलायामपि द्वादश्यां पारणं तत्र चोदितम् ॥२०॥
शुद्धामेकादशीं चापि त्यजेदत्र न संशयः
कलाप्येकादशी यत्र द्वादश्यामुदिते रवौ ॥२१॥
सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद्द्विजः
एवं विधिं विनिश्चित्य समुपोष्यं हरेर्द्दिनम् ॥२२॥
सायमाद्यंतयोरह्नोः सायंप्रातस्तु मध्यमे
तत्रोपवासं कुर्वीत त्यक्त्वा भुक्तिचतुष्टयम् ॥२३॥
दशम्यामेकभक्तस्तु नारीसंगमवर्जितः
अवनीतल्पशायी च परेऽहनि वसेच्छुचिः ॥२४॥
धात्रीफलानुलिप्तांगः स्नानं संध्यां समाचरेत्
उपवासपरो भूत्वा रात्रौ संपूजयेद्धरिम् ॥२५॥
पाखंडिनं विकर्मस्थं पतितं श्वपचं तथा
नावलोकेन्न संभाषेन्न स्पृशेत्तत्र वैष्णवः ॥२६॥
अवैष्णवस्तु यो विप्रः स पाषण्डः प्रकीर्तितः
शिखोपवीतत्यागी च विकर्मस्थ इतीरितः ॥२७॥
महापापोपपापाभ्यां युक्तः पतित उच्यते
अंत्यजः श्वपचः प्रोक्तो वेदैस्तत्र सुनिर्णयः ॥२८॥
रात्रौ संपूज्य देवेशं जागरं च समाचरेत्
गंधैः पुष्पैस्तथा दीपैर्वस्त्रैराभरणैः शुभैः ॥२९॥
जपैस्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितः
ततः प्रभातसमये तुलसीमिश्रितैर्जलैः ॥३०॥
स्नात्वा सम्यग्विधानेन संतर्प्य पितृदेवताः
पूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम् ॥३१॥
कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगंधिभिः
दीपान्नीराजयेत्तत्र वारमष्टोत्तरं शतम् ॥३२॥
शतपत्रकृतां मालां ताभ्यां सम्यङिनवेदयेत्
धूपं दीपं च नैवेद्यं तांबूलं च समर्प्पयेत् ॥३३॥
शर्करासहितं दिव्यं पायसान्नं समर्पयेत्
कर्पूरेण च संयुक्तं तांबूलं च निवेदयेत् ॥३४॥
प्रदक्षिणे नमस्कारं कृत्वा भक्त्या समन्वितः
आज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा ॥३५॥
प्रत्यृचं पुरुषसूक्तेन लक्ष्मीसूक्तेन पायसम्
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीतवाग्यतः ॥३६॥
पुराणादि प्रपाठेन क्षपयेत्तद्दिनं महत्
क्षितिशायी ब्रह्मचारी तस्यामेव निशि स्वपेत् ॥३७॥
एवं संपूज्यमानं स द्वादश्यां कमलापतिः
क्षणात्प्रसन्नो भगवान्सर्वाभीष्टप्रदो ध्रुवम् ॥३८॥
इत्येतत्कथितं देवि द्वादशीव्रतमुत्तमम्
किमन्यच्छ्रोतुकामासि तद्वक्तव्यं ब्रवीम्यहम् ॥३९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे द्वादशीमाहात्म्यंनाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३४॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP