उत्तरखण्डः - अध्यायः २१०
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उवाच-
एवं प्रबोध्य तान्सर्वान्वचोभिः पारमार्थिकैः
स हंसः कारयामास क्रियास्तस्यात्मसंभवाः ॥१॥
अंतर्वत्नी मुकुंदस्य निर्बंधं कुर्वती वधूः
अनुगंतुं स्वभर्तारं विदुषा तेन वारिता ॥२॥
तस्यास्थीनि समादाय तेन सन्यासिना समम्
तद्भ्राता प्रययौ गंगाजले पातयितुं नृप ॥३॥
विप्रसन्यासिनौ तौ हि कतिभिर्वासरैर्नृप
सार्थलोकवशात्प्राप्तौ इंद्रप्रस्थेऽत्र सत्पदे ॥४॥
इंद्रप्रस्थांतरावर्तिन्येषा या कोशला नृप
अत्र सुप्तौ निशायां तौ यमुनातीरभूतले ॥५॥
आत्मनोरुभयोर्मध्ये न्यस्यास्थिपटसंपुटम्
मार्गखेदपरिक्रांतौ दशां सौषुप्तिकीं गतौ ॥६॥
निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चन
एकः श्वा तत्र संप्राप्तः पक्वान्नादि जिहीर्षया ॥७॥
बभ्राम सर्वशिविरे जिघ्रन्पाकस्थलीं मुहुः
भाजनानि लिहन्मूर्ध्नि क्व च दंडाहतिं सहन् ॥८॥
केनचित्ताडितो मूर्ध्नि निशब्दं विद्रुतस्ततः
प्रतिचक्रुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा ॥९॥
यत्रावकंडितः स श्वा दंडग्रावेष्टकादिभिः
पुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया ॥१०॥
भोगेच्छया यथा वेश्या स्नेहवान्निर्द्धनो जनः
भ्रमन्नेवं स चात्रापि यत्र सुप्तौ हि तावुभौ ॥११॥
सारमेयस्तयोर्मध्याज्जह्रे स पटसंपुटम्
नीत्वा स कियतीं भूमिं दंतैस्तत्पटसंपुटम् ॥१२॥
विदार्यास्थीनि तत्स्थानि निर्मांसान्यवलोक्य सः
एतस्याः कोशलायास्तु जलमध्ये समाक्षिपत् ॥१३॥
क्षिप्तमात्रेषु तेनास्थिष्वेतदंबुनि भूपते
दिव्यं विमानमास्थाय मुकुंदोऽत्र समागतः ॥१४॥
दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा
उवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप ॥१५॥
मुकुंद उवाच
वेदायन गुरो तुभ्यं नम आशीस्तवानुज
प्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै ॥१६॥
अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम्
एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः ॥१७॥
त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतः
अहं गच्छन्विमानेन दिव्येन त्रिदशालयम् ॥१८॥
नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः
दृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम् ॥१९॥
नारद उवाच-
श्रुत्वैवं वचनं तस्य मुकुंदस्य गुरुस्तदा
वेदायनो विमानस्थं तमूचे गतविस्मयः ॥२०॥
देवायन उवाच-
मुकुंदाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान्
कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम् ॥२१॥
किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपः
कीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद ॥२२॥
मुकुंद उवाच-
कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु
तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना ॥२३॥
यदाहं तेन निहतश्चंडकेन दुरात्मना
नापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः ॥२४॥
पिंगाक्षा रक्तकेशाश्च श्यामदेह नखाधराः
वामना दीर्घचरणा ह्रस्वनासाश्च दंतुराः ॥२५॥
नीयतां नीयतामेष धर्मराजस्य शासनात्
पुरीं संयमनीमेवमूचिरे ते परस्परम् ॥२६॥
इत्युक्त्वा यातना देहे मां निवेश्य महारुषा
निबध्य दारुणैः पाशैर्जघ्नुर्लोहस्य मुद्गरैः ॥२७॥
तैरहं नीयमानस्तु मार्गे ह्युत्तप्तवालुके
अरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः ॥२८॥
प्रोचुश्च ते ध्रुवं कृत्वा निर्भर्त्स्येति च मां बहु
यमदूता ऊचुः
त्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्म निश्चलम् ॥२९॥
किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखम्
तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया ॥३०॥
तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान्
इत्युक्त्वा मां मुहूर्तेन बहुयोजनसंस्थिताम् ॥३१॥
पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमः
प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः ॥३२॥
आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन्
दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः ॥३३॥
यम उवाच-
भो सभ्या मामकीं वाचं शृण्वंतु सुसमाहिताः
यदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः ॥३४॥
तदा मामित्युवाचासौ ब्रह्मा लोकपितामहः
ब्रह्मोवाच-
अधर्मिणां नराणां त्वं शास्ता संयमनीपतिः ॥३५॥
यथापराधमाधत्स्व दंडं चंडकरात्मज
पित्रोरपोषको यस्तु समर्थो गुरुध्रुक्तु यः
एतौ महापातकिनौ निपात्यौ निरयेषु ते ॥३६॥
सर्वेषु यावद्वर्षाणां प्रत्येकमयुतं भवेत्
एतयोर्न त्वया कार्या दया जातु ककुप्पते ॥३७॥
यम उवाच-
इत्यहं ब्रह्मणो वाक्यात्स्वगुरुद्रुहि मानवे
न करोमि क्रियां सभ्यास्तथा पित्रोरपोषके ॥३८॥
ब्राह्मणोऽयं गुरुद्रोही तद्द्रोहादपमृत्युताम्
प्राप्तो मच्छासनाद्भृत्यैरानीतो दर्शनाक्षमः ॥३९॥
भो भृत्याः प्रथमं घोरे रौरवे वत्सरायुते
पात्यतां च पुनस्तस्मान्निःसार्य्यान्यत्र पात्यताम् ॥४०॥
तावंतमेव कालं वै पापोऽयं गुरुलोपकः
नरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतम् ॥४१॥
मुकुंद उवाच-
वेदायन गुरो स्वामिन्भृत्यास्ते यमशासनात्
नीत्वा मां रौरवे घोरे पाशैर्बध्वा न्यपातयन् ॥४२॥
तत्राहं तां व्यथां गुर्वी लब्धवानतिदारुणाम्
यथाकोऽपि क्षणस्तात नीतो मे युगवत्तदा ॥४३॥
त्रिंशद्दिनानि तन्नीतं दुःखं मे तत्र तिष्ठता
एकत्रिंशतमे ह्यस्मिन्दिनेऽहं निर्गतस्तदा ॥४४॥
पतितेष्वस्थिखंडेषु तीर्थेऽस्मिन्नुतमोत्तमे
गुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत ॥४५॥
तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गतिर्मया
सुखं स्वर्गे निवत्स्यामि यावदिंद्राश्चतुर्दश ॥४६॥
यमस्य नगरे तस्मिन्याः प्रजा निवसंति वै
पापिनां भयदायिन्यो धर्मिणां ता मनोहराः ॥४७॥
सिंहास्या गजकोलास्या महादंष्ट्रोन्नतोदरीः
बिडालास्याः पिंगकेश्यो भामिन्यो दीर्घपत्कराः ॥४८॥
तीर्थस्यास्य प्रसादेन निःपापोहं यदाभवम्
तदा मया प्रजा दृष्टा दिव्यरूपा यमालये ॥४९॥
सर्वास्ताः सत्यवादिन्यो विनयाचारसंचिताः
दिव्याभरणधारिण्यो दिव्यांबरविभूषिताः ॥५०॥
इत्येतत्कथितं तात यत्पृष्टोऽहं त्वयानघ
अनुजानीहि मां गंतुममरेशपुरीं प्रति ॥५१॥
नारद उवाच-
इत्याकर्ण्य स सन्यासी स्वशिष्योक्तं वचस्तदा
भूयः पप्रच्छ धर्मात्मा मुकुंदं तं द्विजं नृप ॥५२॥
वेदायन उवाच-
बाल्यावधि गुरुस्नेहं मत्तोऽधीतं त्वयाखिलम्
शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः ॥५३॥
विहिता मम शुश्रूषा भावेन भवतोत्तमा
त्वयि संति सतां साधो गुणाः शमदमादयः ॥५४॥
गुरुलोपकृतं पापं कथं ते समजायत
एतदाख्याहि मे तात यथा जानामि तत्वतः ॥५५॥
मुकुंद उवाच-
जन्मोपवीतकन्यानां धातारो निगमस्य च
यज्ञोपवीतदातुश्च नाज्ञाभंगः कृतो मया ॥५६॥
श्वश्रुश्वशुरयोः सेवा भृत्येनेव कृता मया
तवापि शास्त्रदातुश्च नाज्ञाभंगः कृतो मया ॥५७॥
पुरोधा यः कुलाचार्यो वेदवेदांतपारगः
तस्यापराद्धं केचिन्मे तत्र त्वं श्रोतुमर्हसि ॥५८॥
यद्यस्माकं कुले पुत्रो जायते धर्मकोविद
तदा पुरोधसे धेनुमेकां वा तस्य दक्षिणाम् ॥५९॥
दत्त्वा संच्छिद्यते नालमिति वंशस्य नः स्थितिः
पुरा ममैव पुत्रे तु जातमात्रे शुभेऽहनि ॥६०॥
कुलक्रिया मया तात न कृता मूढबुद्धिना
तस्याश्चाकरणेनैव गुरुलोपकरोऽभवम् ॥६१॥
निवेदितमिदं सर्वं गुरुलोपाद्यथा मम
पापमासीदनुज्ञा मे देहि यामि सुरालयम् ॥६२॥
वेदायन उवाच-
इंद्रप्रस्थांतरावर्तिन्येषा या कोशला शुभा
स्मृतिरस्याः प्रसादेन दृश्यते पूर्वजन्मनः ॥६३॥
केन पुण्येन तीर्थेऽस्मिन्नस्थीनि पतितानि ते
मुकुंदाख्याहि चैतस्य स्मृतिरस्ति तवानघ ॥६४॥
मुकंद उवाच-
एकस्तु ब्राह्मणः कश्चित्सायं मद्गृहमागतः
तस्मै स्थानं मया दत्तं भोजनं च यथाविधि ॥६५॥
सोऽपि भुक्त्वा यथाकामं सुष्वाप शयने शुभे
निशीथे तस्य सर्वांगे ज्वरोऽभूदति दारुणः ॥६६॥
तेन पीडितसर्वांगो निद्रां लेभे न स द्विजः
प्रभात एव तत्याज प्राणान्मृत्यावुपस्थिते ॥६७॥
तस्य दाहादि कर्माणि विहितानि मया गुरो
तदस्थीनि च गंगायां पातितानि विधानतः ॥६८॥
तेन पुण्येन मेस्थीनि पतितानि शिवप्रदे
तीर्थेऽस्मिन्कोशले नाम्नि ब्रह्मदेवविनिर्मिते ॥६९॥
नारद उवाच-
स्वचरितमितिराजन्स द्विजः प्रोच्य सद्यः सुरसुभगशरीरो द्यां ययौ यानगत्या
इदमकथित मया तं तस्करात्प्राप्य मृत्युं व्यलभत दिवमेतत्तीर्थराजप्रसादात् ॥७०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मुकुंदोपाख्याने दशाधिकद्विशततमोऽध्यायः ॥२१०॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP