उत्तरखण्डः - अध्यायः १५७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच
दुग्धेश्वरसमीपे तु तीर्थं चातीवपावनम्
रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि ॥१॥
यत्र कृत्वा तपः पूर्वं मातुर्वचनतो मुनिः
उत्पादयामास कृत्यां वडवानलसम्मिताम् ॥२॥
पितुरानृण्यमन्विच्छन्दधीचस्य महात्मनः
तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति ॥३॥
साभ्रमत्यास्तटे गुप्तं पिप्पलादं सुरेश्वरम्
तत्र स्नात्वा तु भो देवि मुक्तिभागी भवेन्नरः ॥४॥
आरोपणं पिप्पलानां कर्त्तव्यं विधिपूर्वकम्
कृते सति महादेवि मुच्यते कर्मबंधनात् ॥५॥
पार्वत्युउवाच
किमर्थं सा तु कृत्या वै उत्पन्ना तां निबोधय
तया वै कृत्यया पूर्वं किं कृतं वद मे प्रभो ॥६॥
येन पुत्रेण सा नीता पितुरानृण्यकारणात् ॥७॥
महादेव उवाच
दाधीचो ऋषिवर्योऽसौ ह्यागतस्तपकारणात्
अत्र तेन महत्तप्तमृषिणा परमात्मना ॥८॥
तत्र कोलासुरो नाम विघ्नार्थं वै समागतः
तेन विघ्नं बहुतरं कृतं वै नात्र संशयः ॥९॥
तद्दृष्टं तु सुपुत्रेण कहोडेन च धीमता
कृत्या ह्युत्पादिता तत्र हननार्थं सुरेश्वरि ॥१०॥
तया वै निहतो दैत्यः कोलो नाम महासुरः
तस्मात्तीर्थं महज्जातं कलौ गुप्तं तु पार्वति ॥११॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे
पिप्पलादतीर्थं नाम सप्तपंचाशदधिकशततमोऽध्यायः ॥१५७॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP