संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २३१

उत्तरखण्डः - अध्यायः २३१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीरुद्र उवाच-
यत्कौर्म्यवैभवं विष्णोः सर्वलोकनमस्कृतम्
तद्वक्ष्यामि प्रिये सम्यक्शृणुष्वेकाग्रचेतसा ॥१॥
अत्रिपुत्रो महातेजा दुर्वासा इति विश्रुतः
प्रचण्डः सर्वलोकानां क्षोभकारी महातपाः ॥२॥
स ययौ हिमवत्पृष्ठं ब्रह्मर्षिस्तपसो निधिः
ममांशभूतो ब्रह्मर्षिः सर्वेषां भयदस्सदा ॥३॥
उषितस्तत्र वर्षं तु किन्नरीभिः स पूजितः
महेंद्रं द्रष्टुकामोऽसौ स्वर्लोकं प्रययौ मुनिः ॥४॥
तस्मिन्काले महातेजा गजारूढं महेश्वरम्
ददर्श सर्वदेवैस्तं पूज्यमानं शचीपतिम् ॥५॥
तच्च दृष्ट्वा स हृष्टात्मा दुर्वासा सुमहातपाः
पारिजातस्रजं तस्मै प्रददौ विनयान्वितः ॥६॥
आदाय देवताधीशस्तां स्रजं गजमूर्द्धनि
विन्यस्य तत्र देवेशः प्रययौ नंदनं प्रति ॥७॥
करेणादाय तां मालां मदोद्रिक्तस्ततो गजः
पीडयित्वाथ चिक्षेप संस्थितां धरणीतले ॥८॥
ततः क्रुद्धो महातेजा दुर्वासा रक्तलोचनः
प्रशप्तवान्महेंद्रं तं संतप्तक्रोधवह्निना ॥९॥
दुर्वासा उवाच-
त्रैलोक्यैकश्रियायुक्तो यस्मान्मामवमन्यते
तस्मात्त्रैलोक्यश्रीर्नष्टा भवत्वेव न संशयः ॥१०॥
रुद्र उवाच-
इति शप्तस्ततः शक्रो जगाम स्वपुरं पुनः
ततः श्रीर्जगतां धात्री क्षणादंतर्दधे स्वयम् ॥११॥
अंतर्द्धानं गता लक्ष्मीस्तदा नष्टं जगत्त्रयम्
यदपांगाश्रितं सर्वं जगत्स्थावरजंगमम् ॥१२॥
तस्यामंतर्द्धानवत्यां सर्वं नष्टतरं भवत्
ब्रह्मादि त्रिदशाः सर्वे गंधर्वा यक्ष किन्नराः ॥१३॥
दैत्याश्च दानावा नागा मनुष्या राक्षसास्तथा
पशवः पक्षिणः कीटाः सर्वे स्थावरजंगमाः ॥१४॥
तया लक्ष्म्या जगन्मात्रा ते सर्वे नावलोकिताः
दारिद्र्येनैव विहितास्ते सर्वे दुःखभागिनः ॥१५॥
क्षुत्पिपासार्दिता देवाश्चुक्रुशुर्गतचेतसः
न ववर्ष जलधरः सर्वे शुष्का जलाशयाः ॥१६॥
सर्वे ते पादपा शुष्काः फलपुष्पविवर्जिताः
तदा देवाः सगंधर्वा दैत्यदानवराक्षसाः ॥१७॥
क्षुत्पिपासार्द्दिता जग्मुः ब्रह्माणममितौजसम्
ऊचुस्तं देवदेवेशमब्जयोनिं पितामहम् ॥१८॥
देवा ऊचुः -
भगवन्क्षुत्पिपासाभ्यां पीडितं हि जगत्त्रयम्
न हुतं न वषट्कारः सर्वधर्म्मविवर्जितम् ॥१९॥
क्षुत्पिपासार्द्दिताः सर्वे देवदानवमानवाः
त्रातारं सर्वलोकेशं भवंतं शरणं गताः ॥२०॥
त्रातुमर्हसि देवेश क्षुत्पिपासार्दिताञ्जनान्
रुद्र उवाच-
इति तेषां वचः श्रुत्वा सर्वलोकपितामहः ॥२१॥
उवाच परमप्रीतस्तान्सर्वान्प्रति मानदः
ब्रह्मोवाच-
शृणुध्वं देवताः सर्वे दैत्यगंधर्वमानवाः ॥२२॥
महेंद्रस्यापचारेण सर्वमेतदुपस्थितम्
समुद्भूतमिदं घोरं जगत्संवर्त्तकं महत् ॥२३॥
दुर्वासाः सुमहात्मातु यतः क्रोधमवाप्तवान्
तस्मात्क्रोधेन तेनेदं नष्टं लोकत्रयं सुराः ॥२४॥
असौ रोषपरीतात्मा क्रोधेन कलुषीकृतः
जगत्त्रयं च श्रीनष्टं भवत्वित्याह दुर्मतिः ॥२५॥
तच्छापाज्जगतां धात्री लक्ष्मीर्न्नारायणप्रिया
अंतर्द्धानं गता देवी जगन्माता महेश्वरी ॥२६॥
यदपाङ्गे क्षिता लोका भवंति सुखितास्तथा
नालोकिता जगन्मात्रा दुःखभागिन एव हि ॥२७॥
तस्मात्सर्वे वयं गत्वा दुग्धाब्धौ स्थितमुत्तमम्
तत्र नारायणं देवमर्च्चयामः सनातनम् ॥२८॥
तस्मिन्प्रसन्ने देवेशे शिवमेतद्भवेज्जगत्
इति निश्चित्य मनसा ब्रह्मा देवगणैर्युतः ॥२९॥
भृग्वादिमुनिभिः सार्द्धं प्रययौ क्षीरसागरम्
क्षीराब्धावुत्तरतटे ब्रह्मरुद्रादिदेवताः ॥३०॥
विष्णुं समर्च्चयामासुः पौरुषेण विधानतः
जपन्नष्टाक्षरं मंत्रं पौरुषं सूक्तमेव च ॥३१॥
ध्यायंतोऽनन्यमनसो जुहुवुः परमेश्वरम्
तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्विचित्रधा ॥३२॥
ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम्
तेषां संदर्शने तस्थौ स्तूयमानो महर्षिभिः ॥३३॥
वैनतेयं समारुह्य सर्वदेवमयं विभुम्
तं दृष्ट्वा जगतामीशं शंखचक्रगदाधरम् ॥३४॥
पीतवस्त्रं चतुर्बाहुं पुंडरीकनिभेक्षणम्
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ॥३५॥
किरीटहारकेयूरनूपुरैरुपशोभितम्
तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम् ॥३६॥
ततः प्रोवाच भगवान्कृपया सर्वदेवताः
वरदोस्मि वरं देवा वृणीध्वमिति चाब्रवीत् ॥३७॥
इति श्रुत्वा तदा सर्वे देवा ब्रह्मपुरोगमाः
ऊचुः प्रांजलयो देवमिदं वचनमीश्वरम् ॥३८॥
देवा ऊचुः
भगवन्मुनिशापेन संप्रतीदं जगत्त्रयम्
क्षुत्पिपासार्दितं सर्वं सदेवासुरमानुषम् ॥३९॥
तस्माद्भवंतं शरणं याताः स्म पुरुषोत्तम
त्राहि सर्वमिमं लोकं नान्यः शक्तो भवेत्क्वचित् ॥४०॥
रुद्र उवाच-
इत्युक्तो देवतैः सर्वैरच्युतः परमेश्वरः
विचार्य्यैतदुवाचैतान्देवान्ब्रह्मपुरोगमान् ॥४१॥
श्रीभगवानुवाच-
अत्रिसूनोर्मुनेः शापादंतर्द्धानं गता रमा
कटाक्षदर्शनात्तस्या जगदैश्वर्य्यसंयुतम् ॥४२॥
तस्माद्यूयं सुराः सर्वे शिवब्रह्मपुरोगमाः
उत्पाट्य मंदरं शैलं निधाय क्षीरसागरम् ॥४३॥
मंदरं घर्घरं कृत्वा सर्प्पराजेन वेष्टितम्
कुरुध्वं मथनं देवा दैत्यगंधर्वदानवैः ॥४४॥
उत्पद्यते च सा लक्ष्मीर्जगत्संरक्षणाय वै
तया हृष्टा महाभागा भविष्यथ न संशयः ॥४५॥
धारयाम्यहमेवाद्रिं कूर्मरूपेण संवृतः
मम शक्त्या सुरान्सर्वान्प्रविश्य च बलीयसः ॥४६॥
रुद्र उवाच-
इत्युक्ता देवताः सर्वा हरिणा कामलक्षणे
साधुसाध्विति देवेशमूचुर्ब्रह्मपुरोगमाः ॥४७॥
संस्तूयमानो भगवानच्युतः सुरसत्तमैः
अंतर्दधे ततः श्रीमान्सर्वलोकनमस्कृतः
सर्वाधारः सर्वदेवः सर्वत्र समदर्शनः ॥४८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमामहेश्वरसंवादे दुर्वाससःशापकथनंनाम एकत्रिंशदधिकद्विशततमोऽध्यायः ॥२३१॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP