उत्तरखण्डः - अध्यायः २११
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उवाच-
शिवे तवपुरः सर्वं मुकंदाख्यानमुत्तमम्
कथितं चंडकस्यापि नापितस्य शृणुष्व मे ॥१॥
यस्मिन्दिने मुकुंदस्तु ब्राह्मणस्तेन घातितः
चंडकेन तदाराजंस्तद्वृत्तं नागरैः श्रुतम् ॥२॥
श्रुत्वा तैस्तन्नृपस्याग्रे निवेदितमिति स्फुटम्
नागरा ऊचुः
चंडकेन हतो राजन्मुकुंदो ब्राह्मणोत्तमः ॥३॥
नीतं च तद्धनं भूरि यद्युक्तं तद्विधीयताम्
त्वमस्माकं प्रजानां हि रक्षकः शासकोऽसताम् ॥४॥
नारद उवाच-
इत्याकर्ण्य स भूपालो मंत्रिणं पार्श्ववर्तिनम्
उवाच कोपरक्ताक्षः किमेभिः कथ्यते शृणु ॥५॥
शीघ्रमानयतं पापं नोचेत्त्वां घातयाम्यहम्
उत्तिष्ठोत्तिष्ठ पापिष्ठ साधूनां शं विधीयताम् ॥६॥
पीड्यंते विषये यस्य प्रजा दस्युभिरुल्बणैः
स नृपो नरकं याति तेभ्यस्ताश्चेन्न रक्षति ॥७॥
नारद उवाच-
निशम्येति वचो राज्ञः सचिवः स शिवे नृपः
वेगेन हयमारुह्य पदातिशतसंयुतः ॥८॥
ययौ गृहे मुकुंदस्य तस्य बंधूनपृच्छत
मुकुंदः केन निहतः सत्यं ब्रूत ममाग्रतः ॥९॥
तं पापं निहनिष्यामि शासनाद्भूपतेरहम्
नारद उवाच-
श्रुत्वेति मंत्रिणो वाक्यं प्रत्यूचुर्विप्रबांधवाः ॥१०॥
विप्रबांधवा ऊचुः -
चंडकेन हतो मंत्रिन्मुकुंदो नापितेन हि
इदं पलायमानस्य तस्योष्णीषं पपात वै ॥११॥
दृष्टः स्वचक्षुषा वध्वा मुकुंदस्यैव सोघकृत्
किं कुर्मस्तेन पापेन मज्जिताः शोकसागरे ॥१२॥
नारद उवाच -
इत्याकर्ण्य वचस्तेषां बंधूनां ब्राह्मणस्य हि
स मंत्री तस्य पापस्य नापितस्य गृहं ययौ ॥१३॥
अश्वादुत्तीर्य तरसा तद्गृहं स्वयमाविशत्
कतिभिः पत्तिभिः सार्द्धं शयानं च ददर्श ह ॥१४॥
पत्तयस्तु तदाज्ञप्ताः केशेष्वाकृष्य तत्क्षणात्
तल्पादुत्थापयामासुस्तं पापं नापिताधमम् ॥१५॥
किं किमित्येव संजल्पन्नेत्रे उन्मीलयत्यसौ
यावत्स नापितः पापस्तावत्तं ददृशे पुरः ॥१६॥
संस्मरंतं निजं कर्म रात्रौ यत्कृतवानघम्
अधोमुखः क्षणं तस्थौ पश्यन्मूर्ध्नि स्थितं यमम् ॥१७॥
ग्राहयित्वा च सचिवस्तं पापं च स्वपत्तिभिः
निनाय नृपतेः पार्श्वमिति चोवाच भूपतिम् ॥१८॥
आनीतो ब्रह्महा राजन्नयं चंडक नापितः
यदाज्ञापयसि स्वामिंस्तरसा तत्करोम्यहम् ॥१९॥
राजोवाच-
धर्मज्ञ सचिवश्रेष्ठ शृणु त्वं वचनं मम
इयं सरिद्वरा युष्मंश्चंद्रभागात्र निर्मलाः ॥२०॥
त्यजंति येऽत्र वै प्राणाल्लँभंते ते सुरास्पदम्
अत एष न हंतव्यः पापात्मा ह्यत्र नापितः ॥२१॥
पंचकोशांतरे ह्यस्या मर्यादाया बहिर्यदि
नरकान्दारुणान्ह्येष ब्रह्महा यातु मा चिरम् ॥२२॥
नारदोवाच-
इत्युक्तस्तेन वै राज्ञा स राजन्मंत्रिसत्तमः
श्वपचान्प्रेरयामास हंतुं तं भूपशासनात् ॥२३॥
श्वपचास्ते तमुन्नीय चंद्रभागापरे तटे
योजनद्वयभूभागं चिच्छिदुस्तस्य मस्तकम् ॥२४॥
स पापो मारवे देशे सर्पोऽभूत्कालविग्रहः
धवकोटरमध्यस्थो विषज्वालाकराननः ॥२५॥
स शुष्को धववृक्षस्तु तस्य फूत्कारवह्निना
तथा तपनतापेन सरसोऽपि यथा ह्रदः ॥२६॥
गमनात्तस्य पापस्य सर्वतो वृक्षमूषरम्
उच्छिद्य तृणजातादि जातं पश्वहितं तदा ॥२७॥
तत्र जातु समायातः सार्थो दक्षिणदेशतः
नारायणाश्रमं गच्छन्बदर्याख्यं शिवे नृप ॥२८॥
तत्रैको ब्राह्मणः कश्चित्सार्थेसंमीलितः पथि
निश्छिद्रां काष्ठमंजूषां पितृमात्रस्थिसंयुताम् ॥२९॥
स्कंधेन धारयन्याति तानि पातयितुं नृप
गंगांभसि महाभाग पापिनामपि कामदे ॥३०॥
सोऽप्यागतस्तत्र वने यत्रास्ति स भुजंगमः
विविक्ते क्षिप्य मंजूषां शलाकालोहनिर्मिताम् ॥३१॥
अथागत्य भुजंगोऽसौ शलाकां फणयाघटत्
किंचिदुद्धाटितायां स मंजूषायां समाविशत् ॥३२॥
पुनः शलाका स्वंस्थानमागताथ स कुंडली
तत्रैव तस्थौ निश्चेष्टो मंजूषायां विषोल्बणः ॥३३॥
अथ प्रभाते सर्वे ते चेलुः स्थानात्ततो नृप
ब्राह्मणः सोऽपि मंजूषां कंबलेन समावृताम् ॥३४॥
कृत्वा शिरसि राजेंद्र चचाल प्रति जाह्नवीम्
कतिभिर्वासरैः सार्थः संप्राप्तस्तीर्थगामिनाम् ॥३५॥
इहैव कोशलायां वै पुनीतायां महीपते
अथ शीतातुरो विप्रः कंबलं चोदघाटयत् ॥३६॥
मंजूषावरणं राजन्तत्रायोध्यातटे शुभे
सोऽपि सर्पो निराहारो लब्ध्वा मारुतभोजनम् ॥३७॥
निश्चक्राम बहिस्तस्मादुत्क्षेप्य सुशलाकिकाम्
तं निःसृतं समालोक्य सर्प्प सर्प इति क्रुधा ॥३८॥
व्याहरंतो जनाः सर्वे लोष्टहस्ताः समभ्ययुः
यावत्पलायते सर्पस्तावदेकेन घातितः ॥३९॥
तत्याज स तदा प्राणान्पश्यतां तीर्थगामिनाम्
त्यक्त्वा भुजंगदेहं स देवत्वं प्राप दुर्लभम् ॥४०॥
दिव्यं विमानमारुह्य प्रोवाचेदं जनानि ह
सर्प उवाच-
भो दाक्षिणात्याः शृणुत ब्राह्मणा वचनं मम ॥४१॥
पुरा चंडकनामाहं नापितो ब्रह्महाधमः
ब्रह्महत्याप्रदोषेण सर्पआसं मरुस्थले ॥४२॥
भुक्त्वा नरकदुःखानि वर्षाणां लक्षपंचकम्
अतीतं सर्पयोनौ मे वर्षाणामयुतद्वयम् ॥४३॥
तीर्थस्यास्य प्रसादेन प्राप्तं देवत्वमुत्तमम्
तस्मादिदं न वै त्याज्यं तीर्थं वै कोशलाभिधम्
सर्वार्थदं यतो नाकः प्राप्तः पापीयसा मया ॥४४॥
नारद उवाच-
एवं स नापितः पापो योनिं प्राप्य विनिंदिताम्
जगाम द्यां विमानस्थस्तीर्थस्यास्य प्रसादतः ॥४५॥
ते दाक्षिणात्या यतयो भूत्वा तत्रैव तीर्थके
ऊषुर्गोविंदपादाब्ज मानसा दृष्टवैभवे ॥४६॥
माहात्म्यमस्य तीर्थस्य दृष्ट्वा स ब्राह्मणोत्तमः
तीर्थेऽत्रजातविश्रद्धः पित्रोरस्थीनि सोऽक्षिपत् ॥४७॥
पतितेष्वस्थिखंडेषु पितरौ तस्य तत्क्षणात्
विमानवरमारूढौ दिव्यौ तत्र समागतौ ॥४८॥
ऊचतुश्च स्वतनयं शृण्वानेषु जनेषु वै
वत्स जीव चिरं लोके धनधान्यसुखी भव ॥४९॥
आवयोर्मुक्तिदानाच्च मुक्तिं यास्यसि नो मृषा
गंगायां पिंडदानेन यत्फलं स्यात्सुतस्य वै
पितॄणां या गतिश्चात्र द्वयं स्यादस्थिपाततः ॥५०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
कालिंदीमाहात्म्ये मुकुंदोपाख्यानं नामैकादशाधिकद्विशतमोध्यायः ॥२११॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP