संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १२९

उत्तरखण्डः - अध्यायः १२९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


वसिष्ठ उवाच
श्रूयतां ये पिशाचाश्च मोचितास्तेन तद्वने
आसीद्राजा चित्रनामा द्राविडे विषये पुरा ॥१॥
सोमान्वये महावीरः शूरः शस्त्रास्त्रपारगः
गजवाजिरथौघैश्च संपन्नो विक्रमी सदा ॥२॥
स्वर्णैर्नानाविधै रत्नैः पूर्णकोशो महाधनः
मध्ये नारीसहस्रस्य सदा क्रीडति तत्परः ॥३॥
स्त्रैणः कामी सदा लुब्धश्चंडकोपः स पार्थिवः
न करोति वचो धर्म्यं सचिवैः समुदीरितम् ॥४॥
विष्णुं निंदति सोऽत्यर्थं वैष्णवान्द्वेष्टि सर्वदा
कोऽसौ विष्णुः क्व दृष्टोऽसौ क्व चास्ते केन कीर्त्यते ॥५॥
इत्थं न सहते विष्णुं स राजा दैवमोहितः
नारायणं भजंते ये तान्पीडयति कोपितः ॥६॥
न ब्राह्मणान्न वेदांश्च वैदिकं कर्म न व्रतम्
न दानं मन्यते दातुं पाखंडस्थितिसंस्थितः ॥७॥
अनीत्या चंडदंडैश्च प्रजापीडां करोति सः
निष्ठुरो निर्दयः क्रूरः पुण्यकार्यपराङ्मुखः ॥८॥
च्युताचारोऽच्युतद्वेष्टा च्युताग्निश्च च्युतक्रियः
सोऽनुशास्ति जनं भूपः कालरूप इवापरः ॥९॥
ततो बहुतिथे काले स राजा पंचतां गतः
वैदिकेन विधानेन लेभे नैवोर्ध्व दैहिकम् ॥१०॥
अथ किंकरयूथेन पीड्यमानो भृशं तदा
अयःकीलमये मार्गे तप्तसिक्ता प्रपूरिते ॥११॥
चंडार्करश्मिसंतप्ते वृक्षच्छायाविवर्जिते
तप्तांगारप्रकीर्णे च वह्निज्वालासमाकुले ॥१२॥
लोहतुंडैश्च काकोलैर्हन्यमानः सुदारुणैः
वृकैर्दंष्ट्राकरालैश्च श्वभिर्घोरैश्च भक्षितः ॥१३॥
शृण्वन्क्रंदितमन्येषां नृणां किल्बिषकारिणाम्
जगाम पार्थिवो लोकमंतकस्य भयावहम् ॥१४॥
शृणु भूपगतिं तस्य तस्मिँल्लोके सुदुःसहाम्
निरयान्निरयं यातः पर्यायेण स भूपतिः ॥१५॥
आदौ प्रयातस्तामिस्रे दारुणे भूरिदुःखदे
पुनश्चैवांधतामिस्रे यत्र दुःखं निरंतरम् ॥१६॥
गतोऽनंतरमत्युग्रं महारौरवरौरवम्
नरकं कालसूत्रं च महानरकमेव च ॥१७॥
पश्चान्मग्नः स भूपालो दुस्तरे दुःखमूर्छितः
संजीवने महावीचौ तापने संप्रतापने ॥१८॥
प्रतापनरकं राजा दुःखाग्निप्लुष्टमानसः
संपातं च स काकोलं कुड्मलं पूतिमृत्तिकम् ॥१९॥
लोहशंकुं मृगीयंत्रं पंथानं शाल्मलिनदीम्
प्रविष्टोऽथ महाभीमं दुर्दर्शं दुर्गमं पुनः ॥२०॥
असिपत्रवनं चैव लोहचारकमेव च
एवमेतेषु सर्वेषु पतित्वा पापकृन्नृपः ॥२१॥
अविंदन्नरके घोरे संतापं यातनामयम्
विष्णुप्रद्वेषघोषेण युगानामेकविंशतिः ॥२२॥
भुक्त्वा च यातनां याम्यां निस्तीर्णनरको नृपः
समयाद्गिरिराजे तु पिशाचोऽभूत्तदा महान् ॥२३॥
स भ्राम्यति दिशः सर्वा वने तस्मिन्बुभुक्षितः
न पश्यत्यशनं तोयं मेरावपि सदा गिरौ ॥२४॥
कदाचित्पर्यटन्सोऽथ पिशाचः शोकपीडितः
प्लक्षप्रस्रवणारण्यं प्रविष्टो भाविसत्फलम् ॥२५॥
बिभीतकतरुच्छायां समाश्रित्य सुदुःखितः
हा हतोऽस्मीति चाक्रंदद्घोरमुच्चैः पुनः पुनः ॥२६॥
क्ष्रुत्तृड्भ्यां मुह्यमानस्य सर्वभूतद्रुहो मम
जन्मनोस्य दुरंतस्य कथमंतो भविष्यति ॥२७॥
आदौ पापसमुद्रेऽस्मिन्दुःखकल्लोलमालिनी
करावलंबनं कोद्य निमग्नस्य प्रदास्यति ॥२८॥
इत्थं तस्य पिशाचस्य रोदनं दीनचेतसः
देवद्युतिरधीयानः शुश्राव करुणामयम् ॥२९॥
समागम्य ततस्तत्र तं पिशाचं ददर्श सः
विकरालमुखं भीमं पिशंगनयनं कृशम् ॥३०॥
ऊर्ध्वमूर्धजकृष्णांगं यमदूतमिवापरम्
ललज्जिह्वं च लंबोष्ठदीर्घजंघं शिराकुलम् ॥३१॥
दीर्घांघ्रिं शुष्कतुंडं च गर्ताक्षं शुष्कपंजरम्
अथामुं कौतुकाविष्टः पप्रच्छ मुनिपुंगवः ॥३२॥
देवद्युतिरुवाच
कोऽसि त्वं भीषणाकारः कुतो रोदिषि दारुणम्
अवस्थेयं कुतो ब्रूहि किंचाहं करवाणि ते ॥३३॥
ममाश्रमप्रविष्टा हि दुःखभाजो न जंतवः
मोदंते केवलं सर्वे वैष्णवे भवने यथा ॥३४॥
वद त्वं सत्वरं भद्र दुःखस्यैतस्य कारणम्
कालक्षेपं न कुर्वंति प्राप्तेऽथे हि मनीषिणः ॥३५॥
वसिष्ठ उवाच
श्रुत्वैतद्वचनं प्रीतः पिशाचस्त्यक्तरोदनः
उवाच दीनया वाचा प्रश्रयावनतस्तदा ॥३६॥
पिशाच उवाच
सर्वांगव्यापि संतापं जहार त्वद्वचो मयि
ग्रीष्मे दावानलोद्भूतं वर्षन्मेघ इवाचले ॥३७॥
यन्मेऽस्ति सुकृतं किंचित्तेन दृष्टोऽसि मे द्विज
न ह्यसंचितपुण्यानां सद्भिरेकत्रसंगमः ॥३८॥
इत्युक्त्वा कथयामास पूर्ववृत्तांतमात्मनः
विष्णुद्वेषप्रदोषेण दशामेतामहं गतः ॥३९॥
यन्नामप्राणान्मुक्तो हि स्मृत्वा विष्णुपदं व्रजेत्
पापिष्ठो हि हरौ तस्मिन्ममद्वेषोऽभवद्द्विज ॥४०॥
यः पालयति भूतानि धर्मं याति जगत्त्रये
योंऽतरात्मा च भूतानां तस्मिन्द्वेषो ममाभवत् ॥४१॥
कर्मणां फलदो योऽत्र सर्ववेदेषु गीयते
तपोभिरिज्यते विप्रैः समद्वेषवशंगतः ॥४२॥
त्यक्तक्रियैः प्रियारण्यैर्निःसंगैकचरैश्च यः
वेदांते यतिभिश्चिंत्यः स मे द्वेषी हरिर्द्विज ॥४३॥
ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः
मुक्त्यर्थमर्चयंतीह स विष्णुर्द्वेषितो मया ॥४४॥
आदौ मध्येऽवसाने यो विश्वधाता सनातनः
यस्य नैवादिमध्यांताः समे द्वेषपदं ययौ ॥४५॥
यन्मया सुकृतं कर्म कृतं प्राक्तनजन्मनि
विष्णुद्वेषाग्निना दग्धं तत्सर्वं भस्मसादभूत् ॥४६॥
कथंचिदस्य पापस्य सीमां द्रक्ष्यामि चेदहम्
मुक्त्वा नारायणं नान्यमर्चयिष्यामि देवताम् ॥४७॥
विष्णुद्वेषाच्चिरं भुक्त्वा मया नरकयातनाम्
निरयान्निसृतः सोऽहं पैशाचीं योनिमागतः ॥४८॥
अधुना कर्ममंत्रैः कैरथानीतस्त्वदाश्रमम्
यत्र त्वद्दर्शनार्कान्मे नष्टं दुःखमयं तमः ॥४९॥
प्राप्यते मरणं यत्र बंधनं श्रीः सुखं वधूः
स तत्र नीयते स्वेन कर्मणा गलहस्तिना ॥५०॥
इदानीमुचितं कर्म ब्रूहि पैशाच्यनाशनम्
परोपकारकार्ये हि न धन्या मंदगामिनः ॥५१॥
देवद्युतिरुवाच
अहो मुष्णाति मायेयं देवासुरनृणां स्मृतिम्
यया देवेष्वपि द्वेषो जायते धर्मनाशनः ॥५२॥
स्रष्टा पालयिता हंता जगतां यो महेश्वरः
आत्मा च सर्वभूतानां तं मूढो द्वेष्टि कः कथम् ॥५३॥
भवंति सर्वकर्माणि सफलानि यदर्पणात्
तद्भक्तिविमुखो मर्त्यः को न यातीह दुर्गतिम् ॥५४॥
श्रुतिस्मृतिसदाचारविहितं कर्म केवलम्
सेवितव्यं चतुर्वर्णैर्भजन्नारायणं सदा ॥५५॥
अन्यथा निरयं यांति विना ह्यागमसेवनात्
अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म संत्यजेत् ॥५६॥
स्वबुद्धिरचितैः शास्त्रैः प्रतार्येह तु बालिशान्
विघ्नंति श्रेयसो मार्गं लोकनाशाय केवलम् ॥५७॥
विष्णुं निंदंति वेदांश्च तपो निंदंति सद्द्विजान्
तेन ते नरकं यांति ह्यसच्छास्त्रनिषेवणात् ॥५८॥
अयमेव यथा राजा द्रविडो निरयं गतः
द्विषन्नारायणं देवं देवदेवं जगत्प्रभुम् ॥५९॥
तस्माद्द्वेषं हि देवेषु ब्राह्मणेषु विशेषतः
संत्यजेत्पुण्यकामोऽत्र वेदबाह्यां क्रियां त्यजेत् ॥६०॥
इत्युक्त्वा कथयामास पिशाचाय हि तं मुनिः
प्रयागं गच्छ भो भद्र माघमासं विचारय ॥६१॥
यत्र ते निश्चिता मुक्तिः पैशाच्यान्नात्र संशयः
तत्राप्लुता दिवं यांति श्रुतिरेषा सनातनी ॥६२॥
विजहाति नरस्तत्र प्राक्तनं कर्म दुष्कृतम्
प्रयागस्नानतो नास्ति क्वाप्यन्यदधिकं परम् ॥६३॥
प्रायश्चित्तं तपोरूपं दानरूपं क्रियात्मकम्
यागयोगाधिकं विद्धि प्रयागं पापिनामपि ॥६४॥
स्वर्गापवर्गयोर्द्वारं तत्पृथिव्यामपावृतम्
सितासितोद वेणी या तां हित्वा भुवि नापरा ॥६५॥
पापनैगडबद्धस्य छेदनैककुठारिका
क्व विष्णुः सूर्यतेजोऽग्निर्गंगायामुनसंगमः ॥६६॥
क्व वराकी नृणां तुच्छा पापराशि तृणाहुतिः
मलीमसघनध्वंसे यथा शरदि चंद्रमाः ॥६७॥
भाति पापक्षयादूर्ध्वं नरो वेणीजलाप्लुतः
सितासितस्य माहात्म्यमहं वक्तुं न ते क्षमः ॥६८॥
यत्तोयकणसंस्पृष्टो मुक्तः केरलको द्विजः
इति वाक्यमृषेः श्रुत्वा पिशाचस्तुष्टमानसः ॥६९॥
मुक्तदुःखइव प्रीतः पप्रच्छ प्रणयान्मुनिम्
कथं केरलदेशीयो द्विजो मुक्तो महामुने ॥७०॥
एतं कथय वृत्तांतं संश्रित्य करुणां मयि ॥७१॥
देवद्युतिरुवाच
पिशाच शृणु पुण्यां मे कथां कथयतः शुभाम्
केरले वसुनामात्र ब्राह्मणो वेदपारगः ॥७२॥
दायादैर्हृतवित्तस्तु निर्धनो बंधुवर्जितः
जन्मभूमिं परित्यज्य महादुःखेन दुःखितः ॥७३॥
देशाद्देशं परिभ्राम्य कालेन महता पुनः
प्रविश्य स महारण्यमीषद्व्याधिप्रपीडितः ॥७४॥
गच्छंस्तीर्थांतरं श्रांतः क्षुत्क्षामो विंध्यपर्वते
दुर्भिक्षेण मृतिं लेभे न दाहं चौर्ध्वदेहिकम् ॥७५॥
तेन कर्मविपाकेन तत्रैव गिरिगह्वरे
प्रेतीभूतश्चिरं कालमुवास निर्जने वने ॥७६॥
शीतातपपरिक्लिष्टो निराहारो निरूदकः
दिगंबरो व्युपानत्को गिरा हाहेति निःश्वसन् ॥७७॥
इतस्ततः परिभ्राम्य वायुभूतः स केरलः
द्विजो न शरणं लेभे न सुखं कुत्रचित्तदा ॥७८॥
संशोचति स्म दुःखार्ते नैव पश्यति सद्गतिम्
सर्वदा दत्तदानं स भुंक्ते स्वं कर्मणः फलम् ॥७९॥
हविर्जुह्वति नाग्नौ ये गोविंदं नार्चयंति ये
भजंते नात्मविद्यां ये सुतीर्थविमुखाश्च ये ॥८०॥
सुवर्णवस्त्रतांबूलं मणिमन्नं फलं जलम्
आर्तेभ्यो न प्रयच्छंति सर्वे ते कृतहीनकाः ॥८१॥
ब्रह्मस्वं च परस्वं च स्त्रीधनानि हरंति ये
बलेन छद्मना वापि धूर्ताश्च परवंचकाः ॥८२॥
दांभिकः कुहकाश्चौरा ये च पावकवृत्तयः
बालवृद्धातुरस्त्रीषु निर्दयाः सत्यवर्जिताः ॥८३॥
अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणः
अगम्यागामिनः सर्वे ये चान्ये ग्रामयाजिनः ॥८४॥
पितृमातृस्नुषापत्यस्वदारत्यागिनश्च ये
ये कदर्याश्च लुब्धाश्च नास्तिका धर्मदूषकाः ॥८५॥
त्यजंति स्वामिनं युद्धे त्यजंति शरणागतम्
गवांभूमेश्च हंतारो ये चान्ये रत्नदूषकाः ॥८६॥
परापवादिनः पापा देवतागुरुनिंदकाः
महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये ॥८७॥
परद्रोहरता ये च यथा च प्राणिहिंसकाः
कुप्रतिग्राहिणः सर्वे ते भवंति पुनः पुनः ॥८८॥
प्रेतराक्षसपैशाच तिर्यग्वृक्षकुयोनिषु
न तेषां सुखलेशोऽस्ति इह लोके परत्र च ॥८९॥
तस्मात्त्यक्त्वा निषिद्धार्थं विहितं कर्म चाचरेत्
यज्ञं दानं तपस्तीर्थं मंत्रं देवं गुरुं भजेत् ॥९०॥
विपाकं कर्मणां दृष्ट्वा योनिकोटिषु दुस्तरम्
चतुर्भिरपि वर्णैश्च सेव्यो धर्मो निरंतरम् ॥९१॥
इति प्रेतगतिं दृष्ट्वा पापबीजोत्थितां हि सः
कृत्वा धर्मोपदेशं च पुनस्तस्मै द्विजोऽब्रवीत् ॥९२॥
इत्थं स केरलः प्रेतो वर्तमानो गिरौ तदा
अतिवाह्य चिरं कालमपश्यत्पथिकं पथि ॥९३॥
वहंतं द्वौ करंडौ च वेणी जलयुतौ तथा
गायंतं प्रमुखा देवं पुण्यश्लोकं जनार्दनम् ॥९४॥
तं दृष्ट्वा सहसा प्रेतो मार्गरोधं चकार सः
दर्शयामास चात्मानं मा भैषीरित्युवाच सः ॥९५॥
पानीयं पातुमिच्छामि त्वत्तः कार्पाटिकोत्तम
न पास्यसि जलं चेन्मां प्राणा यास्यंति मे दृढम् ॥९६॥
इति प्रेतवचः श्रुत्वा पांथः प्रत्याह कौतुकात्
कार्पटीक उवाच
कस्त्वं दुःखाभिभूतस्तु कृशो म्लानो दिगंबरः ॥९७॥
जीवशेषो मुमूर्षुश्च विकृतो भयवर्धनः
नवधूममयाकारश्चंडश्चंचललोचनः ॥९८॥
पद्भ्यामस्पृष्टभूमिस्त्वं निर्मांसोदरबाहुकः
इति तद्वचनं श्रुत्वा प्रेतो वाक्यमथाब्रवीत् ॥९९॥
प्रेत उवाच
शृणु धर्मिष्ठ ते वच्मि येनाहमीदृशोऽभवम्
ब्राह्मणोऽदत्तदानोऽहं लोभी च मलिनक्रियः ॥१००॥
परान्नं च सदा भुक्तमेकाकी मिष्टभोजनः
मया दत्ता न भिक्षापि हंतकारो न पुष्कलः ॥१०१॥
न कृतो वैश्वदेवस्तु प्रक्षिप्तो न बहिर्बलि
भूतानां तु तृषार्तानां न हता पयसा च तृट् ॥१०२॥
कदाचित्पितरो नैव तर्पिता अटता महीम्
न च श्राद्धं कृतं क्वापि पूजिता नैव देवताः ॥१०३॥
वर्षातपपरित्राणं न दत्तं पादरक्षणम्
जलपात्रं न दत्तं च तांबूलं नौषधं मया ॥१०४॥
न गृहे वसतिर्दत्ता नातिथ्यं कस्यचित्कृतम्
अंधवृद्धाधनानाथ दीनाः पानान्नतोषिताः ॥१०५॥
गवां ग्रासो न दत्तो वै न रोगी परिमोचितः
न दत्ता न हुता विप्र पवित्राश्च तिला मया ॥१०६॥
पृथिव्यां तिलदातारो न भवंति तु मद्विधाः
व्यतीपाते न दत्तं हि किंचित्स्वर्णं महाफलम् ॥१०७॥
संक्रांतावुपरागे च न दत्तं सूर्यचन्द्रयोः
पर्वाण्यन्यानि सर्वाणि जग्मुः शून्यानि मे द्विज ॥१०८॥
तिथयः कार्तिके मुख्या जाता वंध्याः सदा मम
पितृभ्यो नैव दत्तं वा अष्टकासु मघासु च ॥१०९॥
द्विजानां न कृता प्रीतिर्मन्वादिषु युगादिषु
न दत्तस्तिलतैलेन प्रदीपः कार्तिके मया ॥११०॥
न स्नातो माघमासेऽहं रूपसौभाग्यकामदे
द्विजाय वेदविदुषे गौतम्यां सिंहगे गुरौ ॥१११॥
मया संकल्पितं द्रव्यं न दत्तं पूर्वजन्मनि
न स्नातोऽहं कृष्णवेण्यां तथा कन्यागते गुरौ ॥११२॥
अग्निं प्रज्वाल्य काष्ठौघैः स्नातानां पौषमाघयोः
शीतार्तानां च विप्राणां न कृतो जाड्यनिग्रहः ॥११३॥
माधवादिषु मासेषु न दत्तं शीतलं जलम्
मया नारोऽपितोऽश्वत्थो न्यग्रोधो नैव वर्धितः ॥११४॥
बंदीगृहान्मया मुक्तिर्न कृता प्राणिनां क्वचित्
न प्राणिभयसंत्रस्तो रक्षितः शरणागतः ॥११५॥
नोपोष्यात्र त्रिरात्राणि तोषितो मधुसूदनः
कृच्छ्रातिकृच्छ्रपाराकं तथा चांद्रायणं द्विज ॥११६॥
अथान्यत्तप्तकृच्छ्रं च तथा सांतपनानि च
व्रतान्येतानि पुण्यानि जुष्टानींद्रादिभिः सुरैः ॥११७॥
चरित्वा न मया तानि देहः संशोषितः पुरा
इत्थं पूर्वभवो वंध्यो मम जातो द्विजोत्तम ॥११८॥
पश्य द्विज महाक्रूरामद्भुतामत्र जन्मनि
गतिं दूरप्रबोधां तु मम पूर्वस्य कर्मणः ॥११९॥
संति मांसानि मार्गेषु वृकव्याघ्रहतानि वै
फलान्यन्यानि शैलेस्मिन्शुकैस्त्यक्तानि सर्वतः ॥१२०॥
पुण्यानि च सुगंधीनि फलानि रसवंति च
मूलानि तु सुभक्ष्याणि मृदूनि मधुराणि च ॥१२१॥
नानाविधानि तिष्ठंति मधूनि सुबहून्यपि
स्रोतसां निर्झराणां च संति वारीणि सर्वशः ॥१२२॥
सुलभेषु पदार्थेषु सर्वेष्वेतेषु पर्वते
नेक्षेहमशनं क्वापि दैवेनापि हतं सदा ॥१२३॥
वाताहारेण जीवामि यथा जीवंति पन्नगाः
पुनर्जीवामि भो विप्र देवयोनिप्रभावतः ॥१२४॥
बलेन प्रज्ञया नित्यं मंत्रपौरुषविक्रमैः
सहायैश्चैव मित्रैश्च नालभ्यं लभते नरः ॥१२५॥
लाभालाभे सुखे दुःखे विवाहे मृत्युजीवने
भोगे रोगे वियोगे च दैवमेव हि कारणम् ॥१२६॥
कुरूपाः कुकुला मूर्खाः कुत्सिताचारनिंदिताः
शौर्यविक्रमहीनाश्च दैवाद्राज्यानि भुंजते ॥१२७॥
काणाः खंजा अभव्याश्च नीतिहीनाश्च दुर्गुणाः
नपुंसकाश्च दृश्यंते दैवाद्राज्ये प्रतिष्ठिताः ॥१२८॥
यैर्दत्ताश्च तिला गावो हिरण्यं वसनानि च
गौरी कन्या च यैर्दत्ता यैर्दत्ता च वसुंधरा ॥१२९॥
शय्यासनानि तांबूलं मंदिराणि धनानि च
भक्ष्यभोज्यानि दत्तानि चंदनान्यगरूणि च ॥१३०॥
अटव्यां पर्वताग्रे च ग्रामे वा नगरेऽपि वा
पुरः पुरःश्च तिष्ठंति तेषां भोगाः प्रयत्नतः ॥१३१॥
संत्यत्र पर्वतेऽन्येऽपि राक्षसा बलवत्तराः
राक्षसाश्च पिशाचाश्च पिशाच्यश्चातिदारुणाः ॥१३२॥
कदाचिच्च कथंचिच्च क्वापि यत्र स्वकर्मणा
लभंते चान्नपानानि पर्यटंतो वनेवने ॥१३३॥
इति श्रुत्वाऽत्र तेभ्यश्च मा भयं भवतां भवेत्
शुचिं गोविंदभक्तं त्वां न ते द्रष्टुमपि क्षमाः ॥१३४॥
विष्णुभक्तितनुत्राणं नारायणपरायणम्
न स्पृशंति न पश्यंति राक्षसाः प्रेतपूतनाः ॥१३५॥
भूतवेतालगंधर्वाः शाकिन्यश्चार्यका ग्रहाः
रेवत्यो वृद्धरेवत्यो मुखमंड्यस्तथा ग्रहाः ॥१३६॥
यक्षा बालग्रहाः क्रूरा दुष्टा वृद्धग्रहाश्च ये
तथा मातृग्रहा भीमा ग्रहाश्चान्ये विनायकाः ॥१३७॥
कृत्याः सर्पाश्च कूष्मांडा ये चान्ये दुष्टजंतवः
न पश्यंति परं विप्र वैष्णवं ब्राह्मणं शुचिम् ॥१३८॥
शुचिं रक्षंति भूतानि धर्मिष्ठं पीडयंति न
रक्षंति च शुचिं नित्यं ग्रहनक्षत्रदेवताः ॥१३९॥
गोविंदनाम जिह्वाग्रे हृदि वेदस्तु संस्थितः
शुचिश्च दानशीलश्च त्वं सर्वत्राकुतोभयः ॥१४०॥
एवं ब्राह्मण तिष्ठामि भुंजानः कर्मणः फलम्
न शोचामीति मत्वाऽहं विमृश्य च पुनः पुनः ॥१४१॥
न दुनोमि तथा तावद्यावज्जंबालिनी तटे
सारसोदीरितं वाक्ये श्रुतं पर्यटता मया ॥१४२॥
ब्राह्मण उवाच
सारसोदीरितं वाक्यं कीदृशं हि श्रुतं त्वया
तदहं श्रोतुमिच्छामि ब्रूहि त्वं प्रेत सत्वरम् ॥१४३॥
प्रेत उवाच
ब्रवीमि सारसं वाक्यं शृणु कार्पाटिकोत्तम
धूसरा नाम कक्षेऽस्मिन्नदीगिरिसमुद्भवा ॥१४४॥
सदा जलशयोत्ताला मत्तदंतिकुलाकुला
महाककुभशोभाढ्या स्निग्धजंबूमनोहरा ॥१४५॥
तस्यास्तीरमहं प्राप्तो गाहमानो वनं घनम्
मयि तिष्ठति वै तत्र फलभोजनकाम्यया ॥१४६॥
वनांतरात्समुड्डीय सारसो लक्ष्मणा युतः
आगत्य पुलिनं नद्याः सेवितुं बहुपक्षिभिः ॥१४७॥
पीत्वा तत्रैव पानीयं रमित्वा भार्यया सह
सुप्तः पक्षपुटे वामे प्रवेश्य च शिरोमुखम् ॥१४८॥
एतस्मिन्नंतरे दृष्टः पादपादवतीर्य च
रक्ताननः सुरक्ताक्षो दंडी दृढनखावलि ॥१४९॥
लोमशो दीर्घलांगूलश्चलचेष्टो हि वानरः
यत्रासौ सारसः सुप्तस्तत्र वेगेन चागतः ॥१५०॥
समागत्य च जग्राह सारसं चरणे दृढम्
कराभ्यां क्रूरया बुद्ध्या पश्यतां बहुपक्षिणाम् ॥१५१॥
उड्डीयोड्डीय ते सर्वे गताश्चान्यत्र खेचराः
सारसी भीतभीता च विरावान्कुर्वती स्थिता ॥१५२॥
सारसो भग्ननिद्रस्तु त्रासाच्चलितलोचनः
अवलोकितवाञ्छीघ्रं तदोत्ताम्य शिरोधराम् ॥१५३॥
विलोक्य वानरं दुष्टं हंतुकामं सुदारुणम्
तदा संभाषयामास गिरा मधुरया खगः ॥१५४॥
अपराधं विना मां त्वं किं शाखामृग बाधसे
सापराधा जना लोके वध्यंते भूमिपैरपि ॥१५५॥
न पीडयितुमर्हंति त्वादृशा उत्तमा जनाः
अस्मानहिंसकान्साधून्परवृत्तिपराङ्मुखान् ॥१५६॥
जलशैवालभक्षांश्च खेचरान्वनवासिनः
स्वदाररतिशीलांश्च परदाराभिवर्जितान् ॥१५७॥
न पीडयितुमर्हंति त्वद्विधा वानरोत्तम
परापवादपैशुन्यान्द्विजान्परमसेवकान् ॥१५८॥
शाखामृग विमुंचाशु सर्वथा मामनागसम्
जानामि तव जन्माहं न त्वं वेत्सि तु मामकम् ॥१५९॥
इत्याकर्ण्य वचस्तस्य मुमोच सारसं तदा
चपलो वानरः शीघ्रमाह दूरे व्यवस्थितः ॥१६०॥
वानर उवाच
ब्रूहि रे त्वं कथं वेत्सि मम जन्म पुरातनम्
त्वं पक्षी ज्ञानहीनश्च तिर्यक्चाहं वनेचरः ॥१६१॥
सारस उवाच
जानेऽहं तावकं जन्म जातिस्मरमिति स्फुटम्
त्वं हि विंध्याधिपो राजा प्राग्भवे पर्वतेश्वरः ॥१६२॥
अहं पूज्यतमो विप्रस्तव वंशे पुरोहितः
तेन प्रत्यभिजानामि त्वां सम्यग्वानरोत्तम ॥१६३॥
इमां पालयता भूमिं प्रजाः सर्वाः प्रपीडिताः
त्वया विवेकहीनेन भृशं संचयता धनम् ॥१६४॥
प्रजापीडानतापोत्थ वह्निज्वालैस्तु वानर
प्राक्त्वं दग्धः पुनः क्षिप्तः कुंभीपाकेऽति दारुणे ॥१६५॥
पुनः पुनःश्च दग्धेन जातेन च पुनः पुनः
नारकेण शरीरेण समास्त्रिंशद्गतं त्वया ॥१६६॥
कुर्वता दारुणाञ्छब्दान्रुदता च पुनः पुनः
कुंभीपाकानले तीव्रा ह्यनुभूताश्च यातनाः ॥१६७॥
निस्तीर्णनरको भूयः पापशेषेण सांप्रतम्
प्राप्तोऽसि वानरं जन्म येन मां हंतुमिच्छसि ॥१६८॥
विप्रस्योपवनात्पूर्वं पक्वरंभाफलानि वै
अननुज्ञाप्य भुक्तानि त्वयापहृत्य पौरुषात् ॥१६९॥
विपाकः कर्मणस्तस्य फलते पश्य दारुणः
वानरस्त्वं वने वासो ह्यधुना तेन वर्तसे ॥१७०॥
अशुभस्य शुभस्यापि पुराविहितकर्मणः
भोगः क्रीडति भूतेषु नोल्लंघ्यस्त्रिदशैरपि ॥१७१॥
इत्थं त्वज्जन्म जानामि यथावत्तु सहेतुकम्
प्राप्तः सारसदेहोऽपि ज्ञानेनापरिमोहितः ॥१७२॥
प्रेत उवाच
इति श्रुत्वा कथां विप्र वानरोप्याह सारसम्
सम्यग्वेत्ति भवान्नूनं कथं त्वं पक्षितां गतः ॥१७३॥
सारस उवाच
कथयिष्यामि तत्कर्म येनाहं दुर्गतिं गतः
पक्षियोनिं गतो येन तत्सर्वं श्रोतुमर्हसि ॥१७४॥
धान्यं खारिशतं साग्रमुत्सृष्टं हि त्वया पुरा
बहुभ्यो ब्राह्मणेभ्यश्च चर्मदायां रविग्रहे ॥१७५॥
पौरोहित्यमदाल्लोभाद्वंचयित्वा द्विजांस्तथा
किंचिद्दत्त्वा तु तेभ्यश्च गृहीतमखिलं मया ॥१७६॥
विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात्
पतितः कालसूत्रेऽहं नरके रक्तकर्दमे ॥१७७॥
चलत्क्रिमिसुसंपूर्णे दुर्गंधे पूयफेनिले
आनाभेस्तत्र मग्नोस्मि लिहन्पूयमधोमुखः ॥१७८॥
तथोपरि महागृध्रैर्भक्ष्यमाणस्तु वायसैः
क्रिमिभिस्तुद्यमानस्तु मम देहो निरंतरम् ॥१७९॥
तस्मिञ्छोणितपंकेऽहं निरुच्छ्वासोऽभवं तदा
मुहूर्तोऽपि महाकल्पसमो जातो ममात्र वै ॥१८०॥
यातनाश्चानुभूताश्च समास्त्रिरयुतं मया
वक्तुं च तन्न शक्नोमि दुःखं वानर नारकम् ॥१८१॥
पौरोहित्यं महाघोरं पापदं च स्वभावतः
देवोपजीवनं यत्र ब्राह्मणस्योपजीवनम् ॥१८२॥
राज्ञः प्रतिग्रहो घोरस्तेन दग्धा द्विजातयः
तेषामपि हरेद्द्रव्यं पुरोधास्तेन नारकी ॥१८३॥
राजा यत्कुरुते पापं पुरा देहेन धीयते
तस्य तेन पुरोधाश्च गीयते तत्वदर्शिभिः ॥१८४॥
दैवात्कथमपि प्राप्त उत्तारो नरकांबुधेः
मयादौ दैवयोगेन शकुनित्वमुपस्थितम् ॥१८५॥
अपहृत्य पुरा कांस्यभाजनं भगिनीगृहात्
आक्षिकाय मया दत्तं तेन मे सारसी गतिः ॥१८६॥
इयं च ब्राह्मणी पूर्वं कांस्यचोरी सुदारुणा
तेनेयं सारसी जाता मम भार्या सधर्मिणी ॥१८७॥
इत्थं वानर ते सर्वं कथितं कर्मणः फलम्
वृत्तं च वर्तमानं च भविष्यं शृणु सांप्रतम् ॥१८८॥
अहं हंसो भविष्यामि त्वं च हंसो भविष्यसि
हंसीयमपि मद्भार्या सारसी च भविष्यति ॥१८९॥
देशे च कामरूपे वै स्थास्यामो वै यथासुखम्
योगिनीं भाविकल्याणीं यास्यामस्तदनंतरम् ॥१९०॥
ततश्च मानुषं जन्म प्राप्यामो दुर्लभं पुनः
श्रेयस्तद्विपरीतं च प्राणिभिर्यत्र साध्यते ॥१९१॥
एवं सर्वाञ्छिवो जंतून्मोहयित्वा स्वमायया
सुखैर्भुनक्ति दुःखैश्च नास्मानेव तु केवलम् ॥१९२॥
अयं लोके प्रवृत्तश्च मार्गो विविधनिर्मितः
धर्माधर्ममयोऽत्यर्थे सुखदुःखफलात्मकः ॥१९३॥
सेवितः प्राणिभिः सर्वैः सर्वदा वा पुनः पुनः
देवासुरनरव्याघ्र क्रिमिकीटजलेचरैः ॥१९४॥
नातिक्रांतो हि केनापि पंथाऽयं दुःखकंटकः
विरक्तान्योगिनोध्यायं विनावेदांतपारगान् ॥१९५॥
अणोर्वापि गुरोर्वापि पुण्यापुण्यस्य कर्मणः
ददातीह फलं ज्ञात्वा देशं कालं महेश्वरः ॥१९६॥
इत्थं विधिविधानज्ञां मायां ज्ञात्वेश्वरस्य च
न शोचंति न तप्यंति न व्यथंति महाधियः ॥१९७॥
नान्यथा शक्यते कर्तुं विपाकः पूर्वकर्मणाम्
उपायैः प्रज्ञया वापि शाखामृगसुरैरपि ॥१९८॥
पुरा त्वं भूपतिर्जातः पश्चाज्जातोऽसि नारकी
अधुना वानरो भूयो जन्म प्राप्स्यसि तादृशम् ॥१९९॥
इति मत्वा विशोकस्त्वं शाखामृग यथासुखम्
प्रतीक्षां कुरु कालस्य रममाणोऽत्र कानने ॥२००॥
अहमप्येवमीशान मायाबद्धो वने वने
क्षपयिष्यामि वै जन्म धैर्यमास्थाय सारसम् ॥२०१॥
वानर उवाच
मया त्वं पूजितः पूर्वं नौमि त्वामधुनाप्यहम्
जातिस्मरोऽसि जानामि सर्वं मत्पूर्वदैहिकम् ॥२०२॥
तिष्ठ सारस सारस्या शिवमस्तु सदा तव
त्वद्वाक्याद्गतमोहोऽहं विचरिष्यामि सर्वदा ॥२०३॥
प्रेत उवाच
इमं रम्यं विचित्रं च पावनं परमं द्विज
पक्षिवानरसंवादं श्रुतं यावन्नदीतटे ॥२०४॥
तावन्ममापि बोधोऽभूत्तेन शोकः क्षयं गतः
इदानीं जाह्नवीतोयमाहात्म्यं परमाद्भुतम् ॥२०५॥
दृष्ट्वात्र ब्राह्मणश्रेष्ठ त्वां याचे जाह्नवीजलम्
प्रेतत्वात्तर्तुकामोऽहं तीव्रा तृष्णा प्रपीडितः ॥२०६॥
अस्मिन्नेवाचले दृष्टं मयाश्चर्यं च वै द्विज
गंगातोयस्य तावद्धि पातुमिच्छामि तज्जलम् ॥२०७॥
पारियात्रोद्भवः कोऽपि ब्राह्मणो ग्रामयाजकः
अयाज्ययाजनाद्विंध्ये संभूतो ब्रह्मराक्षसः ॥२०८॥
अस्मत्संगस्य लोभे स्थितोऽसौ हायनाष्टकम्
तस्यास्थीनि सुपुत्रेण संचितानि द्विजोत्तम ॥२०९॥
क्षिप्तान्यानीय गंगायां तीर्थे कनखलेऽमले
तत्क्षणादेव मुक्तोऽसौ राक्षसत्वात्सुदारुणात् ॥२१०॥
इति गंगाजलस्नान महिमा महदद्भुतम्
साक्षाद्दृष्टो मया तेन गांगेयं प्रार्थितं जलम् ॥२११॥
पुरस्ताद्यत्कृतस्तीर्थे मया भूरिपरिग्रहः
न कृतस्तु प्रतीकारस्तस्य जाप्यादिलक्षणः ॥२१२॥
तेन मे प्रेतरूपस्य दुर्लभोदकभोजनम्
सहस्रं यत्र वर्षाणामतीतं विंध्यपर्वते ॥२१३॥
इति ते कथितं सर्वं हित्वा लज्जां गरीयसीम्
इदानीं धार्मिकश्रेष्ठ जलदानेन सत्वरम् ॥२१४॥
संतर्पय मम प्राणान्कंठमात्रावलंबितान्
दुर्लभं प्रेतभावेऽपि जीवितं प्राणिनामिह ॥२१५॥
शरीरं रक्षणीयं हि सर्वथा सर्वदा नरैः
नहीच्छंति तनुत्यागमपि कुष्ठादि रोगिणः ॥२१६॥
देवद्युतिरुवाच
इति तद्वचनं श्रुत्वा विस्मयं परमं गतः
पथिकश्चिंतयामास कृपां प्रेते समुद्वहन् ॥२१७॥
पापपुण्यफलं लोके प्रत्यक्षं दृश्यते खलु
देवदानवमानुष्यं तिर्यक्त्वं क्रिमिकीटकम् ॥२१८॥
नानायोनिषु जन्मानि नानाव्याधिप्रपीडनम्
मरणं बालवृद्धानामंधत्वं कुब्जता तथा ॥२१९॥
ऐश्वर्यं च दरिद्रत्वं पांडित्यं मूर्खता तथा
एताश्च रचना लोके भवंति कथमन्यथा ॥२२०॥
ते धन्याः कर्मभूमौ ये न्यायमार्गार्जितं धनम्
सत्पात्रेभ्यः प्रयच्छंति कुर्वंति चात्मनो हितम् ॥२२१॥
भूमिरत्नहिरण्यानि गावो धान्यं गृहं गजाः
रथाश्ववसनग्रामाः सिद्धमन्नं फलं जलम् ॥२२२॥
कन्या दिव्यौषधमन्नं छत्रोपानद्वरासनम्
शय्या तांबूल माल्यानि तालवृंतं वरासनम् ॥२२३॥
सर्वमेतत्प्रदातव्यं लोकत्रयजिगीषुभिः
दत्तं हि प्राप्यते स्वर्गे दत्तमेव हि भुज्यते ॥२२४॥
छत्रचामरयानानि वराश्ववरवारणाः
हर्म्याणि वरशय्याश्च गोमहिष्यो वरस्त्रियः ॥२२५॥
अन्नभूषणमुक्ताश्च पुत्रा दास्यो महाकुलम्
आयुरारोग्यमैश्वर्यं कला विद्यासु कौशलम् ॥२२६॥
दानस्यैव फलं सर्वं प्राप्यते भुवि मानवैः
तस्माद्देयं प्रयत्नेन नादत्तमुपतिष्ठति ॥२२७॥
धर्मिष्ठेन तु पांथेन गाथेयं समगायत
इति श्रुत्वा पुनः प्रेतः प्रोवाच ह्यार्तमानसः ॥२२८॥
मन्ये धर्मज्ञकल्पोऽसि पांथ त्वं नात्र संशयः
देहि मे जीवनं वारि चातकाय घनो यथा ॥२२९॥
एतस्मिन्प्राणदाने हि मा विलंबं कृथा बहु
ततः प्रत्याह पांथस्तु वचनं न्यायगर्भितम् ॥२३०॥
भृगुक्षेत्रे शृणु प्रेत पितरौ मम तिष्ठतः
तदर्थं तीर्थराजस्य मया वारि समाहृतम् ॥२३१॥
तत्सितासितपानीयं मध्ये च प्रार्थितं त्वया
न जाने धर्मसंदेहः किमत्र मम युज्यते ॥२३२॥
बलाबलं विचारार्थं करिष्ये प्रबलं विधिम्
वेदेभ्यो धर्मशास्त्रेभ्यो नाहं मानेन केवलम् ॥२३३॥
हयमेधादि यज्ञेभ्यः सर्वेभ्योप्यधिकं मतम्
ऋषिभिर्देवताभिश्च प्राणिनां प्राणरक्षणम् ॥२३४॥
इति दत्त्वा वरं वारि कृत्त्वा प्रेतस्य रक्षणम्
पित्रर्थं पुनरादाय जलं नेष्यामि पावनम् ॥२३५॥
एष मे प्रबलो भाति शुद्धधर्मप्रदो विधिः
परोपकरणादन्यत्सर्वमल्पं स्मृतं बुधैः ॥२३६॥
परोपकारिभिर्दत्ता अपि प्राणा नृभिर्मुदा
अद्भिः परोपकारः स्यात्किं न लब्धं मया पुनः ॥२३७॥
दधीचिना पुरा गीतः श्लोकोऽयं श्रूयते भुवि
सर्वधर्ममयः सारः सर्वधर्मज्ञसंमतः ॥२३८॥
परोपकारः कर्तव्यः प्राणैरपि धनैरपि
परोपकारजं पुण्यं तुल्यं क्रतुशतैरपि ॥२३९॥
इत्युक्त्वा प्रददौ तोयं गंगायामुनसंभवम्
प्रेताय प्राणरक्षार्थं स धर्मिष्ठो वरो द्विजः ॥२४०॥
प्रेतः प्रीतो जलं पीत्वा ह्यभिषिच्य शिरस्तथा
प्रजहौ प्रेतदेहं तं दिव्यदेहोऽभवत्क्षणात् ॥२४१॥
तदाश्चर्यं महद्दृष्ट्वा निजगाद स केरलः
अहो विमुक्तः प्रेतत्वाद्वेणीपानीयबिंदुभिः ॥२४२॥
ब्रह्मापि नैव शक्नोति मन्ये वक्तुमपां गुणम्
गङ्गातोयं महादेवो धत्ते के कथमन्यथा ॥२४३॥
अचिंत्यशक्तिगंगांभस्तिलमात्रं तु यः पिबेत्
देवो भवेत्स सिद्धो वा गर्भे नैव च संविशेत् ॥२४४॥
न गंगा सदृशी सिद्धिर्न गंगा सदृशी मतिः
न गंगासदृशी मुक्तिर्गंगा सर्वाधिका यतः ॥२४५॥
तस्मात्सर्वप्रयत्नेन महाभक्त्या च धार्मिक
करस्थं तस्य कैवल्यं योगं गां सेवते सदा ॥२४६॥
आयुष्मान्भव पांथत्वं मा धर्मविरतो भव
त्वयाऽहं तारितः सद्यो गंगांबुकणदानतः ॥२४७॥
इत्युक्त्वा प्रस्थितो नाकं पिशाचस्तु स केरलः
आशीर्भिरभिनंद्याथ पांथं बंधुवरं नरम् ॥२४८॥
प्रेतं विमोक्ष्य पांथोऽपि पुनरादाय तज्जलम्
गतस्तेनैव मार्गेण स्मरंस्तीर्थोदकौतुकम् ॥२४९॥
वसिष्ठ उवाच
इत्थं प्रयागमाहात्म्यं श्रुत्वा नत्वा च तं मुनिम्
प्रयागं सहसा माघे पिशाचः सत्वरं गतः ॥२५०॥
स्नात्वा सितासिते सोऽपि माघमासे द्विजोत्तम
पिशाचः क्षीणपापस्तु पैशाचीं विजहौ तनुम् ॥२५१॥
दिव्यदेहस्ततो भूत्वा द्राविडो भूपतिस्तदा
स्तुवन्नारायणं देवं भक्त्या दोषविवर्जितः ॥२५२॥
गंधर्वैः स्तूयमानस्तु नाकनारीसुपूजितः
उत्तमेन विमानेन पुरंदरपुरं ययौ ॥२५३॥
इति ते कथितं विप्र पूर्ववृत्तं सकौतुकम्
इतिहासं द्विजश्रेष्ठ सद्यः पातकनाशनम् ॥२५४॥
ज्ञानदं मोक्षदं विप्र श्रुतं दुर्गतिनाशनम्
इति ते कथितं सर्वं पुरावृत्तं सकौतुकम् ॥२५५॥
इतिहासं द्विजश्रेष्ठ श्रुतं दुर्गतिनाशनम्
अधुना तु मया सार्धमिमाः कन्याः सुतश्च ते ॥२५६॥
त्वं चायातु प्रयागं वै सर्वे सद्गतिमीप्सवः
माघस्नानं प्रकुर्मोऽत्र देवानामपि दुर्लभम् ॥२५७॥
तत्र मोक्ष्यंति पैशाच्यं सद्यः पापसमुद्भवम् ॥२५८॥
महेश उवाच
एवं वसिष्ठवक्त्राब्जकथामधुरसंमुदा
पीत्वा प्रमुदिताः सर्वे निस्तीर्णा नरकार्णवात् ॥२५९॥
प्रस्थितास्तेन सार्धं ते सत्वरं व्योम्नि हर्षिताः
दिलीप शृणु तत्सर्वं तत्तीर्थं तु सितासितम् ॥२६०॥
सत्वरं व्योममार्गेण काममासाद्य दुःसहाः
समागम्य तदा तत्र संहृष्टहृदयाश्च ते ॥२६१॥
अथोचे लोमशस्तत्र सदयं गगनांगणे
पश्यंतु श्रद्धया सर्वे तीर्थराजमिमं भुवि ॥२६२॥
विना ज्ञानं प्रयागेऽस्मिन्मुच्यंते सर्वजंतवः
इष्ट्वात्रैव महायज्ञं स्रष्टुकामः प्रजापतिः ॥२६३॥
अवाप सृष्टिसामर्थ्यं ततः सृष्टिं चकार सः
अत्र नारायणः सस्नौ पत्नीकामः सितासिते ॥२६४॥
अतः स लब्धवान्लक्ष्मीं भार्याममृतमंथने
उषित्वा चात्र षण्मासं स्नात्वा वेण्यां यथेच्छया ॥२६५॥
त्रिपुरं घातयामास त्रिबाणेन त्रिशूलभृत्
इमानि त्रीणि कुंडानि दीप्तान्यजस्रवह्निभिः ॥२६६॥
एष तृप्तिं गतो वह्निर्यः केनापि च पुष्यति
अत्र देवास्त्रयस्त्रिंशत्तृप्ता मुमुदिरे भृशम् ॥२६७॥
आविर्भूतो महेशोऽत्र नीलकंठः कपालभृत्
अनिशंस सुरैः सेव्य आयातोंजलये बटुः ॥२६८॥
मृकंडसूनुना कल्पे प्रविश्य यन्मुखे स्थितम्
लोके ज्वालाकुले सोऽयं योगरूपी जनार्दनः ॥२६९॥
सेयं भागीरथी शंभोः सर्वदुःखापहारिणी
सिद्ध्यर्थं सेव्यते सिद्धैर्भुक्तिमुक्तिफलप्रदा ॥२७०॥
अनिशं भूतिदा या च स्वर्गमार्गे ह्यनुत्तमा
स्वर्गहेतुश्च या देवी सेयं भागीरथी नदी ॥२७१॥
यदंभः स्नानमात्रेण विकर्तन सलोकताम्
लभंते प्राणिनः सर्वे नदी सा यमुना स्वयम् ॥२७२॥
अनयोः पुण्यनद्योश्च संगमः सुखदो मुने
अत्र स्नाता न पच्यंते नरके ज्ञानभाविताः ॥२७३॥
विना ज्ञानं प्रयागेऽस्मिन्मुच्यंते सर्वजंतवः
अन्यच्च श्रूयतां विप्र इतिहासं पुरातनम् ॥२७४॥
शृण्वतां सर्वपापघ्नं सर्वरोगविनाशनम्
ऋचीकेन पुरा शप्तो गंधर्वो वायसोऽभवत् ॥२७५॥
शापं मुमोच सोऽत्रैव स्नातः सद्यः सितासिते
वासवस्य तु शापेन स्वर्गाद्भ्रष्टाप्सरोर्वशी ॥२७६॥
स्वर्गकामा च सा सस्नौ लेभे स्वर्गं ततोचिरात्
पुत्रं च शंकरं लेभे ययातिर्नाहुषो मुने ॥२७७॥
पुत्रकामः प्रयागे हि स्नात्वा पुण्ये सितासिते
धनकामः पुरा शक्रः सुस्नातोऽत्र द्विजोत्तम ॥२७८॥
धनदस्य निधीन्सर्वाञ्जहार स च मायया
कश्यपोऽत्र तपस्तेपे शिवाराधनतत्परः ॥२७९॥
अस्मिंस्तीर्थे भरद्वाजो योगसिद्धिमवाप्तवान्
अस्मिंस्तीर्थे पुरा विप्र योगेशाः शांतमानसाः ॥२८०॥
योगस्य फलभूमिं तु लेभिरे सनकादयः
अस्मिन्माघे तु ये स्नाता गंगायामुनसंगमे ॥२८१॥
तारारूपाश्च ते सर्वे तैर्व्याप्तं सकलं जगत्
विंदंति कामिनः कामान्मुक्तिं यांति मुमुक्षवः ॥२८२॥
विंदंति साधकाः सिद्धिं प्रयागे हि द्विजोत्तम
सांप्रतं मुक्तिकामास्तु कन्याश्चापि सुतश्च ते ॥२८३॥
मद्वाक्यादत्र मज्जंतु सर्वे त्वं च सितासिते
प्राक्कालीनाघविध्वंसि वेणीजलबलेन तु ॥२८४॥
लभंतामखिलं लक्ष्मीं प्राप्तशापमहाफलाम्
एवमार्षवचः सत्यमतींद्रियमलंघनम् ॥२८५॥
श्रुत्वा चोत्कंठचित्तास्तेसर्वे स्नानाय चोद्यताः
प्रयागं प्राप्य दुष्प्राप्यं पैशाच्यं विजहुः क्षणात् ॥२८६॥
विमुक्ताः शापदुःखेन तनुं स्वां स्वां च लेभिरे
दृष्ट्वा वेदनिधिः पुत्रं ताः कन्या दिव्यरूपिणीः ॥२८७॥
तुष्टाव लोमशं प्रीत्या प्रसन्नेनांतरात्मना
त्वदनुग्रहमात्रेणोत्तीर्णः पापमहार्णवः ॥२८८॥
इदानीमुचितं ब्रूहि बालानामृषिसत्तम
लोमश उवाच
कुमारोधीतवेदोऽयं समाप्तनियमो युवा ॥२८९॥
आसां तु सानुरागाणां गृह्णातु करपंकजम्
ततो लोमशवाक्येन स्वपितुर्वचनात्तदा ॥२९०॥
विवाहविधिना चाशु ब्रह्मचारी स धार्मिकः
शुभद्रव्यैश्च मंत्रैश्च ऋषिभिः कृतमंगलः ॥२९१॥
पंचानामपि कन्यानां पाणिं जग्राह धर्मतः
आनंदिन्यस्तदा सर्वाः कन्याः पूर्णमनोरथाः ॥२९२॥
बभूवुः स कुमारश्च संतुष्टश्च बभूव ह
दत्त्वानुज्ञां मुनिः सोऽथ लोमशस्तैर्नमस्कृतः ॥२९३॥
जगाम स्वाश्रमं मेरुं पर्वतं सुरसेवितम्
ततो वेदनिधी राजन्स्नुषाः पंचसुतं तथा
पुरस्कृत्य मुदायुक्तो धनदस्य पुरं ययौ ॥२९४॥
इति नृपवरमाघे स्नानसंजातपुण्यान्मुनिवरवचसा द्राक्तीर्थराजप्रयागे
सकलकलुषमुक्ताः पंच गंधर्वकन्या अलमभिगतलाभात्प्राप्य तर्षं च जग्मुः ॥२९५॥
परमिममितिहासं पावनं तीर्थभूतं वृजिनविलयहेतुं यः शृणोतीह नित्यम्
स भवति खलु पूर्णः सर्वकामैरभीष्टैर्व्रजति च सुरलोके दुर्लभो धर्मयुक्तः ॥२९६॥
इतिहासमिमं श्रुत्वा पूजयेद्यस्तु पाठकम्
गोभिर्हिरण्यवस्त्रैश्च ब्रह्मतुल्यो यतो हि सः ॥२९७॥
वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः
तस्मात्प्रपूजयेन्नित्यं यदीच्छेत्सफलं भवम् ॥२९८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे गंधर्वकन्यापरिणयोनामैकोनत्रिंशाधिकशततमोऽध्यायः ॥१२९॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP