उत्तरखण्डः - अध्यायः १४१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच
ततो देवि प्रवक्ष्यामि हिरण्यासंगमादनु
धर्मावती नदी यत्र संगता सह गंगया ॥१॥
तत्र स्नात्वा नरो धन्यस्त्रिदिवं यात्यसंशयम्
यत्र धर्मकृतं तीर्थं यः पश्यति स पुण्यभाक् ॥२॥
श्राद्धं तत्रैव ये कुर्युर्मुच्यंते पितृजादृणात्
ततश्च मधुरातीर्थं सर्वपापप्रणाशनम् ॥३॥
स्नातव्यं मधुरातीर्थे द्रष्टव्यो मधुहा हरिः
यत्र विश्रांतवान्कृष्णो जरासंधभयाकुलः ॥४॥
कंसासुरवधे वृत्ते गंतुकामः कुशस्थलीम्
उषित्वा सप्तरात्रं तु स देवश्चंदनातटे ॥५॥
भोजवृष्ण्यंधकवृतो वीरैर्यादवपुंगवैः
मधुरातीर्थमासाद्य स्नानं कृत्वा विधानतः ॥६॥
मधुरादित्यनामानं यत्र स्थापितवान्हरिः
अष्टादशसहस्राणि विप्राणां यज्ञशालिनाम् ॥७॥
स्थापयित्वा ययौ दत्त्वा यानानि विविधानि च
तत्र तीर्थसहस्राणि तिष्ठंति च सुरेश्वरि ॥८॥
श्राद्धं तत्र प्रकर्तव्यं पितॄणां हितकाम्यया
न भेतव्यं जरासंधान्मत्तीर्थे वसतां सदा ॥९॥
इत्युक्त्वा तान्द्विजान्कृष्णः प्रययौ द्वारकां प्रति
तस्मिंस्तीर्थे नरः स्नात्वा मधुरार्कं प्रपूजयेत् ॥१०॥
माघस्य शुक्लसप्तम्यां कपिला गो प्रदानतः
चिरं सौख्यानि भुंक्त्वेह पदमादित्यमा व्रजेत् ॥११॥
शृणु सुन्दरि वक्ष्यामि इतिहासं पुरातनम्
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादि पातकात् ॥१२॥
एकस्मिन्समये देवि मांडव्यो ऋषिसत्तमः
गङ्गाद्वारे महापुण्यं तप्तवांस्तु महत्तपः ॥१३॥
पत्राशी च फलाशी च वायुभक्षकरः सदा
अहोरात्रं सदा देवि विष्णुध्यानपरायणः ॥१४॥
योगाभ्यासरतो नित्यं नित्यं धर्मपरायणः
तस्मिन्देशे तु वै देवि राजा वै विश्वमोहनः ॥१५॥
गजाश्वरथपत्तीनां संपदो बहुला भुवि
सोमचंद्रेति विख्यातः पुत्रस्तस्य सुलक्षणः ॥१६॥
एकदा तु तदा देवि गतो ह्याखेटके वने
तत्र गत्वा तदा तेन कृत्वा ह्याखेटकक्रियाः ॥१७॥
स्वात्मानं रमयामास स्वलोकैः परिवारितः
क्रीडारते तदा राज्ञि रात्रिर्जाता सुरेश्वरि ॥१८॥
तस्यां रात्रौ तदा राजा उवासाखेटके वने
तस्यां रात्र्यां व्यतीतायां मुहूर्ते ब्रह्मसंज्ञके ॥१९॥
हृतोऽश्वोऽथ विशेषेण चौरेणात्र दुरात्मना
तदा हाहेति शब्दोऽभूत्क्व गतः क्व गतो हरिः ॥२०॥
तदा राज्ञो भयात्सर्वे गंतुकामाः समुत्सुकाः
चौरेणापहृतश्चाश्व इत्येवं संवदंति हि ॥२१॥
निरीक्ष्यमाणास्ते सर्वे हरिद्वारं समागताः
ऋषिस्तत्र तु मांडव्यस्तपस्तपति नित्यशः ॥२२॥
ध्यानेन च समायुक्तो दृष्टोऽसौ तैर्भटैस्तदा
अयं चौरः सदा पापी ध्यानं कृत्वा प्रतिष्ठति ॥२३॥
बद्ध्वाश्वं तु समायातो ज्ञात्वा राजभटैस्तदा
एवं विचार्य ते सर्वे गृहीत्वा तं महामुनिम् ॥२४॥
राज्ञे निवेदयामासुस्तं चौरं मुनिसत्तमम्
अश्वापहारी ह्यानीतश्चौरोऽयं नृप सर्वदा ॥२५॥
आज्ञा दत्ता तदा तेन शूलिकारोपणे पुनः
तदा तैस्तुभटैः सर्वैर्मिलित्वा बंधनं कृतम् ॥२६॥
पश्चाद्वै शूलिकाप्रोतस्तत्क्षणात्तु कृतस्तदा
न ज्ञातं तेन तत्कर्म शूलिकायाः प्रतोदनम् ॥२७॥
यतो योगसमारूढो विष्णुध्यानपरायणः
शूलिकाप्रोतनं ज्ञातं कतिचित्कालयोगतः ॥२८॥
मांडव्योऽहंमृषिश्रेष्ठः केन कर्म इदं कृतम्
त्रिकालज्ञानी सर्वज्ञो भगवांस्तद्व्यचिंतयत् ॥२९॥
धर्मस्य च इदं कर्म न चान्यस्य कदाचन
योगारूढः स धर्मात्मा गतोऽसौ धर्मसंनिधौ ॥३०॥
तत्र गत्वा उवाचेदं शृणु त्वं धर्म सांप्रतम्
त्वं वै धर्म इति ख्यातो लोके वेदे च सर्वदा ॥३१॥
शूलिकाप्रोतनं कर्म कथं चैव त्वया कृतम्
तत्सर्वं श्रोतुमिच्छामि त्वत्तो देव न संशयः ॥३२॥
धर्म उवाच
शृणुष्व त्वं द्विजश्रेष्ठ पूर्वजन्मनि पातकम्
तदहं कथयिष्यामि कृपां कुरु ममोपरि ॥३३॥
बालत्वे तु इदं कर्म पूर्वजन्मजपातकम्
तच्छृणुष्व महाप्राज्ञ भवेऽस्मिन्पातनं कृतम् ॥३४॥
एकस्मिन्समये विप्र त्वं गतो विजने वने
तत्र गत्वा त्वया विप्र जीवः शलभसंज्ञकः ॥३५॥
आरोऽपितः स वै शूल्यां कर्मणा तेन दुःखितः
राज्ञा शूलेऽर्पितस्त्वं वै कर्मणानेन सुव्रत ॥३६॥
सर्वथैव प्रभोक्तव्यं कृतं कर्म शुभाशुभम्
अल्पमात्रमिदं कर्म त्वया भुक्तं न संशयः ॥३७॥
सुखी भवतु विप्रेंद्र गच्छ त्वं हि यथेच्छया
एतद्वाक्यं ततः श्रुत्वा मांडव्यो द्विजसत्तमः ॥३८॥
उवाच वचनं तत्र सकोपादारुणेक्षणः
मांडव्य उवाच
रे पापिष्ठ दुराचार किं कृतं बहुपातकम् ॥३९॥
येन कृत्वा इदं कर्म शूलिकायाः प्रतोदनम्
ममवाक्यप्रकोपेन शूद्रस्त्वं भव सर्वथा ॥४०॥
कियता कालयोगेन वंशे वै चंद्रसंज्ञके
जातो विदुरनामाख्यो विष्णुभक्तिपरायणः ॥४१॥
तीर्थयात्रामिषेणैव गतः साभ्रमतीं नदीम्
यत्र धर्मावती संगो वर्त्तते च सुरेश्वरि ॥४२॥
तत्र वै कृतवान्स्नानं विदुरो धर्मरूपवान्
त्यक्तं तत्र हि शूद्रत्वं धर्मावत्यां न संशयः ॥४३॥
एतस्मात्कारणाद्देवि यत्र स्नानं प्रकुर्वते
ते नराः पुण्यकर्माणो गच्छंति परमं पदम् ॥४४॥
अत्र श्राद्धं च दानं च ये कुर्वंति नरा भुवि
इहलोके परामृद्धिं प्राप्य तैर्दिविमुद्यते ॥४५
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे
साभ्रमतीमाहात्म्ये मधुरादित्यमाहात्म्यंनामैकचत्वारिंशदधिक शततमोऽध्यायः ॥१४१॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP