उत्तरखण्डः - अध्यायः १६२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच
ततो गच्छेत्तथा देवि तीर्थं कापोतिकं पुनः
यत्र साभ्रमती तोयं प्राचीनं संप्रवर्त्तते ॥१॥
पिंडं ददाति यस्तत्र पितृतर्पणपूर्वकम्
वन्यैः फलैस्तथा पुष्पैः सदा पर्वणि पर्वणि ॥२॥
काकादिभ्यश्च श्वादिभ्यो बलिं संददते तु यः
यमस्य पंथानं सोऽपि ससुखं निस्तरेन्नरः ॥३॥
तत्र तीर्थे नरः स्नात्वा वैशाख्यां गौरसर्षपैः
पूजयेद्देवमीशानं प्राचीनेश्वरमुत्तमम् ॥४॥
आत्मानं तारयेत्सोऽथ पितॄनथ पितामहान्
कपोतो यत्र चात्मानं दत्त्वा चातिथये मुदा ॥५॥
स्तुतो देवगणैः सर्वैर्विमानेन दिवं गतैः
तदा प्रभृति तत्तीर्थं कापोतमिति विश्रुतम् ॥६॥
तत्र स्नात्वा नरः पीत्वा ब्रह्महत्यां व्यपोहति
पार्वत्युवाच
कपोतेन कथं दत्तं शरीरं च वद प्रभो
निमित्तं किं तथा देव नाहं वेद्मि सुरेश्वर ॥७॥
महादेव उवाच
अत्र तीर्थेति देवेशि वटो वै परमो महान्
तस्य शाखा ह्यनंताश्च दृश्यंते विपुला भुवि ॥८॥
तत्र जीवा वसंतीह पक्षिणो बहवस्तथा
कपोतेन गृहं तत्र कारितं तु सुरेश्वरि ॥९॥
तत्र तिष्ठति पक्षीशो नित्यं विष्णुपरायणः
कुटुंबेन समायुक्तो शाखायां वसति ध्रुवम् ॥१०॥
एकस्मिन्वासरे देवि द्वादश्यां विष्णुवासरे
श्येनस्तत्र समायातो ह्यतिथित्वेन भामिनि ॥११॥
कपोत भो देहि मांसं तव शारीरकं मम
नोचेच्छापं प्रदास्यामि इत्युक्तं नगनंदिनि ॥१२॥
अद्य वै वासरे विष्णोः क्षुधार्तोऽहं समागतः
तस्माद्देयं हि मांसं तत्क्षुधार्ताय मम प्रभो ॥१३॥
श्येनोक्तं तत्तु वै श्रुत्वा कपोतो वैष्णवो महान्
तेन दत्तं तदा देवि शरीरं नात्र संशयः ॥१४॥
तेन दानप्रभावेन तीर्थं जातं सुरोत्तमे
कापोतकं महत्तीर्थं पावनानां च पावनम् ॥१५॥
अत्र तीर्थे नरः स्नात्वा कृत्वा वै शिवपूजनम्
ददाति चातिथिभ्यश्च मिष्टमन्नं सुरोत्तमे ॥१६॥
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम्
दत्त्वा वै स्वशरीरं तु कपोतोऽथ महात्मने ॥१७॥
स गतो वैष्णवं तत्र यावच्चंद्र दिवाकरौ
अतो गत्वा तु भो देवि अतिथिं पूजयेत्सदा
पूजिते चातिथौ तत्र सर्वं च लभते ध्रुवम् ॥१८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर खंडे
कपोततीर्थं नाम द्विषष्ट्यधिक शततमोऽध्यायः ॥१६२॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP