उत्तरखण्डः - अध्यायः २०७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सौभरिरुवाच-
धर्मात्मज निशम्यैतद्वचस्तस्य महात्मनः
नारदस्य शिबी राजा प्रोवाचेदं विनीतवत् ॥१॥
शिबिरुवाच-
तिष्ठंत्यो मरुमार्गे ता राक्षस्यो मुनिपुंगव
एतस्या द्वारिकायास्तु लेभिरे सलिलं कुतः ॥२॥
नारद उवाच-
शृणु राजन्कथां दिव्यां पूतां पापप्रणाशिनीम्
विमलाख्यस्य विप्रस्य हिमवद्द्रोणिवासिनः ॥३॥
एकस्तु हिमवद्द्रोण्यां विमलो नाम भूसुरः
देवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः ॥४॥
हरिपादार्चनरतो वेदवेदांगधर्मवित्
वासुदेवगुणग्राम पुराणश्रुतिमानसः ॥५॥
वार्द्धके तस्य पुत्रोऽभूत्प्रसादाच्चक्रपाणिनः
चकार हरिदत्तेति नाम्ना तं जनकस्तदा ॥६॥
विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत्
गुरोः सकाशाज्जग्राह छंदांसि हरिदत्तकः ॥७॥
अधीत्य विधिवद्वेदान्दत्त्वा च गुरुदक्षिणाम्
प्रवव्राज विरक्तः सन्समूलं चाश्रमद्वयम् ॥८॥
ज्ञात्वा तत्कर्मतन्माता व्यलपत्पुत्रवत्सला
स्नापयंती कुचद्वंद्वं पुत्रविश्लेषजाश्रुभिः ॥९॥
मातोवाच-
मामनाथां परित्यज्य तात यातोऽसि कुत्र वै
पितरं च जराग्रस्तं षट्पदो बल्वजाविव ॥१०॥
वार्द्धके त्वं मया प्राप्तः श्रीपतेः पादसेवया
मां विहायाभजस्त्वं वै चरणं तस्य मुक्तये ॥११॥
अहं मूढा ध्रुवं तात ध्रुवमाराध्य यद्धरिम्
अध्रुवं वांछितवती भवन्तं तु सुखलब्धये ॥१२॥
त्वं सुधीर्वत्स सर्वार्थं यद्विष्णुं भजसे स्वयम्
अध्रुवं जगदेतद्वै मत्वासीस्त्वमपि ध्रुवम् ॥१३॥
किं करोमि क्व गच्छामि माया ज्ञानं छिनत्ति मे
सुफलोत्पादकं शास्त्री रंभामूलमिवोल्बणा ॥१४॥
धन्यो दशरथो राजा यो मृतो रामशोकतः
धिङ्मां पुत्रस्य विश्लेषाद्धारयंती स्वजीवितम् ॥१५॥
आगच्छ दर्शंन देहि तात मां परितारय
वद वेदमयीं वाणीं पितुरग्रे गुणार्णव ॥१६॥
नारद उवाच-
एवं विलप्य तन्माता राजन्सा पतिता भुवि
दलनाद्राहुदत्तानां लेखा चांद्रमसी यथा ॥१७॥
अथाजगाम विप्रर्षिर्विमलो नृपसत्तमः
दृष्ट्वा तां पतितां भूमौ किंकिमित्यभ्यभाषत ॥१८॥
कस्मादियं कीर्णकेशव्यस्तवस्त्रविभूषणा
पतिता भुवि कल्याणं हरिदत्तस्य विद्यते ॥१९॥
तस्यावयस्यास्ताः सर्वाः प्रोचुस्तं विमलं नृप
वयस्या ऊचुः -
अधीत्य वेदांस्ते पुत्रो दत्त्वा च गुरुदक्षिणाम् ॥२०॥
नारायणपरो भूत्वा प्राव्रजद्धरिदत्तकः
तस्य विश्लेषशोकेन पतितेयं धरातले ॥२१॥
नारद उवाच-
इत्याकर्ण्य वचस्तासां विमलो बुद्धिमत्तरः
प्राबोधयन्निजां भार्यामिति वागमृतेन सः ॥२२॥
विमल उवाच-
उत्तिष्ठ जाये शृणु वाक्यमीरितं मया किमर्थं पतिता विषीदसि
धन्यः सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् ॥२३॥
धन्या त्वमप्यस्य जनि प्रदायिनी यस्याः सुतस्ते हरिपादभागभूत्
संतारयिष्यत्यपि मामसंशयं कुलं कुलोत्थानपि पूरुषान्शुभे ॥२४॥
क्व विश्वमेकतच्च पतच्चलं क्व सेवनं शाश्वतलोकदं हरेः
मत्वेति भेजुर्भरतादयो नृपा यथा हरिं साध्वि तथैव ते सुतः ॥२५॥
दारा धनागार शरीरबांधवा एते भवंति प्रतिजन्मदुःखदाः
तावन्नयावद्धरिपादपल्लवं भजेत धीरोऽखिलकामवर्जितः ॥२६॥
नारद उवाच-
एवं प्रबोधिता तेन धीरेण धरणीतलात्
उत्थाय निजभर्तारमब्रवीद्दीनया गिरा ॥२७॥
भार्योवाच
सर्वं जानाम्यहं कांत यत्त्वया साधुभाषितम्
कुलधुर्यं न पश्यामि यतस्तप्यामि वै भृशम् ॥२८॥
पुत्रे सति महत्तीर्थे किं वा केशवसेवया
गृह एवावयोर्मृत्युश्चेत्स्याल्लोकद्वयं तदा ॥२९॥
सत्पुत्रोत्पादने यत्नः कर्त्तव्यः खलु मानवैः
तारयंति पितॄन्पुत्रा यतः संसारवारिधैः ॥३०॥
स्रष्टारं सर्वजंतूनां धातारं पुत्रकाम्यया
भज वांछसि चेत्पुत्रं कुलधुर्यं महामते ॥३१॥
नारद उवाच-
इत्याकर्ण्यवचस्तस्याः प्रत्याह विमलो द्विजः
ब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया ॥३२॥
इत्युक्त्वा चलितः सोऽथ हरिद्वारमगाद्द्विजः
स्नात्वा तत्रापि विधिवदिंद्रप्रस्थमथागमत् ॥३३॥
कतिभिर्वासरैर्वीर सायंकालेऽखिलार्थिदम्
स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातटे ॥३४॥
निशीथे स्वपतस्तस्य विमलस्यांतिके विधिः
हंसमारुह्य देवेशस्तीर्थैः सर्वैरनुद्रुतः ॥३५॥
आगत्योत्थापयामास विमलं पुत्रवांच्छकम्
उवाच च सुरश्रेष्ठो वचनं मधुराक्षरम् ॥३६॥
ब्रह्मोवाच-
जाने समीतिं चित्तं त्वदीये मनसि स्थितम्
न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु ॥३७॥
एकदा मेरुशिखरे मिलिताः सर्वदेवताः
तुष्टुवुर्मद्भवमुखा माधवं कार्यसिद्धये ॥३८॥
स्तुतो स्मदादिविबुधैः कृपया भगवान्हरिः
प्रसन्नोभूत्तदा विष्णुर्वृणुध्वमिति चाब्रवीत् ॥३९॥
इत्युक्तास्तेन ते देवा यथाभिलषितं वरम्
श्रीपतेः प्राप्य ते जग्मुः सर्वे स्वं स्वं निकेतनम् ॥४०॥
मयोक्तमिति देवेश देहि मे वरमुत्तमम्
प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदम् ॥४१॥
ततः शतगुणं भूयाद्दिवतीयं क्षेत्रकं मम
इंद्रप्रस्थगतं सम्यग्वृत्तं त्वत्तो मयानघ ॥४२॥
इत्याकर्ण्य वचो मह्यं भगवानाह मां तदा
तथास्त्विति पुनर्वाचमुवाच श्रूयतां वचः ॥४३॥
श्रीभगवानुवाच
इंद्रस्य खांडवारण्ये इंद्रप्रस्थाभिधं शुभम्
क्षेत्रं कलिंदजातीरे मत्तुल्यास्तत्र ये मृताः ॥४४॥
विरिंचे रचिता तत्र स्वकीया द्वारकापुरी
मया शतगुणांभोधी तीरस्थायाः पुरा गुणैः ॥४५॥
तामुल्लंघ्य नरो यस्तु तीर्थमन्यन्निषेव्यते
न तीर्थफलमाप्नोति स पुमान्न मृषोदितम् ॥४६॥
सर्वतीर्थोदितं पुण्यं शक्रतीर्थे लभेन्नरः
द्वारका च पुरी मायातीर्थमन्यच्च रक्षति ॥४७॥
यो निमज्ज्यान्यतीर्थेषु कृत्वा च विविधां क्रियाम्
अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति स ध्रुवम् ॥४८॥
इत्युक्त्वांतर्द्धधे विष्णुरहमप्यगमं स्वकम्
लोकं द्विजेंद्र वैकुंठादधोभागे व्यवस्थितम् ॥४९॥
प्रयागान्मामकात्क्षेत्रात्काशी शतगुणा स्मृता
काश्याः शतगुणं तीर्थं निगमोद्बोधकं तथा ॥५०॥
तीर्थसप्तकमेतत्तु त्रयं तुल्यफलं स्मृतम्
एतत्त्रयमनुल्लंघ्य यो गच्छति सितासितम् ॥५१॥
तस्याहं वांछितं विप्र ददामि खलु नान्यथा
केचिदाहुः सप्तपुरी समपुण्या महर्षयः ॥५२॥
अयोध्याद्याः शतं ताभ्य इंद्रप्रस्थं प्रचक्षते
त्वमत्रागत्य विप्रेंद्र सर्वकामफलप्रदे ॥५३॥
तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुतेच्छया
यावंति सर्वतीर्थानि ब्रह्मांडकलशोदरे ॥५४॥
तेभ्यो परिमितं पुण्यं शतनामनि कीर्तिते
सुतं ते कुलधौरेयं तीर्थमेतत्प्रदास्यति ॥५५॥
स्नानाच्च तव गोविंदः प्रसन्नात्मा भविष्यति
नारद उवाच-
इत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोधते ॥५६॥
विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत्
इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे ॥५७॥
सुतं वंशकरं देहि मह्यंभक्ताय ते नमः
इत्युक्ते तेन विप्रेण देववागभवत्तदा ॥५८॥
देववागुवाच-
पुत्रस्ते धर्म्मतत्वज्ञो वंशकर्त्ता भविष्यति
प्रसादादस्य तीर्थस्य सर्वतीर्थशिरोमणेः ॥५९॥
याहि गेहं विलंबं मा सुकृतं तेन मज्जनम्
नारद उवाच-
इत्याकर्ण्य सतां वाणीं विश्वस्तः पुत्रजन्मनि ॥६०॥
चचाल जलमादाय द्वारकायाः कमंडलौ
मार्गे तस्य सखा विप्रो मलयाचलकेतनः ॥६१॥
मीलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतः
तस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकम् ॥६२॥
यद्भूतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिस्मये
उवाच स च धर्मात्मा सखे मम वचः शृणु ॥६३॥
यावंति भारते क्षेत्रे तीर्थानि विहितानि मे
तावंति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमम् ॥६४॥
नीत्वा मां दर्शय सखे तत्तीर्थं सर्वकामदम्
सखायस्ते वरा भूमावुपकुर्वंति ये सखीन् ॥६५॥
न तैर्ननु समो लोके पितामाताऽथवा सुतः
निर्द्धनं पुरुषं लोके सर्वे मुंचंति बांधवाः ॥६६॥
न मुंचंति सखायस्तु तस्य दुःखेन दुःखिताः
संसारार्णवनिर्मग्नान्सखीनुद्धरते सखा ॥६७॥
उपदिश्य हरेर्भक्तिमार्गं जन्मेंधनानलम्
अतस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे ॥६८॥
दर्शयैतद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज ॥६९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिंतायामुत्तरखंडे कालिंदीमाहात्म्ये सप्ताधिकद्विशततमोऽध्यायः ॥२०७॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP