उत्तरखण्डः - अध्यायः २०३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
देवल उवाच
अथोषसि नराधीशः पूजितां कुसुमादिभिः
महिष्या नंदिनीं धेनुं नीत्वारण्यं जगाम सः ॥१॥
गच्छंतीमनु तां देवीं छायेव नृपतिर्ययौ
खादंतीमनुशष्पादि सोऽपि मूलाद्यभक्षयत् ॥२॥
तरुच्छायामुपासीनामनु सोऽप्युपविष्टवान्
पिबंतीमनुपानीयं राजापि सलिलं पपौ ॥३॥
स च राजा मृदुग्रासैर्दंशापनयनेन च
कंडूयनैः कामधेनुं गुरोरेवमसेवत ॥४॥
अथ प्रत्याश्रमं सायं न्यवर्त्तंत महीपतेः
अंगं पवित्रयंती सा खुरोद्धूतैरजःकणैः ॥५॥
अधोभारेण गुरुणा गच्छंती मंथरं बभौ
महीपालमहत्कार्यभाराक्रांतेव नंदिनी ॥६॥
तां मुनेराश्रमाभ्याशे राज्ञी प्रत्युज्जगाम ह
चंदनाक्षतनैवेद्यधूपादीनुपनीय च ॥७॥
तां पूजयित्वा विधिवत्प्रणम्य च पुनः पुनः
कृत्वा प्रदक्षिणं राज्ञी तस्थौ प्रांजलिरग्रतः ॥८॥
सा गृहीत्वा च तां पूजां विहितां श्रद्धया तया
राज्ञा निश्चलमास्थाय ययौ ताभ्यां सहाश्रमम् ॥९॥
आराधयति तामेवं दिलीपे तु दृढव्रते
एकाधिका व्यतीयाय दिनानां वैश्य विंशतिः ॥१०॥
अथ भूमिपतेस्तस्य भावजिज्ञासया तु सा
विवेश निर्भयस्वांता सशष्पां हिमवद्गुहाम् ॥११॥
पश्यता हिमवत्सानु शोभामथ महीभृता
अलक्षितागमः सिंहो बलाज्जग्राह नंदिनीम् ॥१२॥
सा चक्रंद भृशं धेनुर्दुःखितेव दयास्वना
चित्ते धनुर्भृतस्तस्य जनयंती दयोदयम् ॥१३॥
तदाक्रंदितमाकर्ण्य तस्याः स जगतीपतिः
हिमवत्सानुसंलग्नां निजदृष्टिं न्यवर्त्तयत् ॥१४॥
उपर्युपरि तां धेनुं स्रवदश्रुमुखीं नृपः
तीक्ष्णदंष्ट्रनखं सिंहं दृष्ट्वा स व्यथितोऽभवत् ॥१५॥
गृहीतां तेन सिंहेन तामालक्ष्य धनुर्द्धरः
निषंगाद्बाणमुद्धर्तुं प्राहिणोद्दक्षिणं भुजम् ॥१६॥
बाणमुद्धृत्य तूणीरान्निहंतुं तं मृगाधिपम्
गुणेनापूर्णमायोज्य चकर्ष वसुधाधिपः ॥१७॥
जडीभूतः समस्तांगस्तत्सिंहालोकनेन सः
नाशकद्बाणमुत्सृष्टुं राजासीद्विस्मितस्ततः ॥१८॥
तादृशं नृपमालक्ष्य जगाद स मृगाधिपः
नरवाचा भृशं भूयो विस्मयं प्रापयन्निदम् ॥१९॥
सिंह उवाच-
दिलीपं त्वामहं राजन्जानामि रविवंशजम्
त्वं च जानीहि मां शंभोर्गणं कुंभोदराभिधम् ॥२०॥
देवदारुरयं यस्ते वर्त्तते दृष्टगोचरे
पार्वत्यापुत्रवद्वीर पालितः स्निग्धचित्तया ॥२१॥
एकदामुष्यवन्येन गजेनाघर्षता कटम्
उदपाटि महाराज वल्कलं मृदुलं भृशम् ॥२२॥
एनं तादृशमालक्ष्य मृडानी करुणान्विता
मामत्र स्थापयामास सिंहं कृत्वास्य रक्षणे ॥२३॥
ममाह चेति सा देवी कुंभोदर निशम्यताम्
योऽत्र जंतुः समागच्छेत्तं खादेस्त्वं वसन्निह ॥२४॥
ततः प्रभृति राजेंद्र तदाज्ञां पालयन्नहम्
पालितां त्रिदशैः सर्वैः कंदरेऽत्र वसाम्यहम् ॥२५॥
जडीभावे स्वदेहस्य त्वया कार्यो न विस्मयः
महती शांभवी माया वर्त्ततेऽत्र हिमाचले ॥२६॥
अन्यस्मिन्निव सिंहे त्वं प्रहर्तुं न मयि क्षमः
यतो मत्पृष्ठमारुह्य वृषमारोहति प्रभुः ॥२७॥
निवर्त्तस्व निजं देहं रक्ष सर्वार्थसाधनम्
दैवेनासादिता वीर गौरियं भक्षणाय मे ॥२८॥
देवल उवाच-
इत्याकर्ण्य वचस्तस्य वीरसंबोधनान्वितम्
प्रत्युवाच दिलीपस्तं स जडीभूतविग्रहः ॥२९॥
राजोवाच-
सर्गस्थितिविसर्गाणां कारणं जगतः शिवम्
अंबिकां जगदंबां च नमामि मृगराज तौ ॥३०॥
त्वं च तत्सेवकत्वेन मान्यो मम मृगाधिप
ब्रवीमि यदहं वाक्यं श्रुत्वा शाधि करोमि किम् ॥३१॥
वसिष्ठो ब्रह्मणः पुत्रो गुरुर्नो विदितस्तव
तस्येयं नंदिनीनाम धेनुः सर्वार्थसाधिका ॥३२॥
संतानोत्पत्तये तेन दत्ताराधयितुं मम
येयमाराधिता सम्यक्दिनानि कतिचिन्मया ॥३३॥
लघुतर्णक मातेयं धृता ते गिरिकंदरे
शुंभुभृत्याद्बलात्त्वत्तोशक्तामोचयितुंमया ॥३४॥
अहं तस्य मुनेरग्रे गच्छाम्येनामृते कथम्
कामधेनोस्तु दौहित्री जगत्सेव्या यशस्विनी ॥३५॥
अनया सदृशी नान्या गौर्यया तोषयामि तम्
तस्माद्विमुच्य गामेनामग्र्यां कुरु निजाशनम् ॥३६॥
ददामि देहमात्मीयमपकीर्तिमलीमसम्
एवं न धर्महानिः स्यादृषेस्तव तु भोजनम्
गवार्थे त्यजतः प्राणान्ममापि गतिरुत्तमा ॥३७॥
देवल उवाच-
एवमाकर्ण्य सिंहेन कृते मौने विशांपते
तदग्रेऽवाङ्मुखो राजा न्यपतद्धर्मकोविदः ॥३८॥
तस्य प्रतीक्षमाणस्य सिंहपातं सुदुःसहम्
पपातोपरि पुष्पाणां वृष्टिर्मुक्ता सुरेश्वरैः ॥३९॥
पुत्रोत्तिष्ठेति वचनं श्रुत्वा राजा स उत्थितः
जननीमिव तां धेनुं ददर्श न मृगाधिपम् ॥४०॥
तं विस्मितमुवाचेदं नंदिनी नृपसत्तमम्
नंदिन्युवाच-
मायया सिंहरूपिण्या त्वं मयासि परीक्षितः ॥४१॥
मुनिप्रभावान्मां राजन्गृहीतुं न क्षमोंऽतकः
मनसापि कुतोऽन्येषां यद्ग्रहे शक्तिरंगिनाम् ॥४२॥
स्वशरीरस्य दानेन त्वं मां रक्षितुमुद्यतः
अतस्तेऽहं प्रसन्नास्मि वृणीष्व वरमीप्सितम् ॥४३॥
राजोवाच-
न गुप्तं देहिनामंतर्वर्तिवृत्तं भवादृशम्
अतो जननि जानासि वांच्छितं मम देहि तत् ॥४४॥
मगधेशसुतायां मे वंशकर्तारमात्मजम्
प्रयच्छ किंचित्स्वच्छानां नासाध्यं हि भवादृशाम् ॥४५॥
इत्युक्त्वांजलिमाधाय तत्पुरस्तस्थिवान्नृपः
तूष्णीं तदुत्तरापेक्षी तत्पुरोबद्धलोचनः ॥४६॥
देवल उवाच-
निशम्येति वचस्तस्य भूपतेरिदमब्रवीत्
नंदिनी पितृदेवर्षिनरभूतार्थसाधिका ॥४७॥
नन्दिन्युवाच-
पुत्र पत्रपुटे दुग्ध्वा पयो मम पिबेप्सितम्
आश्रमे गुरुणाज्ञप्तः पुनः पास्यसि शेषितम् ॥४८॥
भविता वंशकर्ता ते सुतः शस्त्रास्त्रतत्ववित्
देवल उवाच-
इत्युक्तः सौरभेय्या तामुवाच विनयेन सः ॥४९॥
दिलीप उवाच-
मातस्तवैव पास्यामि शेषं सर्वक्रियाविधेः
तृप्तोऽहं मातरासाद्य मिष्टं ते वचनामृतम् ॥५०॥
नान्यदिच्छामि सारंगः कादंबिन्या यथा जलम्
तव शुश्रूषणान्मातरभवं सकलोद्भवः ॥५१॥
समस्तजनपूज्याया विद्याया इव मूढधीः
तव मातामही दत्तः शापोऽप्यासीद्वरो मम ॥५२॥
तमृते पुत्रलाभो मे कुतस्तव च दर्शनम्
वरायैव तथाप्यंब समाराध्या भवादृशः
न हि कश्चिद्विषाकांक्षी महादेवात्त्रिवर्गदात् ॥५३॥
देवल उवाच-
श्रुत्वेति तद्वचः सा गौः प्रसन्ना साधुसाध्विति
आभाष्य हि महादर्पा ययौ तेन सहाश्रमम् ॥५४॥
पूर्वेद्युरिव तत्रापि पूजिता राजभार्यया
प्रसन्ना सा बभौ धेनुः कार्यसिद्धिरिवांगभाक् ॥५५॥
मुखं प्रसन्नमालक्ष्य मृगाक्षी सा क्षितीशितुः
अज्ञासीत्तं निजं कार्यं सिद्धं यत्नस्तु यत्कृते ॥५६॥
अथ तौ दंपती धेन्वा विधिवद्विहितार्चया
तया सह गुरोरग्रे कृतकृत्यस्य जग्मतुः ॥५७॥
निरीक्ष्य तौ मुनिवरः प्रसन्नमुखपंकजौ
अतींद्रियज्ञाननिधिः प्रोवाचेदं प्रहर्षयन् ॥५८॥
वसिष्ठ उवाच-
राजञ्जानामि गौरेषा प्रसन्ना वामभूत्किल
अपूर्वा युवयोरद्य मुखकांतिर्हि लक्ष्यते ॥५९॥
सुरभिः सुरशाखी च विश्रुतौ कामपूरिणौ
तदपत्यं समाराध्य सिद्धोऽथ स्यात्किमद्भुतम् ॥६०॥
यो ददाति निखिलं मनोरथं कीर्तितेयमनघापि दूरतः
श्रद्धया निकट एव सेविता किं पुनः सुरतरंगिणीव सा ॥६१॥
ज्ञानतो विदितमद्भुतं मया त्वत्कृतं यदनया परीक्षणम्
भूपते त्वमपि धर्ममात्मनो रक्षसि स्म च यथा च तत् ॥६२॥
त्वय्यसौ मम मनोऽनुकूलतां भावमात्मनि विबुध्यते तथा
तुष्यति स्म कमला यथा हरेः पार्वतीव गिरिशस्य सज्जते ॥६३॥
रात्रिरत्र सहाभार्ययानया धेनुपूजनपरेण नीयताम्
भूपभव्य भवता गमिष्यते श्वः समाप्तविधिना निजांपुरीम् ॥६४॥
देवल उवाच-
वैश्यैवं धेनुमाराध्य सभार्यः प्राप्तवांछितः
प्रातर्युक्तरथः प्राप्य गुरोराज्ञामगाद्गृहम् ॥६५॥
कतिचिद्वासरैस्तस्य दिलीपस्याभवद्रघुः
यस्य नाम्ना रघोर्वंशः पृथिव्यां विश्रुतोऽभवत् ॥६६॥
यः पठिष्यति भूपस्य दिलीपस्य कथामिमाम्
धनं धान्यं सुतं वैश्य लप्स्यते स पुमानिह ॥६७॥
शरभवरसुताप्तये स्वबुद्ध्या सममनया परितोषयाशु गौरीम्
त्वमपि कुलधुरं गुणान्वितं सा सुतमनघं खलु दास्यते च तुभ्यम् ॥६८॥
शिवशर्मोवाच-
मुनिरिति चरितं दिलीपराज्ञो ललिततरं शरभाय पुण्यमुक्त्वा
अभिमतगतमात्मनः प्रपेदे विधिमुपदिश्य च पूज जनेंबिकायाः ॥६९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये त्र्यधिकद्विशततमोऽध्यायः ॥२०३॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP