संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ६०

उत्तरखण्डः - अध्यायः ६०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
कथयस्व प्रसादेन मयि स्नेहाज्जनार्दन
कार्त्तिकस्यासिते पक्षे किंनामैकादशी भवेत् ॥१॥
श्रीकृष्ण उवाच-
श्रूयतां राजशार्दूल कथयामि तवाग्रतः
कार्त्तिके कृष्णपक्षे तु रमा नाम सुशोभना ॥२॥
एकादशी समाख्याता महापापहरा परा
अस्याः प्रसंगतो राजन्माहात्म्यं प्रवदामि ते ॥३॥
मुचुकुंद इति ख्यातो बभूव नृपतिः पुरा
देवेंद्रेण समं तस्य मित्रत्वमभवन्नृप ॥४॥
यमेन वरुणेनैव कुबेरेणापि सर्वथा
विभीषणेन यस्यैव सखित्वमभवन्नृप ॥५॥
विष्णुभक्तः सत्यसंधो बभूव नृपतिः परः
तस्यैवं शासतो राजन्राज्यं निहतकंटकम् ॥६॥
बभूव दुहिता गेहे चंद्रभागा सरिद्वरा
शोभनाय च सा दत्ता चंद्रसेनसुताय वै ॥७॥
स कदाचित्समायातः श्वशुरस्य गृहे नृप
एकादशीव्रतदिनं समायातं सुपुण्यदम् ॥८॥
समागते व्रतदिने चंद्रभागा त्वचिंतयत्
किं भविष्यति देवेश मम भर्त्तातिदुर्बलः ॥९॥
क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः
पटहस्ताड्यते यस्य संप्राप्ते दशमीदिने ॥१०॥
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने
श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्प्रियाम् ॥११॥
किं कर्त्तव्यं मया कांते देहि शिक्षां वरानने
चंद्रभागोवाच -
मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित् ॥१२॥
गजैरश्वैश्च कलभैरन्यैः पशुभिरेव च
तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने ॥१३॥
मानवैश्च कुतः कांत भुज्यते हरिवासरे
यदि त्वं भोक्ष्यसे कांत ततो गर्हां प्रयास्यसि ॥१४॥
एवं विचार्य मनसा सुदृढं मानसं कुरु
शोभन उवाच-
सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणम् ॥१५॥
दैवेन विहितं यद्धि तत्तथैव भविष्यति
इति दृढां मतिं कृत्वा चकार नियमं व्रते ॥१६॥
क्षुधया पीडिततनुः स बभूवातिदुःखितः
इति चिंतयतस्तस्य आदित्योऽस्तमगाद्गिरिम् ॥१७॥
वैष्णवानां नराणां सा निशा हर्षविवर्द्धनी
हरिपूजारतानां च जागरासक्तचेतसाम् ॥१८॥
बभूव नृपशार्दूल शोभनस्यातिदुःखदा
रवेरुदयवेलायां शोभनः पंचतां गतः ॥१९॥
दाहयामास राजा तं राजयोग्यैश्च दारुभिः
चंद्रभागा नात्मदेहं ददाह पतिना सह ॥२०॥
कृत्वौर्द्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि
शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः ॥२१॥
प्राप्तो देवपुरं रम्यं मंदराचलसानुनि
अनुत्तममनाधृष्यमसंख्येयगुणान्वितम् ॥२२॥
हेमस्तंभमयैसौधै रत्नवैडूर्यमंडितैः
स्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः ॥२३॥
सिंहासनसमारूढः सुश्वेतच्छत्रचामरः
किरीटकुंडलयुतो हारकेयूरभूषितः
स्तूयमानश्च गंधर्वैरप्सरोगणसेवितः ॥२४॥
शोभनः शोभते यत्र राजराजोपरो यथा
सोमशर्मेति विख्यातो मुचुकुंदपुरेऽभवत् ॥२५॥
तीर्थयात्राप्रसंगेन भ्रमन्विप्रो ददर्श तम्
नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः ॥२६॥
शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम्
आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम् ॥२७॥
चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च
कांतायाश्चंद्रभागायास्तथैव नगरस्य च ॥२८॥
सोमशर्मोवाच-
कुशलं वर्त्तते राजन्श्वशुरस्य गृहे तव
चंद्रभागा कुशलिनी सर्वतः कुशलं पुरे ॥२९॥
स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतम्
पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित् ॥३०॥
एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया
शोभन उवाच-
कार्तिकस्यासिते पक्षे या नामैकादशी रमा ॥३१॥
तामुपोष्य मया प्राप्तं द्विजेंद्र पुरमध्रुवम्
ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः ॥३२॥
द्विज उवाच-
कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम्
तत्त्वं कथय राजेंद्र तत्करिष्यामि नान्यथा ॥३३॥
शोभन उवाच-
मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम्
तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु ॥३४॥
मुचुकुंदस्य दुहिता चंद्रभागा सुशोभना
तस्यै कथय वृत्तांतं ध्रुवमेतद्भविष्यति ॥३५॥
कृष्ण उवाच-
स श्रुत्वा वचनं तस्य मुचुकुंदपुरं गतः
उवाच सर्वं वृत्तांत्तं चंद्रभागाग्रतो द्विजः ॥३६॥
सोमशर्मोवाच -
प्रत्यक्षं दयितः कांतस्तव दृष्टो मया शुभे
इंद्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया
अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु ॥३७॥
चंद्रभागोवाच-
तत्र मां नय विप्रर्षे पतिदर्शनलालसाम्
आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् ॥३८॥
आवयोर्द्विजसंयोगो यथा भवति तत्कुरु
प्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः ॥३९॥
इति श्रुत्वा सह तया सोमशर्मा जगाम ह
आश्रमं वामदेवस्य मंदराचलसंनिधौ ॥४०॥
वामदेवोऽशृणोत्सर्वं वृत्तांतं कथितं तयोः
अभ्यषिञ्चच्चन्द्रभागां वेदमंत्रैरथोज्ज्वलाम् ॥४१॥
ऋषिमंत्रप्रभावेन विष्णुवासरसेवनात्
दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह ॥४२॥
पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना
जहर्ष शोभनोऽतीव दृष्ट्वा कांतां समागताम् ॥४३॥
समाहूय स्वके वामे पार्श्वेतां संन्यवेशयत्
अथोवाच प्रियं हर्षाच्चंद्रभागा प्रियं वचः ॥४४॥
शृणु कांत हितं वाक्यं यत्पुण्यं विद्यते मयि
अष्टवर्षाधिका जाता यदाहं पितृवेश्मनि ॥४५॥
ततः प्रभृति यच्चीर्णं मया चैकादशीव्रतम्
यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा
तेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवम् ॥४६॥
सर्वकामसमृद्धं च यावदाभूतसंप्लवम्
एवं सा नृपशार्दूल रमते पतिना सह ॥४७॥
दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता
शोभनोऽपि तया सार्द्धं रमते दिव्यविग्रहः ॥४८॥
रमाव्रतप्रभावेन मंदराचलसानुनि
चिंतामणिसमा ह्येषा कामधेनुसमाथ वा ॥४९॥
रमाभिधाना नृपते तवाग्रे कथिता मया
तस्या माहात्म्यमनघ श्रुतं सर्वं त्वया नृप ॥५०॥
मया तवाग्रे कथितं माहात्म्यं पापनाशनम्
एकादशीव्रतानां च पक्षयोरुभयोरपि ॥५१॥
यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत्
सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी ॥५२॥
धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयः
तथैव तुल्यफलदं स्मृतमेकादशीद्वयम् ॥५३॥
एकादशीव्रतानां यो माहात्म्यं शृणुते नरः
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥५४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे कार्तिक कृष्णा रमैकादशीनाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : November 19, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP