उत्तरखण्डः - अध्यायः ७४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच-
शृणु देवि प्रवक्ष्यामि धर्ममाहात्म्यमुत्तमम्
यच्छ्रुत्वा न पुनर्जन्म जायते भुवि कर्हिचित् ॥१॥
धर्मादर्थं च कामं च मोक्षं चैतत्त्रयं लभेत्
तस्माद्धर्मं समीहेत विद्वान्यः स बुधः स्मृतः ॥२॥
तपसा चैव दानेन व्रतेन नियमेन च
तपसा प्राप्यते स्वर्गः सात्विकेन तथैव च ॥३॥
इहायातो लभेद्राज्यं क्रोधलोभविवर्जितः
जन्मांतरेण मुक्तिः स्यात्पदं विंदति वैष्णवम् ॥४॥
तपसा राजसेनेह राजसश्चैव जायते
तप्त्वा तामसभावेन क्रूरकर्मा हि निष्ठुरः ॥५॥
तपस्तद्रक्षसां चोक्तं भुक्तिदं तामसात्मनाम्
यत्तप्तं सात्विकं चैव तत्तपो भवति ध्रुवम् ॥६॥
रजस्तमोभ्यां नियतं तपस्यां वने सतां वायुभुजां सुनिर्जने
तपस्विनां चैव धनादिवांच्छतां वनेऽपि दोषाः प्रभवंति रागिणाम् ॥७॥
गृहेऽपि पंचेंद्रियनिग्रहस्तपस्त्वकुत्सिते कर्मणि यः प्रवर्त्तते
निवृत्तरागस्य तपोवनं गृहं गृहाश्रमोऽतो गदितः स्वधर्मः ॥८॥
सुदुस्तरः सत्वजितेंद्रियाणां संहन्यते श्रेष्ठतमः शुभाश्रमः
गृहस्तु धर्मः प्रवरो मनीषिणां ब्रह्मादिभिश्चाभिहितो नगात्मजे ॥९॥
तप्त्वा तपस्वी विपिने क्षुधार्तो गृहं समायाति सदान्नदातुः
भक्त्या स चान्नं प्रददाति तस्मै तपोविभागं भजते हि तस्य ॥१०॥
गृहाश्रमं ज्येष्ठमिहाश्रमाणां सम्यक्च यः पालयते मनुष्यः
इहैव भुंजन्समनुष्यभोगान्स्वर्गं प्रयातीति न संशयोऽत्र
गृहं सदा पालयतां नराणां पापं समायाति कथं हि देवि ॥११॥
गृहाश्रमः पुण्यतमः सर्वदा तीर्थवद्गृहम्
अस्मिन्गृहाश्रमे पुण्ये दानं देयं विशेषतः ॥१२॥
देवानां पूजनं यत्र अतिथीनां च भोजनम्
पथिकानां च शरणं अतो धन्यतमो मतः ॥१३॥
तद्गृहं तु समाश्रित्य येऽर्चयंति द्विजान्नराः
आयुर्लक्ष्मीस्तथा पुत्रा न हीयंते कदाचन ॥१४॥
शृणु सुंदरि वक्ष्यामि महापापविशोधनम्
सर्वसंपत्करं दानं इहामुत्रफलप्रदम् ॥१५॥
शुभेकाले समायाते समभ्यर्च्य स्वदैवतम्
नित्यं नैमित्तकं कृत्वा दद्याद्दानं स्वशक्तितः ॥१६॥
गृहीत्वा परद्रव्यं च द्विजदेवेभ्य एव हि
दद्यात्स निरयं दृष्ट्वा पश्चाद्याति परां गतिम् ॥१७॥
शतानीको यथा दानात्सपुत्रश्चैव तारितः
दत्त्वान्ये च द्विजेभ्यश्च स गंता धर्मतो दिवम् ॥१८॥
धर्मस्थानेषु यैर्दत्तं तेषां धर्ममुदाहृतम्
शृणु देवि प्रवक्ष्यामि वित्तदानं समासतः ॥१९॥
देहशुद्धिकरं दानं न भूतं न भविष्यति
पापहीनो येन पुमान्जायते नात्र संशयः ॥२०॥
भोगान्भुक्त्वा ततश्चायं याति विष्णुं सनातनम्
पुरा वै ब्रह्मणा प्रोक्तं भार्गवाय महात्मने ॥२१॥
पापयुक्ताय रामाय तुलावृषभमेव च
पापकर्मरतश्चैव भवबंधक्रियो नृपः ॥२२॥
अभक्षभक्षणरता भ्रूणहा गुरुतल्पगः
एतेप्यनृतवादी च प्रसूयंते वियोनिषु ॥२३॥
अयाज्ययाजनं कृत्वा याचयित्वा तु निंदितान्
सदा कोपसमायुक्ताः साधूनां पीडने रताः ॥२४॥
विश्वासोपहताश्चैषामसुभिर्धर्मनिंदकाः
पापैरेभिः समायुक्ता ज्ञात्वात्मानं गतायुषम् ॥२५॥
इति ज्ञात्वा तु तैर्देवि दानं देयं विशेषतः
बहवो धर्मकर्त्तारो वैष्णवा भुवि विश्रुताः ॥२६॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे दानधर्मोनाम चतुःसप्ततितमोऽध्यायः ॥७४॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP