उत्तरखण्डः - अध्यायः ४१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिर उवाच-
कथिता वै त्वया कृष्ण सफलैकादशी शुभा
कथयस्व प्रसादेन शुक्लपक्षस्य या भवेत् ॥१॥
किन्नाम को विधिस्तस्याः को देवस्तत्र पूज्यते
कस्मै तुष्टो हृषीकेशस्त्वमेव पुरुषोत्तमः ॥२॥
श्रीकृष्ण उवाच-
शृणु राजन्प्रवक्ष्यामि शुक्ला पौषस्य या भवेत्
कथयामि महाराज लोकानां हितकाम्यया ॥३॥
पूर्वेण विधिना राजन्कर्त्तव्यैषा प्रयत्नतः
पुत्रदा नाम नाम्ना सा सर्वपापहरा परा ॥४॥
नारायणोऽधिदेवोऽस्या कामदः सिद्धिदायकः
नातः परतरा काचित्त्रैलोक्ये सचराचरे ॥५॥
विद्यावंतं यशस्वंतं करोति च नरं हरिः
शृणु राजन्प्रवक्ष्यामि कथां पापहरां पराम् ॥६॥
भद्रावत्यां पुरा ह्यासीत्पुर्यां राजा सुकेतुमान्
तस्य राज्ञस्तथाराज्ञी चंपका नाम वर्त्तते ॥७॥
पुत्रहीनेन राज्ञा च काले नीतो मनोरथैः
नैवात्मजं नृपो लेभे वंशकर्त्तारमेव च ॥८॥
तेनैव राज्ञा धर्मेण चिंतितं बहुकालतः
किं करोमि क्व गच्छामि सुतप्राप्तिः कथं भवेत् ॥९॥
न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान्
साध्व्य स्वकांतया सार्द्धं प्रत्यहं दुःखितोऽभवत् ॥१०॥
तावुभौ दंपती नित्यं चिंताशोकपरायणौ
पितरोऽस्य जलं दत्तं कवोष्णमुपभुंजते ॥११॥
राज्ञः पश्चान्न पश्यामो योऽस्मान्संतर्पयिष्यति
इत्येवं संस्मरंतोऽस्य दुःखिताः पितरोऽभवन् ॥१२॥
न बांधवा न मित्राणि नामात्याः सुहृदस्तथा
रोचयंत्यस्य भूपस्य न गजाश्वाः पदातयः ॥१३॥
नैराश्यं भूपतेस्तस्य नित्यं मनसि वर्त्तते
नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम् ॥१४॥
अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा
पितृदेवमनुष्याणां नानृणत्वं सुतं विना ॥१५॥
तस्मात्सर्वप्रयत्नेन सुतमुत्पादयेन्नरः
इह लोके यशस्तेषां परलोके शुभा गतिः ॥१६॥
येषां तु पुण्यकर्तॄणां पुत्रजन्मगृहे भवेत्
आयुरारोग्यसंपत्तिस्तेषां गेहे प्रवर्तते ॥१७॥
पुत्रजन्म गृहे येषां लोकानां पुण्यकारिणाम्
पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना नृप ॥१८॥
पुत्राश्च संपदो वापि निश्चयादिति मे मतिः
एवं विचिंत्यमानोऽसौ न शर्म लभते नृपः ॥१९॥
प्रत्यूषे चिंतयद्राजा निशीथे चिंतयत्ततः
स्वयमात्मविनाशं च चिंतयामास केतुमान् ॥२०॥
आत्मघाते दुर्गतिं च चिंतयित्वा तदा नृपः
दृष्ट्वात्मदेहं पतितमपुत्रत्वं तथैव च ॥२१॥
पुनर्विचार्यात्मबुद्ध्या आत्मनो हितकारणम्
अश्वारूढस्ततो राजा जगाम गहनं वनम् ॥२२॥
पुरोहितादयः सर्वे न जानंति गतं नृपम्
गंभीरे विपिने राजा मृगपक्षिनिषेविते ॥२३॥
विचचार तदा राजा वनवृक्षान्विलोकयन्
वटानश्वत्थबिल्वांश्च खर्जूरान्पनसांस्तथा ॥२४॥
बकुलान्सप्तपर्णांश्च तिंदुकांस्तिलकानपि
शालांस्तालांस्तमालांश्च ददर्श सरलान्नृपः ॥२५॥
इंगुदी ककुभांश्चैव श्लेष्मातकनगांस्तथा
शल्लकान्करमर्दांश्च पाटलान्बदरानपि ॥२६॥
अशोकांश्च पलाशांश्च शृगालाञ्शशकानपि
वनमार्जारमहिषान्शल्लकांश्चमरानपि ॥२७॥
ददर्श भुजगान्राजा वल्मीकादर्द्धनिःसृतान्
तथा वनगजान् मत्तान् कलभैः सह संगतान् ॥२८॥
यूथपांश्च चतुर्दंतान्करिणीयूथमध्यगान्
तान्दृष्ट्वा चिंतयामास आत्मनः स गजान्नृपः ॥२९॥
तेषां स विचरन्मध्ये राजा शोभामवाप ह
महदाश्चर्यसंयुक्तं ददृशे विपिनं नृपः ॥३०॥
मार्गे शिवारुतान्शृण्वन्नुलूकविरुतं तथा
तांस्तानृक्षमृगान्पश्यन्बभ्राम वनमध्यतः ॥३१॥
एवं ददर्श गहनं नृपो मध्यगते रवौ
क्षुत्तृड्भ्यां पीडितो राजा इतश्चेतश्च धावति ॥३२॥
नृपतिश्चिंतयामास संशुष्कगलकंधरः
मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम् ॥३३॥
मया वै तोषिता देवा यज्ञैः पूजाभिरेव च
तथैव ब्राह्मणा दानैस्तोषिता मिष्टभोजनैः ॥३४॥
प्रजाश्चैव सदा कालं पुत्रवत्पालिता भृशम्
कस्माद्दुःखं मया प्राप्तमीदृशं दारुणं महत् ॥३५॥
इति चिंतापरो राजा जगामैवाग्रतो वनम्
सुकृतस्य प्रभावेन सरो दृष्टमनुत्तमम् ॥३६॥
मीनसंस्पर्शमानं च पद्मैश्चापरशोभितम्
कारंडैश्चक्रवाकैश्च राजहंसैश्च शोभितम् ॥३७॥
मकरैर्बहुभिर्मत्स्यैरन्यैर्जलचरैर्युतम्
समीपे सरसस्तस्य मुनीनामाश्रमान्बहून् ॥३८॥
ददर्श राजा लक्ष्मीवान्शकुनैः शुभशंसिभिः
दक्षिणं प्रास्फुरन्नेत्रमथ सव्येतरः करः ॥३९॥
प्रास्फुरन्नृपतेस्तस्य कथयञ्शोभनं फलम्
तस्य तीरे मुनीन्दृष्ट्वा कुर्वाणन्नैगमं जपम् ॥४०॥
हर्षेण महताविष्टो बभूव नृपनंदनः
अवतीर्य हयात्तस्मान्मुनीनामग्रतः स्थितः ॥४१॥
पृथक्पृथग्ववंदेऽसौ मुनींस्तान्शंसितव्रतान्
कृतांजलिपुटो भूत्वा दंडवच्च पुनः पुनः ॥४२॥
प्रत्यूचुस्तेऽपि मुनयः प्रसन्ना नृपते वयम्
राजोवाच-
के भवंतोऽत्र कथ्यंतां का चाख्या भवतामपि
किमर्थं संगता यूयं सत्यं वदत मेऽग्रतः ॥४३॥
मुनय ऊचुः-
विश्वेदेवा वयं राजन्स्नानार्थमिह चागताः
माघो निकटमायात एतस्मात्पंचमेऽहनि ॥४४॥
अद्य चैकादशी राजन्पुत्रदा नाम नामतः
पुत्रं ददात्यसौ विष्णुः पुत्रदा कारिणां नृणाम् ॥४५॥
राजोवाच-
एष वै संशयो मह्यं पुत्रस्योत्पादने महान्
यदि तुष्टा भवंतो वै पुत्रं मे दीयतां तदा ॥४६॥
मुनिरुवाच-
अद्यैव दिवसे राजन्पुत्रदा नाम वर्तते
एकादशीति विख्यातं क्रियतां व्रतमुत्तमम् ॥४७॥
अभिषेकात्ततोऽस्माकं केशवस्य प्रसादतः
अवश्यं तव राजेंद्र पुत्रप्राप्तिर्भविष्यति ॥४८॥
इत्येवं वचनात्तेषां कृतं राज्ञा व्रतोत्तमम्
मुनीनामुपदेशेन पुत्रदा या विधानतः ॥४९॥
द्वादश्यां पारणं कृत्वा मुनीन्नत्वा पुनः पुनः
आजगाम गृहं राजा राज्ञी गर्भमथादधौ ॥५०॥
पुत्रो जातः सूतिकाले तेजस्वी पुण्यकर्मणा
पितरं तोषयामास प्रजापालो बभूव सः ॥५१॥
तस्माद्राजन्प्रकर्त्तव्यं पुत्रदा व्रतमुत्तमम्
लोकानां तु हितार्थाय तवाग्रे कथितं मया ॥५२॥
एकचित्तास्तु ये मर्त्याः कुर्वंति पुत्रदा व्रतम्
पुत्रान्प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः
पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ॥५३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे पौषशुक्लपुत्रदैकादशीनाम एकचत्वारिंशोऽध्यायः ॥४१॥
N/A
References : N/A
Last Updated : November 18, 2020
TOP