उत्तरखण्डः - अध्यायः ५२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिरउवाच-
आषाढकृष्णपक्षे तु किं वै एकादशी भवेत्
कथयस्व प्रसादेन वासुदेव ममाग्रतः ॥१॥
श्रीकृष्ण उवाच-
व्रतानामुत्तमं राजन्कथयामि तवाग्रतः
सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम् ॥२॥
आषाढस्यासिते पक्षे योगिनी नाम नामतः
एकादशी नृपश्रेष्ठ महापातकनाशिनी ॥३॥
संसारार्णवमग्नानां पोतभूता सनातनी
जगत्त्रये सारभूता योगिनी व्रतकारिणाम् ॥४॥
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्
अलकायां राजराजः शिवभक्तिपरायणः ॥५॥
तस्यासीत्पुष्पबटुको हेममालीति नामतः
तस्य पत्नी सुरूपा च विशालाक्षीति नामतः ॥६॥
स तस्यां चासक्तमना कामपाशवशं गतः
मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः ॥७॥
पत्नीप्रेमरसासक्तो न कुबेरालयं गतः
कुबेरो देवसदने करोति शिवपूजनम् ॥८॥
मध्याह्नसमये राजन्पुष्पागमसमीक्षकः
हेममाली स्वभवने रमते कांतया सह ॥९॥
यक्षराट्प्रत्युवाचाथ कालातिक्रमकोपितः
कस्मान्नायाति भो यक्षा हेममाली दुरात्मवान्
निश्चयः क्रियतामस्य इत्युवाच पुनः पुनः ॥१०॥
यक्षा ऊचुः -
वनिताकामुको गेहे रमते स्वेच्छया नृप
तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः ॥११॥
आह्वयामास तं तूर्णं बटुकं हेममालिनम्
ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः ॥१२॥
अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः
तं दृष्ट्वा धनदः क्रुद्धः क्रोधसंरक्तलोचनः ॥१३॥
प्रत्युवाच रुषाविष्टः कोपप्रस्फुरिताधरः
धनद उवाच-
आः पाप दुष्ट दुर्वृत्त कृतवान्देवहेलनम् ॥१४॥
अष्टादशकुष्ठवृतो वियुक्तः कांतया तया
अस्मात्स्थानादपध्वस्तो गच्छ स्वप्नमथाधम ॥१५॥
इत्युक्ते वचने तस्य तस्मात्स्थानात्पपात सः
महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः ॥१६॥
न सुखं दिवसे तस्य न निद्रां लभते निशि
छायायां पीडिततनुर्निदाघेऽत्यंतपीडितः ॥१७॥
शिवपूजाप्रभावेन स्मृतिस्तस्य न लुप्यते
पातकेनाभिभूतोऽपि पूर्वं कर्म स्मरत्यसौ ॥१८॥
भ्रममाणस्ततो गच्छन्हिमाद्रिं पर्वतोत्तमम्
तत्रापश्यन्मुनिवरं मार्कंडेयं तपोनिधिम् ॥१९॥
यस्यायुर्विद्यते राजन्ब्रह्मणो वयसा समम्
ववंदे चरणौ तस्य दूरतः पापकर्मकृत् ॥२०॥
मार्कंडेयो मुनिवरो दृष्ट्वा तं कंपितं तथा
परोपकरणार्थाय समाहूयेदमब्रवीत् ॥२१॥
कस्मात्कुष्ठाभिभूतस्त्वं कुतो निंद्यतरो ह्यसि
इत्युक्तः स प्रत्युवाच मार्कंडेयं महामुनिम् ॥२२॥
हेममाल्युवाच-
राजराजस्यानुचरो हेममालीति नामतः
मानसात्पद्मनिचयमानीय प्रत्यहं मुने ॥२३॥
शिवपूजनवेलायां कुबेराय समर्पये
एकस्मिन्दिवसे चैव कालश्चाविदितो मया ॥२४॥
पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा
ततः क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने ॥२५॥
कुष्ठाभिभूतः संजातो वियुक्तः कांतया तया
अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा ॥२६॥
सतां स्वभावतश्चित्तं परोपकरणे क्षमम्
इति ज्ञात्वा मुनिश्रेष्ठ मां प्रशाधि कृतागसम् ॥२७॥
मार्कंडेय उवाच-
त्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः
अतो व्रतोपदेशं ते कथयामि शुभप्रदम् ॥२८॥
आषाढे कृष्णपक्षे तु योगिनीव्रतमाचर
अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम् ॥२९॥
इति वाक्यमृषेः श्रुत्वा दंडवत्पतितो भुवि
उत्थापितः स मुनिना बभूवातीव हर्षितः ॥३०॥
मार्कंडेयोपदेशेन व्रतं तेन कृतं यथा
अष्टादशेव कुष्ठानि गतानि तस्य सर्वशः ॥३१॥
मुनेर्वाचा ततः सम्यग्व्रते चीर्णेऽभवत्सुखी
ईदृग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम् ॥३२॥
अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः
तत्समं फलमाप्नोति योगिनीव्रतकृन्नरः ॥३३॥
महापापप्रशमनं महापुण्यफलप्रदम्
पठनाच्छ्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥३४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे आषाढकृष्णयोगिन्येकादशीमाहात्म्यंनाम
द्विपंचाशत्तमोऽध्यायः ॥५२॥
N/A
References : N/A
Last Updated : November 19, 2020
TOP