उत्तरखण्डः - अध्यायः १६१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच
सोमतीर्थं ततो गच्छेद्गुप्तं साभ्रमतीतटे
पातालात्तत्र निर्गत्य कालाग्निरभवद्भवः ॥१॥
सोमतीर्थे नरः स्नात्वा दृष्ट्वा सोमेश्वरं शिवम्
सोमपानफलं साक्षाद्भवतीति न संशयः ॥२॥
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः
नरो भवति लोकेऽस्मिन्परत्र च शिवं व्रजेत् ॥३॥
अत्रेतिहासं वक्ष्यामि शृणु सुंदरि तत्वतः
यं श्रुत्वा मुच्यते चात्र ब्रह्महत्यादिपातकात् ॥४॥
कौषीतकेन ऋषिणा तपस्तप्तं विशेषतः
निराहारी स वै जातः पर्णाशनरतः परम् ॥५॥
वायुभक्षस्ततः कुर्वन्नात्मध्यानपरायणः
एवं बहुयुगं तत्र तप्तं तेन महत्तपः ॥६॥
कदाचिद्दैवयोगेन सुप्रसन्नो महेश्वरः
यं यं प्रार्थयसे विप्र तत्सर्वं प्रददाम्यहम् ॥७॥
कौषीतक उवाच
तव प्रसादाद्देवेश अत्र लिंगं प्रजायताम्
अत्र सोमेश्वर इति ख्यातो देवो भवेद्ध्रुवम् ॥८॥
यत्र स्नात्वा च भुक्त्वा च वांछितं फलमाप्नुयात्
अत्र स्थाने विशेषेण रुद्रजाप्यादिकं यदि ॥९॥
कारयंति नरश्रेष्ठा धर्मानर्थाल्लँभंति ते
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ॥१०॥
राज्यकामी तु तद्राज्यं लभते नात्र संशयः
यदि चेत्त्वं प्रसन्नोऽसि तत्सर्वं देहि मे प्रभो ॥११॥
ईश्वर उवाच
तदा चैव सुरेशेन सर्वं दत्तं द्विजन्मने
तदा प्रभृति तत्तीर्थं सोमलिंगेति विश्रुतम् ॥१२॥
चंदनैर्वा बिल्वपत्रैयेऽर्चयंति सदाशिवम्
लभंते मानुषे देहे सौख्यं पुत्रादिसंभवम् ॥१३॥
सोमवारे तथा प्राप्ते यो गच्छति हरालयम्
वाछितं लभते नित्यं सोमलिंग प्रसादतः ॥१४॥
अत्र गत्वा तु यो देवि यद्ददाति फलादिकम्
यया कामनया चैव तं तं प्राप्नोति निश्चितम् ॥१५॥
श्वेतैर्वा करवीरैश्च पारिजातैस्तथा पुनः
येऽर्चयंति च तं देवं श्रीमहेशं पिनाकिनम् ॥१६॥
ते लभंते सुरश्रेष्ठे शैवं पदमनुत्तमम् ॥१७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तर खंडे
सोमतीर्थवर्णनंनामैकषष्ट्यधिकशततमोऽध्यायः ॥१६१॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP