संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १०४

उत्तरखण्डः - अध्यायः १०४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
ततो जलंधरो दृष्ट्वा रुद्रमद्भुतविक्रमम्
चकार मायया गौरीं त्र्यबकं मोहयंस्तदा ॥१॥
रथोपरिगतां दृष्ट्वा रुदंतीं च तदा शिवः
शुंभनिशुंभदैत्यैश्च वध्यमानां ददर्श सः ॥२॥
गौरीं तथाविधां दृष्ट्वा शिवोऽप्युद्विग्नमानसः
अवाङ्मुखः स्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम् ॥३॥
ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः
आपुंखमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ॥४॥
ततो जज्ञे स तां मायां विष्णुना संप्रबोधितः
रौद्ररूपधरो जातो ज्वालामालातिभीषणः ॥५॥
तस्यातीवमहारौद्रं रूपं दृष्ट्वा महासुराः
न शेकुः प्रमुखे स्थातुं भेजिरे च दिशो दश ॥६॥
ततः शापं ददौ देवस्तयोः शुंभनिशुंभयोः
मम युद्धादपक्रांतौ गौर्यावध्यौ भविष्यथः ॥७॥
पुनर्जलंधरो वेगाद्ववर्ष निशितैः शरैः
बांणांधकारसंच्छन्नं यथा भूमितलं महत् ॥८॥
यावद्रुद्रः प्रचिच्छेद तस्यबाणांस्त्वरान्वितः
तावत्स परिघेणाशु जघान वृषभं बली ॥९॥
वृषस्तेन प्रहारेण परावृत्तो रणांगणात्
रुद्रेणाकृष्यमाणोऽपि न तस्थौ रणभूमिषु ॥१०॥
ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्द्धरः
चक्रं सुदर्शनं वेगाच्चिक्षेपादित्यवर्चसम् ॥११॥
प्रदहद्रोदसी वेगात्तदासाद्य जलंधरम्
जहार तच्छिरः कायान्महदायतलोचनम् ॥१२॥
रथात्कायः पपातोर्व्यां नादयन्वसुधातलम्
तेजश्च निर्गतं देहात्तद्रुद्रे लयमागमत् ॥१३॥
दृष्ट्वा देहोद्भवं तेजस्तद्गौरीशे लयं गतम्
अथ चेंद्रादयो देवा हर्षादुत्फुल्ललोचनाः ॥१४॥
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम्
देवा ऊचुः
महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात् ॥१५॥
किंचिदन्यत्समुद्भूतं तत्र किं करवामहै
वृंदालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः ॥१६॥
ईश्वर उवाच
गच्छध्वं शरणं देवा विष्णोर्मोहापनुत्तये
शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति ॥१७॥
नारद उवाच
इत्युक्त्वांतर्दधे देवः सहभूतगणैस्तथा
देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् ॥१८॥
देवा ऊचुः
यदुद्भवाः सत्वरजस्तमोगुणाः सर्गस्थितिध्वंसनिदानकारणम्
यदिच्छया विश्वमिदं भवाभवौ तनोति शुद्धां प्रकृतिं नताः स्म ताम् ॥१९॥
ये हि त्रयोविंशतिभेदिसंज्ञिता जगत्यशेषे समधिष्ठिता पुरा
यद्रूपकर्माणि जडास्त्रयोऽपि ते देवा विदुर्न प्रकृतिं नताः स्म ताम् ॥२०॥
यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यव्यामोहपराभवादिकम्
न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव विष्णोः प्रकृतिं नताः स्म ताम् ॥२१॥
नारद उवाच
स्तोत्रमेतत्त्रिसंध्यं यः पठेदेकाग्रमानसः
दारिद्र मोहदुःखानि न कदाचित्स्पृशंति तम् ॥२२॥
इति स्तुवंतस्ते देवास्तेजोमंडलमास्थिताम्
ददृशुर्गगने तत्र ज्वालाव्याप्तदिगंतराम् ॥२३॥
तन्मध्याद्भारतीं सर्वे ददृशुर्व्योमचारिणीम्
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ॥२४॥
गौरीलक्ष्मीस्वरा चेति रजःसत्त्वतमोगुणैः
तत्र गच्छत तं कार्यं विधास्यंति च वः सुराः ॥२५॥
नारद उवाच-
शृण्वतामिति देवानामंतर्द्धानमगान्महः
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा नृप ॥२६॥
ततः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः
गौरीं लक्ष्मीं स्वरां चैव प्रणेमुर्भक्तितत्पराः ॥२७॥
ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः
बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप ॥२८॥
देव्य ऊचुः
इमानि क्षेत्रबीजानि विष्णुर्यत्रावतिष्ठति
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ॥२९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरवधोनाम चतुरधिकशततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP