उत्तरखण्डः - अध्यायः ४६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिर उवाच-
फाल्गुनस्य सिते पक्षे श्रुता चामलकी तथा
चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ॥१॥
श्रीकृष्ण उवाच-
शृणु राजेंद्र वक्ष्यामि आख्यानं पापनाशनम्
यल्लोमशोऽब्रवीत्पृष्टो मांधात्रा चक्रवर्तिना ॥२॥
मांधातोवाच -॥
भगवन्श्रोतुमिच्छामि लोकानां हितकाम्यया
चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत्
को विधिः किं फलं तस्याः कथयस्व प्रसादतः ॥३॥
लोमश उवाच-
चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी
एकादशी समाख्याता पिशाचत्वविनाशिनी ॥४॥
शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप
कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम् ॥५॥
पुरा चैत्ररथोद्देशे अप्सरोगणसेविते
वसंतसमये प्राप्ते षट्पदाकुलिते वने ॥६॥
गंधर्वकन्यावादित्रै रमंति सह किंनरैः
पाकशासनमुख्याश्च क्रीडांते त्रिदिवौकसः ॥७॥
नापरं सुखदं किंचिद्विना चैत्ररथाद्वनम्
तस्मिन्वने तु मुनयस्तपंति बहुलं तपः ॥८॥
मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम्
अप्सरास्तं मुनिवरं मोहनायोपचक्रमे ॥९॥
मंजुघोषेति विख्याता भावं तस्य वितन्वती
क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ ॥१०॥
गायंती मधुरं साधु पीडयंती विपंचिकाम्
गायंतीं तामथालोक्य पुष्पचंदनसेविताम् ॥११॥
कामोऽपि विजयाकांक्षी शिवभक्तान्मुनीश्वरान्
तस्याः शरीरे संवासमकरोन्मनसः सुतः ॥१२॥
कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम्
मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ॥१३॥
कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे
मंजुघोषाभवत्तस्य कामस्यैव वरूथिनी ॥१४॥
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता
यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते ॥१५॥
सितोपवीतसहितो दृष्टः स्मर इवापरः
मेधावी वसते चासौ च्यवनस्याश्रमे शुभे ॥१६॥
मंजुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुंगवम्
मदनस्य वशं प्राप्ता मंदं मंदमगायत ॥१७॥
रणद्वलयसंयुक्तां शिंजन्नूपुरमेखलाम्
गायंतीं तां तथाभूतां विलोक्य मुनिपुंगवः ॥१८॥
मदनेन ससैन्येन नीतो मोहवशं बलात्
मंजुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम् ॥१९॥
हावभावकटाक्षैस्तं मोहयामास चांगना
अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम् ॥२०॥
वलितेव लता वृक्षं वातवेगेन कंपितम्
सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुंगवः ॥२१॥
तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम्
शिवतत्वं गतं तस्य कामतत्त्ववशं गतः ॥२२॥
न निशां न दिनं सोऽपि रमन्जानाति कामुकः
बहुवर्षं गतः कालो मुनेराचारलोपतः ॥२३॥
मंजुघोषा देवलोकगमनायोपचक्रमे
गच्छंती तं प्रत्युवाच रमंतं मुनिसत्तमम्
आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे ॥२४॥
मेधाव्युवाच-
अद्यैव त्वं समायाता प्रदोषादौ वरानने
यावत्प्रभातसंध्या स्यात्तावत्तिष्ठ ममांतिके
इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा ॥२५॥
पुनर्वै रमयामास तमृषिं नृपसत्तम
मुनेः शापभयाद्भीता बहुलान्परिवत्सरान् ॥२६॥
वर्षाणां पंचपंचाशन्नवमासदिनत्रयम्
सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत् ॥२७॥
सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम्
आदेशो दीयतां ब्रह्मन्गंतव्यं स्वगृहे मया ॥२८॥
मेधाव्युवाच-
प्रभातमधुना चास्ते श्रूयतां वचनं मम
संध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव ॥२९॥
इति वाक्यं मुनेः श्रुत्वा जातानंदसमाकुला
स्मितं कृत्वा तु सा किंचित्प्रत्युवाच शुचिस्मिता ॥३०॥
अप्सरा उवाच-
कियत्प्रमाणा विप्रेंद्र तव संध्या गतानघ
मयि प्रसादं कृत्वा तु गतकालो विचार्यताम् ॥३१॥
इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः
गतकालस्य विप्रेंद्र प्रमाणमकरोत्तदा ॥३२॥
समाश्च सप्तपंचाशद्गतास्तस्य तया सह
चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह ॥३३॥
नेत्राभ्यां विस्फुलिंगान्स मुंचमानोऽतिकोपनः
कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् ॥३४॥
दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह
सकंपोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेंद्रियः ॥३५॥
तां शशापाथमेधावी त्वं पिशाची भवेति च
धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये ॥३६॥
तस्य शापेन सा दग्धा विनयावनता स्थिता
उवाच वचनं सुभ्रूः प्रसादं वांछती मुनिम्
प्रसादं कुरु विप्रेंद्र शापस्यानुग्रहं कुरु ॥३७॥
सतां संगो हि भवति वचोभिः सप्तभिः पदैः
त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः
एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत ॥३८॥
मुनिरुवाच-
शृणु मे वचनं भद्रे शापानुग्रहकारकम्
किं करोमि त्वया पापे क्षयं नीतं महत्तपः ॥३९॥
चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा
पापमोचनिका नाम सर्वपापक्षयंकरी ॥४०॥
तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति
इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम् ॥४१॥
तमागतं समालोक्य च्यवनः प्रत्युवाचतम्
किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम् ॥४२॥
मेधाव्युवाच-
पातकं वै कृतं तात रमिता चाप्सरा मया
प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ॥४३॥
च्यवन उवाच-
चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी
अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत् ॥४४॥
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम्
गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः ॥४५॥
साप्येवं मंजुघोषा च कृत्वैतद्व्रतमुत्तमम्
पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात्
दिव्यरूपधरा सा वै गता नाके वराप्सराः ॥४६॥
लोमश उवाच-
पापमोचनिकां राजन्ये कुर्वंति नरोत्तमाः
तेषां पापं च यत्किंचित्तत्सर्वं च क्षयं व्रजेत् ॥४७॥
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥४८॥
व्रतस्य चास्य करणात्पापमुक्ता भवंति ते
बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम् ॥४९॥
इति श्री पाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे चैत्रकृष्णैकादशी पापमोचनीनाम षट्चत्वारिंशोऽध्यायः ॥४६॥
N/A
References : N/A
Last Updated : November 18, 2020
TOP