उत्तरखण्डः - अध्यायः २८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच-
अत्राप्युदाहरंतीममितिहासं पुरातनम्
पुराणं परमं पुण्यं सर्वपापहरं शुभम् ॥१॥
कुमारेण च लोकानां नमस्कृत्य पितामहम्
प्रोक्तं चेदं ममाख्यानं देवर्षे ब्रह्मसूनुना ॥२॥
सनत्कुमार उवाच-
गतोऽहं धर्मराजानं द्रष्टुं संपूजितो मुदा
श्रुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने ॥३॥
मया तत्रोपविष्टेन दृष्टं किंचिन्महाद्भुतम्
कांचनेन विमानेन वैडूर्यकृतवेदिना ॥४॥
मणिमुक्तविचित्रेण किंकिणीजालशोभिना
आगतं पुरुषं तत्र आसनाद्देवसत्तम ॥५॥
ससंभ्रमं समुत्थाय दृष्ट्वा धर्मः स्वयं विभुः
गृहीत्वा दक्षिणे पाणौ पूजितोऽर्घेण वै ततः ॥६॥
शिरस्याघ्राय देवेशः पुरः स्थाप्य ततः परम्
पूजयित्वा तु तं धर्म इदं वाक्यमुवाच ह ॥७॥
सुस्वागतं धर्मदर्शिन्प्रीतोऽस्मि दर्शनात्तव
समीपे मम तिष्ठस्व किंचिज्ज्ञानं वदस्व मे ॥८॥
पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा व्यवस्थितः
इत्युक्ते च ततश्चान्यो विमानवरमास्थितः ॥९॥
आगतः पुरुषो देवो यत्र तिष्ठति धर्मराट्
स पूजितो विमानस्थः प्रश्रयावनतेन च ॥१०॥
सामपूर्वं तथोक्त्वा तु यथापूर्वं नरः स्वयम्
किमनेन कृतं कर्म यस्य तुष्टो भवान्भृशम् ॥११॥
अत्र मे कौतुकं जातं कृता हि स्वयमेव तु
यदस्य भवता पूजा सविस्मयमनंतरम् ॥१२॥
तथैवास्य कृता पूजा द्वितीयस्य नरस्य तु
मेनेऽहं शुभकर्माणौ विमानं वरसत्तमौ ॥१३॥
यस्त्वमाभ्यां स्वयं पूजां कुरुषे धर्मकारणात्
ब्रह्माविष्णुशिवाद्यैस्तु पूज्यसे त्वं सदानिशम् ॥१४॥
यस्येदृक्परमं पुण्यं किमेतौ कर्म चक्रतुः
कथ्यतां मम सर्वज्ञ फलं दिव्यमवापतुः ॥१५॥
तच्छ्रुत्वा स तु मां प्राह शृणु कर्मानयोः कृतम्
यत्कृत्वार्हमिहायातौ तच्छृणुष्व महामते ॥१६॥
धर्म उवाच-
वैदिशं नाम नगरं पृथिव्यामस्ति विश्रुतम्
तत्राभूत्पृथिवीपालो धरापाल इति श्रुतः ॥१७॥
कस्मिन्काले पुरा देवी शशाप स्वगणं क्रुधा
मदृतेन परा नारी भर्त्तुर्यन्मे निवेशिता ॥१८॥
तस्माद्द्वादशवर्षाणि जंबुकस्त्वं भविष्यसि
इत्युक्तः स च बभ्राम जंबुको मेदिनीतलम् ॥१९॥
वेतसी वेत्रवत्योस्तु संगमे लोकविश्रुते
शापांतो भविता पुत्र इत्युक्तं गिरिकन्यया ॥२०॥
तत्र चानशनं कृत्वा क्षेत्रे प्राणांस्ततोऽत्यजत्
दिव्यरूपवपुर्भूत्वा जगाम विष्णुसन्निधौ ॥२१॥
तत्राश्चर्यं महद्दृष्ट्वा धरापालो महीपतिः
विष्णोरायतनं कृत्वा क्षेत्रे प्राणंस्ततोऽत्यजत् ॥२२॥
दिव्यरूपवपुर्भूत्वा स्थापयामास तं प्रभुम्
तस्मिन्पुरे नरान्सर्वा सन्नियोज्यास्य वीक्षणे ॥२३॥
शुभमायतनं विष्णोस्तस्मिन्ग्रामे सदा जनैः
पूर्णं तु ब्राह्मणादीनां पूजयित्वा कदंबकम् ॥२४॥
इतिहासपुराणज्ञं वाचकं तु विशेषतः
पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः ॥२५॥
पुस्तकं चापि संपूज्य गंधपुष्पादिभिः क्रमात्
ततस्तमाह राजासौ वाचकं विनयान्वितः ॥२६॥
एतदायतनं विष्णोः कारितं च तवाग्रतः
चातुर्वर्ण्यमिदं चापि श्रोतुकामं कदंबकम् ॥२७॥
तिष्ठतीह द्विजश्रेष्ठ कुरु पुस्तकवाचनम्
यावत्संवत्सरं विप्र गृह्य वृत्तिं त्वनुत्तमाम् ॥२८॥
स्वर्णनिष्कशतं चात्र ततो दास्ये तथापरम्
पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽथ महमात्मनः ॥२९॥
एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनम्
वर्षसंगतमात्रे तु तथा च मुनिसत्तम ॥३०॥
अथायुषः क्षयाच्चायं कालधर्ममुपेयिवान्
मया चास्य विमानं हि विष्णुना प्रेरितं दिवः ॥३१॥
इत्येषा कर्मणां व्युष्टिः पुण्यमाख्यानसंज्ञकम्
श्रुतं पाद्मं महत्पुण्यं पवित्रं पापनाशनम् ॥३२॥
गंधपुष्पोपहारैस्तु न तुष्टिर्जायते तथा
देवानामिह सर्वेषां पुराणश्रवणाद्यथा ॥३३॥
स्वर्णरत्नादिवस्तूनां वस्त्राणां चापि कृत्स्नशः
ग्रामाणां नगराणां च दानात्तुष्टिर्भवेन्नहि ॥३४॥
यथा स्याद्धर्मश्रवणात्प्रीतिः सर्वदिवौकसाम्
इतिहासपुराणानां श्रवणे मुनिसत्तम ॥३५॥
तथा स्यान्मे महाप्रीतिः साध्ये सर्वार्थकामिके
कन्यादाने महाप्रीतिर्मम स्यान्मुनिसत्तम ॥३६॥
न तथा रोचते सा च यथा पुस्तकवाचनात्
अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम ॥३७॥
पुण्याख्यानमृते विप्र गुह्यमेतत्प्रकीर्तितम्
यश्चायमपरो विप्र इहायातो नरोत्तमः ॥३८॥
संगत्यानुगतश्चायं धर्मश्रवणमुत्तमम्
श्रुत्वा भक्तिरभूदस्य श्रद्धया परमात्मनः ॥३९॥
कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः
एष विप्रो मुनिश्रेष्ठ ददौ स्वर्णस्य माषकम् ॥४०॥
नान्यद्दानं कदा चक्रे लोभाविष्टेन चेतसा
पात्रदानात्फलप्राप्तिस्त्वस्य जाता न संशयः ॥४१॥
इत्येतत्कथितं कर्म आभ्यां चैव महामुने ॥४२॥
महादेव उवाच-
एतत्पुण्यस्य माहात्म्यं ये शृण्वंति मनीषिणः
न तेषां दुर्गतिः कच्चिज्जन्मजन्मनि जायते ॥४३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे
उमापतिनारदसंवादे शास्त्रव्याख्यामहिमानामाष्टाविंशोऽध्यायः ॥२८॥
N/A
References : N/A
Last Updated : November 18, 2020
TOP