उत्तरखण्डः - अध्यायः १२८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
वसिष्ठ उवाच
कथितं माघमाहात्म्यं दत्तात्रेयेण भाषितम्
अधुनाऽहं प्रवक्ष्यामि माघस्नानस्य यत्फलम् ॥१॥
सर्वक्रतुवरिष्ठं तु सर्वदानफलप्रदम्
सर्वव्रततपस्तुल्यं माघस्नानं परंतप ॥२॥
स्नानेन माघस्य विशुद्धमानसा पितॄन्दिवि स्थाप्य कुलद्वयस्य वै
स्वर्गं प्रयांति स्वयमुज्ज्वलानना वरैर्विमानै रुचिरैश्च कामगैः ॥३॥
ये मानवाः पापकृतोऽपि सर्वदा सदा दुराचाररता विमार्गगाः
स्नात्वा हि माघे हरिमर्चयंति ये मुंचंति तेपीह महाघसंचयम् ॥४॥
सत्येन हीनाः पितृमातृदुःखदा ह्यनाश्रमस्थाः कुलधर्मवर्जिताः
ये दांभिकास्तेऽपि नराः सतां गतिं स्नानैः प्रयांत्यत्र हि माघसंभवैः ॥५॥
पुण्येषु तीर्थेषु च माघमासे स्नानं नराणामतिदुर्लभं भुवि
तस्माद्यतो ब्रह्मविदां पदं नरैः संप्राप्यते नात्र विचारणा मम ॥६॥
माघे तपो दान जप प्रसेवनं स्थानं हरेः पूजनमक्षयं नृप
तस्माद्यथाशक्ति नरैः प्रयत्नतः स्नात्वा प्रदेयं वसनान्नकांचनम् ॥७॥
माघेऽन्नदाताऽमृतपः सुरालये हेम्नश्च दाता बलभित्समीपगः
दीपाग्निवासांसि ददन्नरः सदा सूर्यस्यलोके वसति प्रभामयः ॥८॥
यज्ञैः सुदानैः सुतपोभिरुज्ज्वलैः सुब्रह्मचर्यार्चनयोगसेवया
शुद्धा भवंतीह तथा न पापिनः स्नानैर्यथा पुण्यभवैस्तु माघजैः ॥९॥
दुःखौघसंतप्तिमसह्ययातनां याम्यां न ते यांत्यपि पापकारिणः
ये माघमासे वरतीर्थमज्जनं कुर्वंति चार्धोदितसूर्यमंडले ॥१०॥
स्नात्वा च माघे हरिमर्चयंति ये स्वर्गच्युता भूपतयो भवंति
भव्याः सुरूपाः सुभगाः प्रियंवदा धर्मान्विता भूरिधनाः शतायुषः ॥११॥
दीप्तानले काष्ठचयो यथाहुतो भस्मावशेषो भवतीह तत्क्षणात्
स्नानेन माघस्य तथा विलीयते क्षुद्रोऽपि पापौघ महाघसंचयः ॥१२॥
कायेन वाचा मनसापि पातकं ज्ञातं यदज्ञातमलंकृतं नरैः
स्नानं च माघे वरतीर्थसंभवं सर्वं दहद्विष्णुरिवाशु हृद्गतः ॥१३॥
संभुज्यमानाघफलं हि पार्थिव प्रमादतोपीह नृणां कदाचन
स्नानं हि माघस्य यतः प्रसज्यते तदैव तत्संक्षयमेति निश्चितम् ॥१४॥
गंधर्वं कन्याः पृथिवी शशापजं संभुज्यमानाघफलं दुरत्ययम्
स्नानाद्विमुक्ताः खलु माघमासजाद्वाक्यात्पुरा लोमशजातमद्भुतम् ॥१५॥
सूत उवाच
श्रुत्वैतत्पार्थिवः प्रीत्या नत्वा तत्पादपंकजम्
श्रद्धया परया नम्रस्तं पप्रच्छ पुरोधसम् ॥१६॥
भगवन्ब्रूहि कन्याभिः शापो ह्यभिगतः कुतः
कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ॥१७॥
कथं लोमशवाक्येन विपाकाच्छापसंभवात्
विमुक्ताः कुत्र ताः सस्नुर्मासं ताः कतिसंख्यया ॥१८॥
वसिष्ठ उवाच
श्रूयतां राजशार्दूल धर्मगर्भां कथां पराम्
यथाऽरणिर्वह्निगर्भा धर्मसूर्वह्निसूरिव ॥१९॥
गंधर्वः सुखसंगीतिस्तस्य कन्या प्रमोदिनी
सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः ॥२०॥
सुतारा चंद्रकांतस्य चंद्रिका सुप्रभस्य च
इमानि वरनामानि तासामप्सरसां नृप ॥२१॥
कुमार्यः पंच सर्वास्ता वयसा सुसमाः पुनः
चंद्रादिवविनिष्क्रांताश्चंद्रिकेव समुज्ज्वलाः ॥२२॥
चंद्राननाः सुकेशिन्यश्चंद्रामृतरसाधराः
नेत्रेष्वानंदकारिण्यः कौमुदी कुमुदेष्विव ॥२३॥
लावण्यपिंडसंभूताश्चारुरूपामनोहराः
उदिभन्नकुचकुंभिन्यः पद्मिन्य इव माधवे ॥२४॥
उन्मील्य यौवनं कांतं वल्लीव नवपल्लवैः
हेमगौराश्च हेमाभा हेमालंकारभूषिताः ॥२५॥
हेमचंपकमालिन्यो हेमच्छविसुवाससः
स्वरग्रामावलीहासु विविधा मूर्च्छनासु च ॥२६॥
तालदानविनोदेषु वेणुवीणाप्रवादने
मृदंगनादसंभिन्नं लास्यमार्गलवेषु च ॥२७॥
चित्रादिषु विनोदेषु कलासु च विशारदाः
एवंभूतास्तु ताः कन्या मुमुहुः क्रीडने वने ॥२८॥
पितृभिर्लालिताः सत्यश्चेरुश्च धनदालये
कौतुकादेकदा पंच मिलित्वा मासि माधवे
कन्या मंदारपुष्पाणि विचिन्वंत्यो वनाद्वनम् ॥२९॥
गौरीं समाराधयितुं वरांगनाः कदाचिदच्छोदसरोवरं ययुः
हेमांबुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह ॥३०॥
वैडूर्यशुद्धस्फटिकाच्छविद्रुमे स्नात्वा तडागे परिधाय चांबरम्
मौनेन च स्थंडिलपिंडिकामयी स्वर्णस्य सिक्ताभिरुमां विनिर्ममुः ॥३१॥
समर्चितां चंदनचंद्रकुंकुमैरभ्यर्च्य गौरीं वरपंकजादिभिः
नानोपचारैश्च सुभक्तिभावितास्तालप्रयोगैर्ननृतुः कुमारिकाः ॥३२॥
गांधारमाश्रित्य वरं स्वरं ततो गेयं सुतारध्वनिभिः सुमूर्च्छितम्
एणीदृशस्ताः प्रजगुः कलाक्षरं चारुप्रबंधं गतिभिस्तु सुस्वरम् ॥३३॥
तस्मिन्सुनादे रसवर्षहर्षदे कन्यास्वलं निर्भरनृत्यवृत्तिषु
अच्छोदतीर्थप्रवरे तदा गतः स्नातुं मुनेर्वेदनिधेः सुताग्निपः ॥३४॥
रूपेण निःसीमतरो वराननः सरोजपत्रायतलोचनो युवा
विशालवक्षाः सुभुजोऽतिसुंदरः श्यामच्छविः कामइवापरो हि सः ॥३५॥
स ब्रह्मचारी सशिखो विराजते दंडेनयुक्तो धनुषैव मन्मथः
एणाजिनप्रावरणः सुसूत्रधृग्घेमाभमौंजी कटिसूत्रमेखलः ॥३६॥
तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे
जहर्षुः कौतुकाविष्टाः कोऽयं नो नयनातिथिः ॥३७॥
संत्यक्तनृत्यगीतास्तास्तस्यालोकनतत्पराः
हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः ॥३८॥
पश्यपश्येति जल्पंत्यो मुग्धाः पंचसु संभ्रमम्
तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ॥३९॥
पुनः पुनस्तमभ्यर्च्य नयनैः पंकजैरिव
पश्चाद्विचारमायासुस्ताश्च कन्याः परस्परम् ॥४०॥
यद्ययं कामदेवो हि रतिहीनः कथं व्रजेत्
अथायमश्विनौ देवौ तौ नूनं युग्मचारिणौ ॥४१॥
गंधर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक्
ऋषिपुत्रोथवा कश्चित्कश्चिद्वा मानुषोत्तमः ॥४२॥
अस्तु वा कश्चिदेवायं धात्रासृष्टो हि नः कृते
यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ॥४३॥
तथास्माकं कुमारीणां गौर्या नीतो वरोत्तमः
करुणाजलकल्लोल प्लवार्द्रीकृतचित्तया ॥४४॥
मया वृतस्त्वया चायं त्वया वृतस्तथा मया
एवं पंचसु कन्यासु वदंतीषु नृपोत्तम ॥४५॥
श्रुत्वा तद्वचनं तत्र कृत्वा माध्याह्निकीः क्रियाः
आलोच्य हृदये सोऽपि विघ्नमेतदुपस्थितम् ॥४६॥
ब्रह्मविष्णुगिरिशादयः सुरा ये च सिद्धमुनयः पुरातनाः
तेऽपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतम् ॥४७॥
योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः
धन्विनामकरकेतुना हतः कस्य नो पतति हा मनोमृगः ॥४८॥
तावदेव नयधीर्विराजते तावदेव जनता भयं भजेत्
तावदेव दृढचित्तता भृशं तावदेव गणना कुलस्य च ॥४९॥
तावदेव तपसः प्रगल्भता तावदेव यमधारणं नृणाम्
यावदेव वनितेक्षणबाणैर्मोहयंत्युरुमदैर्न मानुषाः ॥५०॥
मोहयंतु मदयंतु रागिणां योषितः सुललितैर्मनोहरैः
मोहयंति मदयंति मामिमं धर्मरक्षणपरं हि कैर्गुणैः ॥५१॥
मांसशुक्रमलमूत्रनिर्मिते योषितां वपुषि निर्घृणेऽशुचौ
कामिनश्च परिकल्प्य चारुतां मा रमंतु सुविमूढचेतसः ॥५२॥
दारुणो हि परिकीर्तितोंगना सन्निधिर्विमलबुद्धिभिर्बुधैः
यावदत्र न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ॥५३॥
समीपं तस्य यावद्धि नागच्छंति वरांगनाः
वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः ॥५४॥
तस्य योगबलाद्भूप गतस्यादर्शनं तदा
दृष्ट्वा तदद्भुतं कर्म ऋषिपुत्रस्य धीमतः ॥५५॥
वित्रस्तनयना बालाः कुरंग्य इव कातराः
संभ्रांत नयनाः शून्या ददृशुस्ता दिशो दश ॥५६॥
इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः
दृष्टोऽप्यदृष्टरूपोऽभूदित्यूचुश्च परस्परम् ॥५७॥
व्याप्तं तु हृदयं तासां सदैव विरहाग्निना
ज्वलद्दावानलेनेव सुस्निग्धं सांद्र काननम् ॥५८॥
त्यक्त्वैंद्रजालिकीं विद्यां कांत दर्शय सत्वरम्
स्वात्मानं नो मनोयुक्तं प्राग्ग्रासे मक्षिकोपमम् ॥५९॥
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः पुनः
ज्ञातं महानुसंतापहेतोर्नस्त्वं विनिर्मितः ॥६०॥
कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मनः
कच्चिद्धूर्तोऽसि हे कांत कच्चिन्मुष्णासि नो मनः ॥६१॥
कच्चिन्न प्रत्ययोस्मासु कच्चिदऽस्मान्परीक्षसे
कच्चिन्नर्मकलाशीलः कच्चिन्मायाविशारदः ॥६२॥
कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम्
कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ॥६३॥
कच्चिद्विनापराधं तु त्वमस्मासु प्रकुप्यसे
कच्चिद्दुःखं विजानासि परेषां विप्रलंभजम् ॥६४॥
त्वद्दर्शनं विना नूनं हृदयेश्वर सांप्रतम्
न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ॥६५॥
अस्मांश्च नीयतां तत्र यत्र शीघ्रं गतो भवान्
त्वद्दर्शनहरो धाता व्यदधादंकुरच्छिदम् ॥६६॥
सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा
पर्यंतं न प्रपश्यंति सर्वथा सज्जना जनाः ॥६७॥
इत्थं विलप्य ताः कन्याः प्रतीक्ष्य च बहुक्षणम्
पितृर्भिया गृहं गंतुं शीघ्रमारेभिरे गतिम् ॥६८॥
तत्प्रेमनिगडैर्बद्धा भृशं विरह विक्लवाः
कथंचिद्धैर्यमालंब्य ताः स्वं स्वं गृहमागताः ॥६९॥
आगत्य पतिताः सर्वा जलयंत्रसमीपतः
किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ॥७०॥
कन्या ऊचुः
क्रीडंत्यः किन्नरीभिस्तु सार्धं संगीतकं मुदा
संस्थितास्तेन न ज्ञातं दिवसादि सरोवरे ॥७१॥
पथिश्रांता वयं मातः संतापस्तेन नस्तनौ
मोहेन महता वक्तुं न केनाप्युत्सहामहे ॥७२॥
इत्युक्त्वा लुलुठुस्तत्र मणिभूमौ कुमारिकाः
आकारं गोपयंत्यस्ता मुग्धा जल्पंति मातृभिः ॥७३॥
काचिन्नर्तयति क्रीडामयूरं न मुदा तदा
न पाठयति तं कीरं पंजरेऽन्या कुतूहलात् ॥७४॥
लालयेन्नकुलं नान्या नोल्लासयति सारिकाम्
अपरातीव संमुग्धा नैव क्रीडति सारसैः ॥७५॥
भेजिरे न विनोदांस्ता रेमिरे नैव मंदिरे
ऊचिरे बांधवैर्नालं वीणावाद्यं न चक्रिरे ॥७६॥
कल्पद्रुमप्रसूनं यद्रसवत्तु सुधोपमम्
मंदारकुसुमामोदि न पपुर्मधुरं मधु ॥७७॥
योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः
अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः ॥७८॥
चंद्रकांतमणिच्छन्ने स्रवद्वारिकणद्रवे
क्षणं वातायने स्थित्वा जलयंत्रेक्षणं क्षणात् ॥७९॥
रचयंति क्षणं शय्यां दीर्घिकां भोजिनीदलैः
वीज्यमाना सखीभिस्ताः शीतलैः कदलीदलैः ॥८०॥
इत्थं युगसमां रात्रिं मन्वानास्ता वरस्त्रियः
कथंचिद्धीरतां कृत्वा विह्वलाः सज्वरा इव ॥८१॥
प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम्
विज्ञाप्य मातरं स्वां स्वां गौरीं पूजयितुं गताः ॥८२॥
स्नात्वा तेन विधानेन पुष्पैर्धूपैर्यथा तथा
विधाय पूजनं देव्या गायंत्यस्तत्र ताः स्थिताः ॥८३॥
एतस्मिन्नंतरे विप्रः स्नातुं सोऽपि समागतः
पित्राश्रमपदात्तस्मादच्छोदे च सरोवरे ॥८४॥
मित्रं दृष्ट्वैव रात्र्यंते नलिन्य इव कन्यकाः
उत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ॥८५॥
गत्वा तदैव ताः कन्याः समीपं ब्रह्मचारिणः
सव्यापसव्यबंधेन भुजपाशं च चक्रिरे ॥८६॥
गतोऽसि धूर्त पूर्वेद्युर्गंतुमद्य न शक्यसे
वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्तु विचारणा ॥८७॥
इत्युक्तो ब्राह्मणः प्राह प्रसन्बाहुपाशगः
युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ॥८८॥
प्रथमाश्रमनिष्ठस्य किंतु नाद्यापि मे व्रतम्
वेदाभ्यसनशीलस्य पारं याति गुरोः कुले ॥८९॥
आश्रमे यत्र यो धर्मो रक्षणीयः स पंडितैः
विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ॥९०॥
आकर्ण्य तस्य वाक्यानि तमूचुस्ता वचस्ततः
सकलध्वनिसोत्कंठाः कोकिला इव माधवे ॥९१॥
धर्मादर्थोर्थतः कामः कामाद्धर्मफलोदयः
इत्येव निश्चितं शास्त्रं वर्णयंति विपश्चितः ॥९२॥
सकामो धर्मबाहुल्यात्पुरस्ते समुपागतः
सेव्यतां विविधैर्भोगैः स्वर्गभूमिरियं ततः ॥९३॥
श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा
तथ्यं वो वचनं किंतु समाप्येह स्वकं व्रतम् ॥९४॥
प्राप्यनुज्ञां गुरोः सर्वं वैवाहं कर्म नान्यथा
इत्युक्त्वा पुनरूचुस्ताः स्फुटं मूढोऽसि सुन्दरः ॥९५॥
दिव्यौषधं ब्रह्मरसायनं च सिद्धिर्निधेः साधुकला वरांगनाः
मंत्रस्तथा सिद्धिरसश्च धर्मतो नेमा निषेध्याः सुधिया समागताः ॥९६॥
कार्यं हि दैवाद्यदि सिद्धमागतं तस्मिन्नुपेक्षां न च याति नीतिगः
यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ॥९७॥
सांद्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ताः सुगिरः स्वयंवराः
कन्याः सुरूपाः खलु चारुयौवना धन्या लभंतेऽत्र नरास्तु नेतरे ॥९८॥
क्व वयं वरसुन्दर्यः क्व चाऽयं तापसो बटुः
दुर्घटस्य विधाने हि मन्ये धातातिपंडितः ॥९९॥
तस्मादस्मानिदानीं तु स्वीकुर्यान्मंगलं भवान्
गांधर्वेण विवाहेन ह्यन्यथा नो न जीवितम् ॥१००॥
श्रुतवाक्यस्ततः प्राह ब्राह्मणो धर्मवित्तमः
भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः ॥१०१॥
धर्मश्चार्थश्च कामश्च मोक्षश्चैतच्चतुष्टयम्
यथोक्तं सफलं ज्ञेयं विपरीतं तु निष्फलम् ॥१०२॥
नाकालेहं व्रती कुर्यामतो दारपरिग्रहम्
न क्रियाफलमाप्नोति क्रियाकालं न वेत्ति यः ॥१०३॥
यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम्
तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् ॥१०४॥
एवं ज्ञात्वाशयं तस्य समीक्ष्यैताः परस्परम्
करात्करं विमुच्याथ जग्राहांघ्री प्रमोदिनी ॥१०५॥
भुजौ जग्रहतुस्तस्य सुशीला सस्वरा तथा
आलिलिंग सुतारा च चुचुंबे चंद्रिकामुखम् ॥१०६॥
तथापि निर्विकारोऽसौ प्रलयानलसन्निभः
शशाप ब्रह्मचारी ताः क्रोधेनात्यंतमूर्च्छितः ॥१०७
पिशाच्य इव मां लग्नास्तत्पिशाच्यो भविष्यथ
एवं तेनाशु शप्तास्तास्तं संत्यज्य पुरास्थिताः ॥१०८॥
किमेतच्चेष्टितं पाप ह्यनागसि जने त्वया
प्रिये कृत्येऽप्रियं कृत्वा धिक्ता धर्मज्ञतां तव ॥१०९॥
अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः
पुंसो लोकद्वये सौख्यं नाशं यातीति नः श्रुतम् ॥११०॥
तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम्
इत्युक्त्वोपरता बाला निःश्वसंत्यः क्षुधाकुलाः ॥१११॥
तदा चान्योन्यसंरंभात्तस्मिन्सरसि पार्थिव
ताः कन्या ब्रह्मचारी सः सर्वे पैशाचमागताः ॥११२॥
पिशाच्याः स पिशाचश्च क्रंदमानाः सुदारुणम
क्षपयंति विपाकं तं पूर्वोपात्तस्य कर्मणः ॥११३॥
स्वकाले तु फलत्येव पूर्वोपात्तं शुभाशुभम्
स्वच्छाया इव दुर्वारं देवानामपि पार्थिव ॥११४॥
क्रंदंति पितरस्तासां मातरस्तत्र तस्य च
अप्रमादश्च बालानां दैवं हि दुरतिक्रमम् ॥११५॥
तत ऊर्ध्वं पिशाचास्ते आहारार्थे सुदुःखिताः
इतस्ततश्च धावंतो वसंति सरसस्तटे ॥११६॥
एवं बहुतिथे काले लोमशो मुनिसत्तमः
पौषे मासि चतुर्दश्यामच्छोदे स्नातुमागतः ॥११७॥
दृष्ट्वा तं ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः
धावंतो हंतुकामास्ते मिलित्वा यूथवर्तिनः ॥११८॥
दह्यमानासु तीव्रेण तेजसा लोमशस्य च
असमर्थाः पुरःस्थातुं सर्वे ते दूरतः स्थिताः ॥११९॥
तत्र वेदनिधिर्विप्रस्तदैव हि समागतः
समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य सः ॥१२०॥
उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम्
महाभाग्योदये विप्र साधूनां संगतिर्भवेत् ॥१२१॥
गंगादिसर्वतीर्थेषु यो नरः स्नाति सर्वदा
यः करोति सतां संगं तयोः सत्संगतिर्वरा ॥१२२॥
गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि
स्वर्गदो रोगहारी च किंतु सोपद्रवो मतः ॥१२३॥
इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम्
इमा गंधर्वकन्यास्ता बटुः सोऽयं ममात्मजः ॥१२४॥
सर्वे पिशाचरूपेण मिथः शापविमोहिताः
दीनाननास्तु तिष्ठंति तवाग्रे मुनिसत्तम ॥१२५॥
त्वद्दर्शनेन बालानां निस्तारोऽद्य भविष्यति
सूर्योदये तमः स्तोमः किं न लीयेत गह्वरे ॥१२६॥
श्रुत्वा तल्लोमशो राजन्कृपार्द्रीकृतमानसः
प्रत्युवाच महातेजास्तं मुनिं पुत्रदुःखितम् ॥१२७॥
मत्प्रसादाच्च बालानां स्मृतिः सपदि जायताम्
धर्मं च वच्मि तं येन मिथः शापो लयं व्रजेत् ॥१२८॥
वेदनिधिरुवाच
महर्षे कथ्यतां धर्मो मुच्यंते येन बालकाः
नायं कालो विलंबस्य शापाग्निर्दारुणो यतः ॥१२९॥
लोमश उवाच
मया सार्धं प्रकुर्वंतु माघस्नानं विधानतः
शापान्मुच्यंति माघांते नान्यथा निष्कृतिर्भवेत् ॥१३०॥
शापः पापफलं विप्र पापनाशो भवेन्नृणाम्
माघस्नानेन तीर्थे च इति मे निश्चिता मतिः ॥१३१॥
सप्तजन्मकृतं पापं वर्तमानं च पातकम्
माघस्नानं दहेत्सर्वं पुण्यतीर्थे विशेषतः ॥१३२॥
प्रायश्चित्तं न पश्यंति यस्मिन्पापे मुनीश्वराः
पातकं पुण्यतीर्थेषु नश्येत्तदपि माघतः ॥१३३॥
ज्ञानकृन्मानसे माघस्तस्मान्मोक्षफलप्रदः
हिमवत्पृष्ठतीर्थेषु सर्वपापप्रणाशनः ॥१३४॥
इंद्रलोकप्रदोच्छोदे निर्दिष्टो वेदवादिभिः
सर्वपापहरो माघो मोक्षदो बदरीवने ॥१३५॥
पापहा दुःखहारी च सर्वकामफलप्रदः
रुद्रलोकप्रदो माघो नार्मदे पापनाशनः ॥१३६॥
यामुनः सूर्यलोकाय भवेत्कल्मषनाशनः
सारस्वतोऽघविध्वंसी ब्रह्मलोकफलप्रदः ॥१३७॥
विशालफलदो माघो विशालायां द्विजोत्तम
पातकेंधनदावाग्निर्गर्भहेतु क्रियापहः ॥१३८॥
विष्णुलोकाय मोक्षाय जाह्नवः परिकीर्तितः
शरयू गंडकी सिंधुश्चंद्रभागा च कौशिकी ॥१३९॥
तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका
कावेरी तुंगभद्रा च अन्या याश्च समुद्रगाः ॥१४०॥
आशु माघी नरो याति स्वर्गलोकं विकल्मषः
नैमिषे विष्णुसायुज्यं पुष्करे ब्रह्मणोंतिकम् ॥१४१॥
आखंडलस्य लोको हि कुरुक्षेत्रे तु माघतः
माघो देवह्रदे विप्र योगसिद्धिफलप्रदः ॥१४२॥
प्रभासे मकरादित्ये स्नानाद्रुद्रगणो भवेत्
देवक्यां देवतादेहो नरो भवति माघतः ॥१४३॥
माघस्नानेन भो विप्र गोमत्यां न पुनर्भवः
हेमकूटे महाकाले ॐकारे अमरेश्वरे ॥१४४॥
नीलकंठेर्बुदे माघाद्रुद्रलोके महीयते
सर्वासां सरितां विप्र संगमे मकरे रवौ ॥१४५॥
स्नानेन सर्वकामानामवाप्तिर्जायते नृणाम्
माघस्तु प्राप्यते धन्यैः प्रयागे द्विजसत्तम
अपुनर्भवदं तत्र सितासितजलं यतः ॥१४६॥
गायंति देवाः सततं दिविस्था माघः प्रयागे किल नो भविष्यति
स्नानान्नरा यत्र न गर्भवेदनां पश्यंति तिष्ठंति च विष्णुसन्निधौ ॥१४७॥
मज्जंति येऽपित्र्यहमत्र मानवास्तीर्थे प्रयागे बहुपापकंचुकाः
व्रजंति ते नो निरयेषु धर्मिणः स्वर्गे शुभे चारु चरंति देववत् ॥१४८॥
तीर्थैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृतं पुरः
माघे प्रयागस्य तयोर्द्वयोरभून्माघो गरीयानत एव सोऽधिकः ॥१४९॥
वातांबुपर्णाशनदेहशोषणैस्तपोभिरुग्रैश्चिरकालसंचितैः
योगैश्च संयांति नरा नतां गतिं स्नानेन माघस्य हि यांति यां गतिम् ॥१५०॥
स्नाताश्च ये मकरभास्करोदये तीर्थे प्रयागे सुरसिंधुसंगमे
तेषां गृहद्वारमलंकरोति किं भृंगावलि कुंजरकर्णताडिता ॥१५१॥
यो राजसूयाद्धयमेधयज्ञतः स्नानात्फलं संप्रददाति चाधिकम्
पापानि सर्वाणि विलोप्य लीलया नूनं प्रयागः स कथं न सेव्यते ॥१५२॥
अवंतिविषये राजा वीरसेनोऽभवत्पुरा
नर्मदातीरमागत्य राजसूयं चकार सः ॥१५३॥
षोडशैरश्वमेधैश्च स्वर्णवाटविराजितैः
स्वर्णभूषणयूपाढ्यैरीजे सोऽपि यथाविधि ॥१५४॥
प्रददौ धान्यराशींश्च द्विजेभ्यः पर्वतोपमान्
वदान्यो देवताभक्तो गोप्रदः स सुवर्णदः ॥१५५॥
ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा
कृषीवलो दुराचारः सर्वधर्मबहिष्कृतः ॥१५६॥
कृषिकर्मसमुद्विग्नो बंधुभिश्चाप्यसंस्कृतः
इतस्ततः परिभ्रम्य निर्गतः क्षुत्प्रपीडितः ॥१५७॥
दैवतः सार्थमाविश्य प्रयागं स समागतः
महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् ॥१५८॥
अनघः स्नानमात्रेण भूत्वेह स द्विजोत्तमः
प्रयागाच्चलितस्तत्र पुनर्यस्मात्समागतः ॥१५९॥
स राजा सोऽपि विप्रश्च विपन्नावेकदा तदा
तयोर्गतिः समादृष्टा मया शक्रस्य सन्निधौ ॥१६०॥
तेजो रूपं बलं स्त्रैणं देवयानं विभूषणम्
पारिजातमयीमाला नृत्यं गीतं तयोः समम् ॥१६१॥
इति दृष्टं हि माहात्म्यं क्षेत्रस्य कथमुच्यते
माघः सितासिते विप्र राजसूयैः समो मतः ॥१६२॥
धनुस्त्रिशतविस्तीर्णे सितनीलांबुसंगमे
अपुनरावृत्तिर्माघी राजसूयी पुनर्भवेत् ॥१६३॥
माघमासीय वातोऽपि सितासितजलं स्पृशेत्
अधर्म्यं न स्पृशेन्नूनं महापातकहा हि सः ॥१६४॥
किमत्र बहुनोक्तेन श्रूयतां द्विज निश्चितम्
समुद्भूतफलं पापं तीर्थे माघः प्रणाशयेत् ॥१६५॥
अत्र ते कथयिष्यामि सावधानमतिः शृणु
पिशाचमोचनं नाम इतिहासं पुरातनम्
शृण्वंत्यप्सरसो बालाः शृणोतु त्वत्सुतस्तथा
मत्प्रसादात्स्मृतिर्लब्ध्वा पैशाच्यान्मुक्तिकामिनः
पुरा देवद्युतिर्विप्रो वैष्णवो वेदपारगः ॥१६६॥
पिशाचान्मोचयामास करुणाप्लुतमानसः ॥१६७॥
दिलीप उवाच
कुत्र स्थितः कस्य पुत्रो नियमः कोऽस्य वा जपः
केन वा वैष्णवो वृत्तः के पिशाचाश्च मोचिताः ॥१६८॥
एतद्विस्तरतः सर्वं कीर्तयस्व महामुने
कौतूहलं महापुण्यं शृणुमस्त्वत्प्रसादतः ॥१६९॥
वसिष्ठ उवाच
प्लक्षप्रस्रवणे पुण्ये सरस्वत्यास्तटे शुभे
तत्राश्रमपदं तस्य शैलमाश्रित्य शोभनम् ॥१७०॥
शालैस्तालैस्तमालैश्च बिल्वैर्बकुलपाटलैः
तिंतिडीचिरिबिल्वैश्च चूतचंपककांचनैः ॥१७१॥
करंजैः कोविदारैश्च केसरैः कुंजराशनैः
तिलकैः कर्णिकारैश्च कुंभैः खादिरतिंदुकैः ॥१७२॥
वानीरैः साल्वजंबीरैः पीलूदुंबरवेतसैः
शाकोटैरटरूषैश्च करहाटैर्वटद्रुमैः ॥१७३॥
घोंटाकुटजपालाशैरशोकैः शोकहारिभिः
जंबूनिंबकदंबैश्च क्षीरिकाकरमर्दकैः ॥१७४॥
बीजपूरैः सनारिंगै रंभाराजिविराजितैः
पनसै रसवद्भिश्च नारिकेलैः सदाफलैः ॥१७५॥
सप्तच्छदैस्त्रिपत्रैश्च शिरीषामलकैः शुभैः
कर्कंधू लकुचैरक्षैः पारिभद्रैर्वचादिभिः ॥१७६॥
केतकैः सिंदुवारैश्च तगरैः कुन्दमल्लिकैः
पद्मेन्दीवरकह्लार मालती यूथिकादिभिः ॥१७७॥
मालती मोगरैश्चैव जातीफलविराजितैः
पुन्नागैः किंशुकैश्चैव बर्बरीतुलसीद्रुमैः ॥१७८॥
आश्रमो रमणीयः स द्रुमैर्नानाविधैर्नृप
वनमध्ये नदी याति पुण्यतोया सरस्वती ॥१७९॥
कूजंति सारसास्तत्र मदस्निग्धकलं सदा
नदंति कोकिलाः शब्दं गुंजंति च मधुव्रताः ॥१८०॥
बहुकोलाहलं भूप तद्वनं शुकसारिभिः
चरंति श्वापदास्तत्र विविधाः काननोत्तमे ॥१८१॥
सदाफलं सदापुष्पं परागकणधूसरम्
आच्छन्नं काननं सर्वं मधुवृक्षैः समंततः ॥१८२॥
नवपल्लवसंजातमंजरीभरवल्लिभिः
आश्लिष्टमभितोरम्यं प्रियाभिरिव वल्लभः ॥१८३॥
तस्य शापभयात्त्रस्तो वातो वाति समंततः
न वर्षंत्यश्मभिर्मेघा न शोषयति भास्करः ॥१८४॥
वनं नोपद्रवं तद्धि सदा सिद्धनिषेवितम्
आह्लादजनकं नित्यं वनं चैत्ररथं यथा ॥१८५॥
तस्मिन्वसति धर्मात्मा देवद्युतिर्द्विजोत्तमः
पुत्रः सुमित्रो विप्रस्य लब्धो लक्ष्मीपतेर्वरात् ॥१८६॥
नियमः श्रूयतां तस्य सर्वदा नियतात्मनः
ग्रीष्मे पंचतपा नित्यं सूर्यन्यस्तविलोचनः ॥१८७॥
वर्षत्कादंबिनी यावद्वर्षास्वभ्रावकाशगः
वाते प्रवाते निष्कंपो दुःसहो हिमवानिव ॥१८८॥
वसत्यप्सु स हेमंते ह्रदे सारस्वते द्विज
उपस्पृशति काले स त्रिवारं वारिनिर्मलम् ॥१८९॥
पितॄन्देवानृषीन्नित्यं संतर्पयति श्रद्धया
ब्रह्मयज्ञपरो नित्यं सत्यवादी जितेंद्रियः ॥१९०॥
भूमौ विश्राम्य विश्रांतः प्रदध्यौ प्रार्थयन्हरिम्
वन्यैर्जुहोत्यग्निहोत्रं श्रद्धयातिथिपूजकः ॥१९१॥
चांद्रायणविधानेन कालं नयति सर्वदा
स्वयं विगलितैः पत्रैः फलैर्वृत्तिं समीहते ॥१९२॥
अनुद्विग्नस्तपोनिष्ठो वेदवेदांगपारगः
धमनी विकरालोसावस्थिमात्रकलेवरः ॥१९३॥
इत्थं जगाम वर्षाणां सहस्रं तस्य कानने
तदा जज्वाल शैलोऽसौ तपसस्तस्य तेजसा ॥१९४॥
सोढुं न शक्यते भूतैस्तेजस्तस्य महात्मनः
वैश्वानर इवाभाति प्रज्वलंस्तपसा द्विज ॥१९५॥
गतवैराणि भूतानि समजायंत तद्वने
मृगव्याघ्राखुमार्जारा मिथः क्रीडंति निर्भयाः ॥१९६॥
अन्योऽपि नियमस्तस्य श्रूयतामतिदुर्लभः
नारायणं त्रिकालं स संपूजयति नित्यशः ॥१९७॥
पुष्पाणां तु सहस्रेण विकचेन सुगंधिना
वेदसूक्तविधानेन विष्णुध्यानपरायणः ॥१९८॥
विष्णोः संप्रीतये विप्रः कुरुते कर्म चाखिलम्
दधीचेर्वरदानात्स संजातो वरवैष्णवः ॥१९९॥
एकदा मासि वैशाखे एकादश्यां महामुनिः
पूजां कृत्वा हरे रम्यां विचित्रामकरोत्स्तुतिम् ॥२००॥
तदैव खगमारुह्य देवो देवो हरिः स्वयम्
आजगाम पुरस्तस्य तया स्तुत्यातिहर्षितः ॥२०१॥
तं दृष्ट्वा गरुडारूढं प्रत्यक्षं जलदच्छविम्
चतुर्बाहुं विशालाक्षं सर्वालंकारभूषितम् ॥२०२॥
उद्भूतपुलको विप्रः सानंद जललोचनः
जगाम शिरसा भूमौ कृतकृत्यमनास्तदा ॥२०३॥
न ममौ तेन हर्षेण स ब्रह्मांडोदरेऽपि हि
न सस्मार निजं देहं ब्रह्मभूत इवाभवत् ॥२०४॥
ततः संभाषितः प्रीत्या हरिणा वैष्णवो मुनिः
देवद्युते विजानामि मद्भक्तस्त्वं मदाश्रयः ॥२०५॥
संन्यस्ताखिलकर्मासि मद्भावो मन्मनाः सदा
वरं ब्रूहि प्रसन्नोऽस्मि स्तोत्रेणानेन चानघ ॥२०६॥
इति श्रुत्वा हरेर्वाक्यं प्रत्युवाच स तापसः
देवदेवारविंदाक्ष स्वमायाधृतविग्रह ॥२०७॥
त्वद्दर्शनात्सदा देव दुर्लभो नापरो वरः
ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः ॥२०८॥
त्वां साक्षात्कर्तुमिच्छंति सिद्धाश्च कपिलादयः
अहं ममेति पाशा ये मोह लोभाः शुभाशुभाः ॥२०९॥
सहेतुकाश्च दह्यंते दृष्टे त्वयि परावरे
जन्मनः कर्मणो बुद्धेराविर्भूतं फलं मम ॥२१०॥
यद्दृष्टोऽसि जगन्नाथ प्रार्थये किमतः परम्
न वरार्थं हि देवेश त्वत्पादपंकजं हृदि ॥२११॥
चिंतयामि सदा भक्त्या त्वद्गतेनांतरात्मना
इममेव वरं याचे त्वद्भक्तिरचला मम ॥२१२॥
अस्तु वै कमलानाथ प्रार्थये नापरं वरम्
इति श्रुत्वा वचस्तस्य प्रसन्नवदनो हरिः ॥२१३॥
प्रत्युवाच प्रसन्नात्मा एवमस्तु द्विजोत्तम
अन्यस्ते तपसः कश्चित्प्रत्यूहो न भविष्यति ॥२१४॥
एतच्च त्वत्कृतं स्तोत्रं ये पठिष्यंति मानवाः
तेषां मद्विषया भक्तिर्निश्चला च भविष्यति ॥२१५॥
धर्मकार्यं च यत्किंचित्सांगं सर्वं भविष्यति
ज्ञाने च परमा निष्ठा तेषां स्थास्यति निश्चला ॥२१६॥
इत्युक्त्वांतर्हितस्तत्र देवदेवो जनार्दनः
देवद्युतिस्तदारभ्य नारायणपरोऽभवत् ॥२१७॥
दिलीप उवाच
महर्षेऽनुगृहीतोऽस्मि कथया पावनीकृतः
अनया विष्णुसंगत्या गंगयेवाहमद्य वै ॥२१८॥
किं तत्स्तोत्रं समाख्याहि प्रसन्नो येन माधवः
तस्यानघस्य विप्रस्य महत्कौतूहलं मम ॥२१९॥
त्वत्प्रसादादहं विप्र मन्ये प्राप्तं मनोरथम्
महतां संगतिः कस्य महत्त्वाय न कल्पते ॥२२०॥
कथयस्व प्रसादेन विष्णोः स्तोत्रमनुत्तमम्
येन तुष्टः स भगवान्ददौ तस्य च दर्शनम् ॥२२१॥
वसिष्ठ उवाच
कथयामि रहस्यं ते यज्जप्तं स्तोत्रमुत्तमम्
प्राग्गृहीतं सुपर्णेन गरुडान्मयि चागतम् ॥२२२॥
अध्यात्मगर्भसारं तन्महोदयकरं शुभम्
सर्वपापहरं भूप स्वात्मज्ञानकरं परम् ॥२२३॥
ॐ नमो वासुदेवाय नमो विश्वाय चक्रिणे
भक्तप्रियाय कृष्णाय जगन्नाथाय शार्ङ्गिणे ॥२२४॥
स्तोता स्तुत्यः स्तुतिः सर्वं जगद्विष्णुमयं यदा
तदा संस्तूयते केन भक्तिर्मोदकरी नृणाम् ॥२२५॥
यस्य देवस्य निःश्वासो वेदाः सांगाः ससूत्रकाः
का स्तुतिः प्रमुदे तस्य भक्त्याऽहं मुखरोऽभवम् ॥२२६॥
चक्रवद्भ्रमते सर्वं त्रैलोक्यं सचराचरम्
अतस्त्वं गीयते देव चक्रपाणि वरायुध ॥२२७॥
वेदो न वक्ति यं साक्षान्न च वाग्वेत्ति नो मनः
मद्विधस्तं कथं स्तौति भक्तिमान्वा कथं भवेत् ॥२२८॥
ब्रह्मादिब्रह्मविष्णुस्त्वं त्वमेव सकलाश्रयः
स्रष्टा ब्रह्मनिदानं च शुद्धं ब्रह्मत्वमेव च ॥२२९॥
(कोऽयं कायस्तव विभो भित्त्वा स्पृशति कायिनम्
कायदोषैर्न चाघ्रातस्तस्मै नमोस्तु योगिने ॥१)
देवभावेन जागर्ति न निद्राति निजात्मनि
सुखसंदोहबुद्धिर्या सा त्वं विष्णो न संशयः ॥२३०॥
महदादयो महाभावास्तथा वैकारिका गुणाः
त्वमेव नाथ तत्सर्वं नानात्वं मूढकल्पना ॥२३१॥
केशकेशवरूपाभिः कल्पना तिसृभिस्तथा
त्वमेव कल्पसे ब्रह्म पुमानिव सुतादिभिः ॥२३२॥
विदोषं विगुणं चैकं चिन्मूर्तिरखिलं जगत्
कवीनां भाति यत्तत्त्वं तं विष्णुं नौमि निर्मलम् ॥२३३॥
यस्य ज्ञानेन कुर्वंति कर्मापि श्रुतिभाषितम्
निरीषणा जगन्मित्राः शुद्धं ब्रह्म नमामि तत् ॥२३४॥
ध्वस्तेतरच्च सन्मात्रं यत्प्रबोधादुपासते
योगिनः सर्वभूतेषु सद्रूपं नौमि तं हरिम् ॥२३५॥
ब्रह्माहमिति गायंति यं ज्ञात्वैकं वरा द्विजाः
पश्यंतो हि त्वया तुल्यं देव तं नौमि माधवम् ॥२३६॥
मायया मोहवैचित्र्यं तथाहं ममतां नृणाम्
यो नाशयति पापौघान्नमस्तस्मै चिदात्मने ॥२३७॥
प्रयाणे वा प्रयाणे च यन्नामस्मरतां नृणाम्
सद्यो नश्यंति पापौघा नमस्तस्मै चिदात्मने ॥२३८॥
मोहानललसज्ज्वाला ज्वलल्लोकेषु सर्वदा
यत्पादांभोरुहच्छायां प्रविष्टश्च न दह्यते ॥२३९॥
यस्य स्मरणमात्रेण न मोहो नैव दुर्गतिः
न रोगा नैव दुःखानि तमनंतं नमाम्यहम् ॥२४०
कामयंते प्रजा नैव धिषणाभ्यः समुत्थिताः
लोकमात्मैव पश्यंति यं बुद्ध्वैकचरा जनाः ॥२४१॥
शब्दार्थः संविदर्थश्च विष्णोर्नामपरो यदि
सत्येन तेन संसारो मा संस्पृशतु माधव ॥२४२॥
नारायणो जगद्व्यापी यदि वेदादिसंमतः
सत्येन तेन निर्विघ्ना विष्णुभक्तिर्ममास्तु वै ॥२४३॥
यो न बीजं विना बीजं बीजे यो बीजभावितः
स विष्णुर्भव बीजं मे सितविद्यासि नाद्य तु ॥२४४॥
त्रितनुर्नटवद्यस्तु सृष्टि स्थिति लयेषु च
गुणैर्भवति कार्येषु स प्रसीदतु मे हरिः ॥२४५॥
दशधेहाऽवतीर्णो यो धर्मत्राणाय केवलम्
अभ्यर्थितः सुरैः सर्वैः स प्रसीदतु मे हरिः ॥२४६॥
ब्रह्मादिस्तंबपर्यंतं प्राणिहृन्मंदिरेऽमलः
एको वसति यो देवः स प्रसीदतु मे हरिः ॥२४७॥
इच्छां चक्रे स देवाग्रे एकश्चैव बहुस्तथा
प्रविष्टो देवताः स्रष्टा स प्रसीदतु मे हरिः ॥२४८॥
हृत्खगः खसमः खादिः खातीतः खक्रियः खगः
खं ब्रह्मा खादिभुक्चांते खमूर्तिस्त्वं मखाशनः ॥२४९॥
यद्भासायन्मुदा यस्य मायया सज्यते जगत्
जाड्यं दुःखमसत्यं च स भवानेव तन्मयः ॥२५०॥
त्वत्सृष्टं मोदते विश्वं त्वत्त्यक्तमशुचिर्भवेत्
तत्संगतोऽप्यसंगस्त्वं विकारस्तेन तेन हि ॥२५१॥
भूतयोगजचैतन्यं चार्वाकायमुपासते
सौगता ब्रवते तर्कैस्त्वां बुद्धिं क्षणभंगुराम् ॥२५२॥
शरीरपरिमाणं त्वां मन्यंते जिनदेवताः
ध्यायंति पुरुषं सांख्यास्त्वामेव प्रकृतेः परम् ॥२५३॥
जन्मादिरहितः पूर्वं यः स्यादानंदलक्षणम्
त्वामेवोपनिषद्ब्रह्म चिंतयंति परस्परम् ॥२५४॥
खादिभूतानि देहश्च मनो बुद्धींद्रियाणि च
विद्याविद्ये त्वमेवात्र नान्यत्त्वत्तोऽस्ति किंचन ॥२५५॥
त्वं धाता सर्वभूतानां त्वमेव शरणं मम
त्वमग्निस्त्वं हविः शक्रो होता मंत्रः क्रियाफलम् ॥२५६॥
त्वमस्ति नास्ति वैकुंठ त्वामहं शरणं गतः
त्वं कर्मफलदाता च दीक्षितानां क्रियाफलम् ॥२५७॥
त्वं हेतुः सर्वभूतानां त्वमेव शरणं मम
युवतीनां यथा यूनि यूनां च युवतौ यथा ॥२५८॥
मनोऽभिरमते तद्वत्प्रीतिर्मे रमतां त्वयि
अपि पापं दुराचारं नरं त्वत्प्रणतं हरे ॥२५९॥
नेक्षंते किंकरा याम्या उलूकास्तपनं यथा
तापत्रयमघौघश्च तावत्पीडयते जनम् ॥२६०॥
यावत्स्मरति नो नाथ भक्त्या त्वत्पादपंकजम् ॥२६१
यं नस्पृशंति गुणजातिशरीरधर्मा यं न स्पृशंति गतयस्त्वखिलेंद्रियाणाम्
यं च स्पृशंति मुनयो गतसंगमोहास्तस्मै नमो भगवते हरये करोमि ॥२६२॥
स्थूलं विलाप्यकरणे करणं निदाने तत्कारणं करणकारणवर्जिते च
इत्थं विलाप्य मुनयः प्रविशंति तत्र तस्मै नमोस्तु हरये मुनिसेविताय ॥२६३॥
यद्ध्यानसंवहनघूर्णवशीकृतांतामैश्वर्यचारुगुणिनीं सुखमोक्षलक्ष्मीम्
आलिंग्य शेरत इहात्मसुखैकभाजस्तस्मैनमोऽस्तु हरये मुनिसेविताय ॥२६४॥
जन्मादिभावविकृतेर्विरहस्वभावे यस्मिन्नयं परिधुनोति षडूर्मिवर्गः
यं तापयंति न सदा मदनादिदोषास्तं वासुदेवममलं प्रणतोऽस्मि हार्दम् ॥२६५॥
यद्ध्यानसंगतमलं विजहात्यविद्यां यद्ध्यानवह्निपतितं जगदेति नाशम्
यज्ज्ञानमुल्लसदसिद्यति संशयारिं तं त्वां हरिं विशदिबोधघनं नमामि ॥२६६॥
चराचराणि भूतानि सर्वाणि च हरेर्वशे
यथात्र तेन सत्येन पुरस्तिष्ठतु मे हरिः ॥२६७॥
यथा नारायणः सर्वं जगत्स्थावरजंगमम्
तेन सत्येन मे रूपं प्रदर्शयतु केशवः ॥२६८॥
भक्तिर्यथा हरौ मेऽस्ति तद्वरिष्ठा गुरौ यदि
ममास्ति तेन सत्येन स्वं दर्शयतु केशवः ॥२६९॥
तस्यैवं शपथैः सत्यैर्भक्तिं तस्यानुचिंतयन्
दर्शयामास चात्मानं स प्रीतः पुरुषोत्तमः ॥२७०॥
ततो दत्त्वा वरं तस्य पूरयित्वा मनोरथम्
जगाम कमलाकांतः स्तुत्या विप्रेण तोषितः ॥२७१॥
कृतकृत्यो द्विजः सोऽपि वासुदेवपरायणः
शिष्यैः सार्धं जपन्स्तोत्रं तस्मिन्नास्ते तपोवने ॥२७२॥
कीर्तयेद्यनइदंनस्तोत्रंनशृणुयाद्योऽपिनमानवः
अश्वमेधस्यनयज्ञस्यनप्राप्नोतिनविपुलंनफलम् ॥२७३॥
आत्मविद्याप्रबोधं च लभते ब्राह्मणः सदा
न पापे जायते बुद्धिर्नैव पश्यत्यमंगलम् ॥२७४॥
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैंद्रियकं तथा
नृणां भवति सर्वेषामस्य स्तोत्रस्य कीर्तनात् ॥२७५॥
विचार्यार्थं जपेद्यस्तु श्रद्धया तत्परो नरः
स विधूयेह पापानि लभते वैष्णवं पदम् ॥२७६॥
लभते वांच्छितान्कामान्पुत्रपौत्रान्पशूंस्तथा
दीर्घमायुर्बलं वीर्यं लभते स सदा पठन् ॥२७७॥
तिलपात्रसहस्रेण गोसहस्रेण यत्फलम्
तत्फलं समवाप्नोति य इमां कीर्तयेत्स्तुतिम् ॥२७८॥
धर्मार्थकाममोक्षाणां यं यं कामयते सदा
अचिरात्तमवाप्नोति स्तोत्रेणानेन मानवः ॥२७९॥
आचारे विनये धर्मे ज्ञाने तपसि सन्नये
नृणां भवति नित्यं धीरिमां संशृण्वतां स्तुतिम् ॥२८०॥
महापातकयुक्तो वा युक्तो वा ह्युपपातकैः
सद्यो भवति शुद्धात्मा स्तोत्रस्य पठनात्सकृत् ॥२८१॥
प्रज्ञा लक्ष्मीर्यशः कीर्तिज्ञानधर्मविवर्धनम्
दुष्टग्रहोपशमनं सर्वाशुभविनाशनम् ॥२८२॥
सर्वव्याधिहरं पथ्यं सर्वारिष्टनिषूदनम्
दुर्गतेस्तरणं स्तोत्रं पठितव्यं द्विजातिभिः ॥२८३॥
नक्षत्रग्रहापीडासु राजचोरभयेषु च
अग्निचोरनिपातेषु सद्यः संकीर्तयेदिदम् ॥२८४॥
सिंहव्याघ्रभयं नास्ति नाभिचारभयं तथा
भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्तथैव च ॥२८५॥
पूतना जृंभकेभ्यश्च विघ्नेभ्यश्चैव सर्वदा
नृणां क्वचिद्भयं नास्ति स्तवे ह्यस्मिन्प्रकीर्तिते ॥२८६॥
वासुदेवस्य पूजां यः कृत्वा स्तोत्रमुदीरयेत्
लिप्यते पातकैर्नासौ पद्मपत्रमिवांभसा ॥२८७॥
गंगादिपुण्यतीर्थेषु या स्नानैर्नाप्यते गतिः
तां गतिं समवाप्नोति पठन्पुण्यामिमां स्तुतिम् ॥२८८॥
एककालं द्विकालं वा त्रिकालं वापि यः पठेत्
सर्वदा सर्वकालेषु सोऽक्षयं सुखमश्नुते ॥२८९॥
चतुर्णामपि वेदानां त्रिरावृत्त्या च यत्फलम्
तत्फलं लभते स्तोत्रमधीयानः सकृन्नरः ॥२९०॥
अक्षय्यं धनमाप्नोति स्त्रीणां भवति वल्लभः
पूजां विंदति लोकेऽस्मिच्छ्रद्धया संस्मरन्हरिम् ॥२९१॥
सर्वदा संपदायुक्तो विपदं नैव गच्छति
गोभिर्न ह्रियते स्तोत्रं नित्यं यः कीर्तयेद्धि यत् ॥२९२॥
अलक्ष्मी कालकर्णी च दुःस्वप्नं दुर्विचिंतितम्
सद्यो नश्यंति भक्तानामेतं संशृण्वतां स्तवम् ॥२९३॥
प्रातरुत्थाय योऽधीते शुचिर्विष्णुपरायणः
अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२९४॥
देवद्युतिप्रणीतं वै विष्णुप्रीतिकरं शुभम्
विष्णुप्रसादजननं विष्णुदर्शनकारकम् ॥२९५॥
योगसारमिदं नाम स्तोत्रं परमपावनम्
यः पठेत्सततं भक्त्या विष्णुलोकं स गच्छति ॥२९६॥
इति ते कथितं स्तोत्रं गुह्यं पापप्रणाशनम्
अत ऊर्ध्वं प्रवक्ष्यामि पिशाचस्य विमोचनम् ॥२९७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे
योगसारस्तोत्रकथनंनाम अष्टाविंशत्यधिकशततमोऽध्यायः ॥१२८॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP