संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १८०

उत्तरखण्डः - अध्यायः १८०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीभगवानुवाच
षष्ठाध्यायस्य माहात्म्यं प्रवक्ष्यामि वरानने
यदाकर्णयतां नॄणां मुक्तिः करतले स्थिता ॥१॥
अस्ति गोदावरी तीरे प्रतिष्ठानं पुरं महत्
पिप्पलेशाभिधानोऽहं यत्रास्मि स्मेरलोचने ॥२॥
यत्र गोदावरी तीर शीकरैरवशीतलैः
हंसाः पक्षपुटैः कीर्णैर्हरंति यमिनां श्रमम् ॥३॥
स्फुरत्पद्मावलीकोशपरागसुरभीकृतम्
श्लाघ्यं गोदावरीतोयं येन ते निर्जरा नराः ॥४॥
धिक्सुधामौषधीशस्य विकृत्क्षयविधायिनीम्
महाराष्ट्रवधूकानां मज्जंतीनां मुनीश्वराः ॥५॥
स्पृशंति यत्र वक्त्राणि फुल्लपंकजशंकया
यत्रखेलन्महाराष्ट्राः क्वणत्कंकणसुंदराः ॥६॥
हरंति ध्वनयो लीनां मनांस्यपि तपस्विनाम्
अत्युच्चसौधशिखरविहारि वनितामुखम् ॥७॥
पश्यन्ननुदिनं यत्र क्षीयते मृगलांच्छनः
अत्युच्चसौधवलभी महामणिमरीचिभिः ॥८॥
चुंब्यंते मुनिगंधर्वैर्दूर्वाचंदनचंचलैः
यस्मिन्नाधूयमानानां पताकानां समीरणैः ॥९॥
गतश्रमा रवेर्याने भवंति रथवाजिनः
राशीकृतैर्मलयजैरसंख्यातैर्वणिग्गणैः ॥१०॥
यस्मिन्नुपलशेषोऽसौ लक्ष्यते मलयाचलः
पुंजीकृतानि दृश्यंते यत्र मुक्ताफलान्यपि ॥११॥
नगरीदेवता हास्य स्तबका इव सर्वतः
तत्र ज्ञानश्रुतिर्नाम्ना मेदिनीवल्लभोऽभवत् ॥१२॥
यस्मिन्नुद्धरति क्षोणीं शेषोऽयं मणिसंनिभां
अपि प्रतापमार्तंडमंडली तीव्रतेजसि ॥१३॥
नित्यमध्वरधूमेन श्यामलाः कल्पशाखिनः
असाधारणदातृत्वं पश्यंत इव लज्जया ॥१४॥
यदध्वरपुरोडाश चर्वणास्वादलंपटाः
न तत्यजुः सुपर्वाणः प्रतिष्ठानपुरं मनाक् ॥१५॥
यस्यदानांबुधाराभिः प्रतापज्योत्स्नयानिशम्
मखधूमैश्च संपुष्टा ववृषुः समये घनाः ॥१६॥
स्वल्पमात्रमपि क्वापि न पदं प्रापुरीतयः
नीतयः प्रसरंति स्म यस्मिन्शासति मेदिनीम् ॥१७॥
वापिकूपतडागानां च्छद्मना योऽनुवासरम्
हृदयस्थानि मेदिन्या निधानानि व्यलोकयत् ॥१८॥
पांडुराभिः पताकाभिः प्रासादो यस्य राजते
वियद्गंगातरंगोघैर्हिमाद्रिरिव सानुमान् ॥१९॥
दानैस्तपोभिर्यज्ञैश्च प्रजानां पालनेन च
तुष्टाः स्वर्गौकसस्तस्मै वरं दातुं समागमन् ॥२०॥
ततोंतरिक्षमार्गेण धुन्वानाः पक्षसंहतीः
मृणालधवला देवी देवहंसा विनिर्गताः ॥२१॥
त्वरया गच्छतां तेषामन्योन्यं तत्र भाषिणाम्
भद्राश्वप्रमुखा द्वित्राः पुरस्तान्निर्ययुर्जवात् ॥२२॥
सर्वैर्मिलद्भिरूचुस्ते पुरस्ताद्गच्छतो जवात्
कथं वेगेन निर्याता भवंतः पुरतः स्थिताः ॥२३॥
सर्वैर्मिलित्वा गंतव्यमस्मिन्नध्वनि दुर्गमे
प्रकाशमानं पुरतस्तेजःपुंजं न पश्यथ ॥२४॥
ज्ञानश्रुतेर्महीभर्तुः पुण्यमूर्त्तेरतिस्फुटम्
निशम्येति वचः सम्यक्पाश्चात्याना पुरः स्थिताः ॥२५॥
हंसा हसित्वा सावज्ञमूचुर्वचनमुच्चकैः
रैक्याभिधस्य दुर्द्धर्ष तेजसो ब्रह्मवादिनः ॥२६॥
किं नु ज्ञानश्रुतेरस्य राज्ञस्तीव्रतरं महः
इति शुश्राव हंसानां गिरो ज्ञानश्रुतिर्नृपः ॥२७॥
अत्युच्चसौधभवनमारुह्य च सुखं स्थितः
ततः सारथिमाहूय भूपालो विस्मयान्वितः ॥२८॥
संदिदेश महात्माऽसौ रैक्य आनीयतामिति
ततोऽवधार्य भूपालवचः पीयूषगर्भितम् ॥२९॥
निर्जगाममहो नाम्ना सारथिः प्रथयन्मुदम्
यत्र वाराणसीनाम नगरी मुक्तिदायिनी ॥३०॥
यत्र विश्वेश्वरो नाम ह्युपदेष्टा जगत्पतिः
ततो गयाभिधे क्षेत्रे यत्र देवो गदाधरः ॥३१॥
उद्धर्तुमखिलान्लोकान्वसत्युत्फुल्ललोचनः
ततो गौरीगुरोः पार्श्वे सर्वैस्तीर्थैरनेकधा ॥३२॥
पर्यटन्गतवान्यत्र केदारः पापदारणः
यमालोक्य सकृन्मर्त्या मुक्ताः स्युर्नात्र संशयः ॥३३॥
महापापविर्निमुक्ता भुक्त्वा भोगान्यथेप्सितान्
ततो गौडेषु निर्यातो यत्रास्ते पुरुषोत्तमः ॥३४॥
यस्यावलोकनादेव नराः स्वर्लोकगामिनः
ततो द्वारावतीं प्रागान्नगरीं मुक्तिदायिनीम् ॥३५॥
यत्रास्ते गोमती तीरे रुक्मिणीवल्लभो हरिः
स्नात्वा च गोमतीतीर्थे पंचकृष्णान्विलोक्य च ॥३६॥
मर्त्यो मुक्तिमवाप्नोति भुक्त्वा भोगान्यथेप्सितान्
ततः समुद्रमासाद्य सोमनाथं विलोक्य च ॥३७॥
भुक्तिमुक्तिप्रदं देवं ततो निरगमन्सुधीः
अवंतिकां पुरीं प्राप्तो भुक्तिमुक्तिप्रदायिनीम् ॥३८॥
यत्रोमया सुखं क्रीडन्महाकालोस्ति शंकरः
अथोंकारं समासाद्य शर्मदं नर्मदातटे
भुक्तिमुक्तिप्रदातारं त्वरया निर्गतस्ततः ॥३९॥
अश्वमेधकरं नाम्ना नगरं पर्यटंस्ततः
यत्र शार्ङ्गधरः साक्षादास्ते लक्ष्मीपतिः स्वयम् ॥४०॥
ततो विष्णुगयां प्राप्तः कुण्डं लोणारसंज्ञितम्
यत्र स्नात्वा च पीत्वा च मुच्यते बन्धनान्नरः ॥४१॥
ततः कोल्हापुरं नाम गतो रुद्रगयां प्रति
आस्ते भगवती यत्र लक्ष्मीर्भक्तिप्रदायिनी ॥४२॥
पञ्चनद्यां नरः स्नात्वा महालक्ष्मीं विलोक्य च
भुक्त्वा भोगान्यथाकामं भक्तिं च प्रतिपद्यते ॥४३॥
ततोऽमलगिरिं नाम नगरीं प्रतिपद्य च
नन्दिकेश्वरमारुह्य सोमनाथोऽस्ति यत्र तु ॥४४॥
दृष्ट्वा चतुर्भुजं देवं वरदानोद्यतं शिवम्
सोमनाथं नृणां मुक्तिर्भवत्येव न संशयः ॥४५॥
तुङ्गभद्रानदी तीरे दृष्ट्वा हरिहरं ततः
युगेयुगे भुजा यस्य पतन्त्यवनिमण्डले ॥४६॥
यद्विलोक्य नराः सर्वे रम्यं हरिहरं वपुः
भुक्त्वा भोगान्यथाकामं मुच्यन्ते बन्धनान्नराः ॥४७॥
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबन्धनाः
ततः स्वामिनमालोक्य लोकानां स्वामिनं विभुम् ॥४८॥
यमालोक्य न पश्यन्ति निरयं जातुचिन्नराः
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारवासनाः ॥४९॥
मुक्तिं च प्रतिदद्यन्ते नात्र कार्या विचारणा
ततः श्रीशैलमासाद्य सिद्धगन्धर्वसेवितम् ॥५०॥
गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः
उद्धर्तुमखिलाँल्लोकान्संसाराम्भोधिमध्यतः ॥५१॥
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबंधनाः
मुक्तिं च प्रतिपद्यंते नात्र कार्या विचारणा ॥५२॥
ततः श्रीशैलमासाद्य सिद्धगंधर्वसेवितम्
गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः ॥५३॥
उद्धर्तुमखिलाँल्लोकान्संसारांबुधिमध्यतः
कालेकाले परं ज्योतिर्यः संदर्शयते स्वयम् ॥५४॥
अवलोकयतां नॄणां यमनुस्मरतामपि
दूरे तिष्ठंति संत्रस्ता दूरं निरययातनाः ॥५५॥
स्वर्गे लोके सुखं भुक्त्वा मुक्तसंसारबंधनाः
मुक्तिं च प्रतिपद्यंते मानवा नात्र संशयः ॥५६॥
रामोस्ति सानुजः सार्द्धं जानक्यापि ततो गतः
तत्र स्नात्वा च पीत्वा च मुच्यते नरकाद्ध्रुवम् ॥५७॥
कल्पकोटिशतं भुक्त्वा स्वर्गलोकसुखं नराः
मुक्तसंसारवर्त्मानो मुक्तिं यांति न संशयः ॥५८॥
ततो निवृत्य आयातः पश्यन्भीमरथी तटे
द्विभुजं विठ्ठलं देवं भुक्तिमुक्तिप्रदायकम् ॥५९॥
यत्र गोदावरीजन्मस्थानं ब्रह्मगिरिर्महान्
गौतमालयमासाद्य यत्रास्ते त्र्यंबको हरः ॥६०॥
अरुणावरुणयोर्मध्ये यत्र गोदावरी नदी
तत्र स्नात्वा च पीत्वा च ब्रह्महत्या विलीयते ॥६१॥
असंख्यतीर्थसंपन्नं दृष्ट्वा ब्रह्मगिरिं नराः
मुक्तिमेव प्रपद्यंते मुक्ताः संसारदुःखतः ॥६२॥
गौतम्युभयतीरस्थ तीर्थान्वेषणकौतुकी
ततो जगाम सूतस्तु मथुरां पापनाशिनीम् ॥६३॥
यत्र स्वायंभुवं देवं भजंति सुरमानवाः
आद्यं भगवतः स्थानं महन्मुक्तिप्रदायकम् ॥६४॥
त्रैलोक्येश जनिस्थानं विख्यातं वेदशास्त्रयोः
नानादेवगणैर्जुष्टं द्विजर्षिगणसेवितम् ॥६५॥
कालिंदीकूलसंशोभि ह्यर्द्धचंद्र प्रभाकृति
सर्वतीर्थनिवासैक पूर्णमानंदसुंदरम् ॥६६॥
गोवर्द्धनगिरिप्रख्यं पुण्यद्रुमलतावृतम्
द्विषड्वनं महापुण्यं विश्रांति श्रुतिसारभृत् ॥६७॥
ततः काश्मीरनगरमपश्यत्प्रत्यगुत्तरम्
दृष्ट्वा धर्मधुरं क्षेत्रं कुरुक्षेत्रं समंततः ॥६८॥
यत्राभ्रंलिहगेहानां पंक्तयः शंखपाण्डुराः
ता जाता धूर्जटेः स्पष्ट अट्टहासदशा इव ॥६९॥
भक्तिप्रसादमालानां सुवर्णकलशैर्वृतम्
स्वः सिंधोः पतितानीव हेमपद्मानि मारुतैः ॥७०॥
यत्र प्रासादशिखरे नीलपट्टपताकिकाः
शैवालवलयाभांति स्वः सिंधोर्लतिका इव ॥७१॥
यत्र काश्मीरमाश्रित्य नित्यं वसति भारती
नौचेद्युगपदेवेदं कथं लिखति वाङ्मयम् ॥७२॥
विश्रामंत्याः सरस्वत्याश्चिरं यत्र मदालसाः
मृणालचंचवो हंसा वाहनानि चरंत्यमी ॥७३॥
कलाविशेषं प्रहिता यत्र बोद्धुं विरंचिना
तारा इव विराजंते हंसा याताः समंततः ॥७४॥
स्थलपद्मानि दृश्यंते करस्पर्शसुखानि च
शयनाय नितंबिन्या यस्मिन्दानववैरिणा ॥७५॥
उपन्यासैर्द्विजातीनां यत्र न श्रूयते स्फुटम्
मूकोऽपि निर्जरो वाचा पदकल्लोलडंबरः ॥७६॥
यस्मिन्नध्वरधूमेन व्याप्तं गगनमंडलम्
अपि च क्षालितं मेघैः कालिमानं न मुंचति ॥७७॥
गलितायाः सुधायास्तु यत्राध्वरमहार्चिषा
लांछितं छद्मनास्थानं दृश्यते तुहिनत्विषि ॥७८॥
जन्माभ्यासवशादेव पठंति बटवः स्वयम्
यत्रोपाध्यायसान्निध्यमाश्रित्य सकलाः कलाः ॥७९॥
यत्र ब्राह्मणपत्नीनां कंकणध्वनि हुंकृतिः
लुंपत्यनुदिनं भ्राम्यद्भ्रमराणां च गर्जितम् ॥८०॥
यत्र ब्राह्मणपत्नीनां कपोलफलकं मुहुः
स्पृशन्समीरणो मंदं वाति शापभयादिव ॥८१॥
माणिक्येश्वरनामासौ यत्र शीतांशुशेखरः
वसत्यनुदिनं देवो वरदानाय देहिनाम् ॥८२॥
अर्चितो भूपतीन्जित्वा मणिकेशेन चादृतः
माणिक्येश्वर इत्याख्यां तदाप्रभृति यो दधौ ॥८३॥
राज्ञा काश्मीरदेवेश दिग्जयोत्सवकारिणा
असौ सुपूजितो यस्मान्माणिक्यैर्भूरिभूतिभिः ॥८४॥
संसेवमानं तद्वारि छायां शकटिकोपरि
कंडूयमानमंगानि यंता रैक्यमपश्यत ॥८५॥
राज्ञापि कथितैस्तैस्तैश्चिह्नैः परिचितं जवात्
प्रणतः सारथी रैक्यं प्रणम्य तमभाषत ॥८६॥
सारथिरुवाच
कस्मिन्ब्रह्मन्किन्नामासि स्वछंदोऽसि निरंतरम्
किमर्थमत्र विश्रांतः किं च कर्तुं चिकीर्षसि ॥८७॥
इत्याकर्ण्य च तद्वाक्यं परमानंदनिर्भरः
स्मृत्वा सारथिमित्यूचे वयं पूर्णमनोरथाः ॥८८॥
परं केनापि बहुना परिचर्याविधायिना
भवितव्यं मनोवृत्तिं जानतास्माकमेव हि ॥८९॥
हृदयस्थितमादाय रैक्याभिप्रायमादरात्
शनैर्निरगमद्यंता यत्रास्ते वसुधाधिपः ॥९०॥
ततः प्रणम्य भूपालं यथावृत्तं न्यवेदयत्
बद्धांजलिपुटो हृष्टः सारथिः स्वामिदर्शनात् ॥९१॥
ततो निशम्य तद्वाक्यं विस्मयस्मेरलोचनः
श्रद्धालुरभवद्भूपो रैक्यसंभावनाविधौ ॥९२॥
आदायाश्वतरीयुग्मयुक्तां शकटिकामगात्
मुक्ताहारदुकूलानि सहस्रं च गवां नृपः ॥९३॥
गतोऽसौ तत्र यत्रास्ते योगी काश्मीरमंडले
तन्निवेद्य पुरो राजा दंडवत्पतितो भुवि ॥९४॥
आनम्य परया भक्त्या रैक्यो राज्ञे चुकोप ह
रे शूद्र मामकं वृत्तं न जानासि दुरीश्वर ॥९५॥
गृहाण शकटीमेतामुत्थाप्याश्वतरी युताम्
वस्त्राणि मुक्ताहारांश्च गाश्च दोग्ध्रीरपि स्वयम् ॥९६॥
इत्थमाज्ञतवान्भूपो रैक्यस्य भयमादधे
ततः शापभयाद्राजा तत्पदांभोरुहद्वयम् ॥९७॥
गृह्णन्भक्त्या प्रसीदेति ब्रह्मन्नित्यूचिवान्स्वयम् ॥९८॥
राजोवाच
भगवंस्तव माहात्म्यमेतदत्युद्भुतं कुतः
प्रसन्नीभूय भगवन्नाख्याहि मम तत्त्वतः ॥९९॥
रैक्य उवाच
गीतानां षष्ठमध्यायं जपामि प्रत्यहं नृप
तेनैव तेजोराशिर्मे सुराणामपि दुःसहः ॥१००॥
गीतानां षष्ठमध्यायं रैक्यादभ्यस्य यत्नतः
ज्ञानश्रुतिर्महीपालो मुक्तिमाप ततः सुधीः ॥१०१॥
रैक्योऽपि सुखमालेभे माणिक्येश्वरसन्निधौ
गीतानां षष्ठमध्यायं जपन्मोक्षप्रदायकम् ॥१०२॥
मरालवेषमास्थाय वरदानार्थमागताः
दिवौकसोऽपि निर्जग्मुः स्वैरं विस्मयकारिताः१०३॥
इममध्यायमप्येकं यो जपेत्सततं नरः
सोऽपि तत्पदवीमेति विष्णोरेव न संशयः ॥१०४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता
माहात्म्ये अशीत्यधिकशततमोऽध्यायः ॥१८०॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP