उत्तरखण्डः - अध्यायः ३६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उवाच-
कीदृशी स्यान्महादेव पक्षवर्द्धनिसंज्ञका
यया वै कृतया जंतुर्महपापात्प्रमुच्यते ॥१॥
श्रीमहादेव उवाच-
अमा वा यदि वा पूर्णा संपूर्णा जायते तदा
भूत्वा वै नाडिकाषष्ठिर्जायते प्रतिपद्दिने
अश्वमेधायुतैस्तुल्या सा भवेत्पक्षवर्द्धिनी ॥२॥
नारद उवाच-
पूजाविधिं तु पृच्छामि सांप्रतं देवसत्तम
यत्कृते तु महादेव महाफलमवाप्नुयात् ॥३॥
महादेव उवाच-
पूजाविधिं प्रवक्ष्यामि सांप्रतं द्विजनंदन
पूजिते चार्चिते विष्णौ फलं प्राप्नोत्यसंशयः ॥४॥
येन पूजाविधानेन तुष्टिं प्राप्नोति माधवः
अव्रणं जलपूर्णं च कुंभं चंदनचर्चितम् ॥५॥
पंचरत्नसमायुक्तं पुष्पमालाभिवेष्टितम्
स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि ॥६॥
सौवर्णं कारयेद्देवं माससंज्ञाभिनामकम्
पंचामृतेन विधिना स्नपनं सुमनोरमम् ॥७॥
कारयेद्देवदेवेशं जगन्नाथं जगत्पतिम्
विलेपनं तु कर्त्तव्यं कुंकुमागरुचंदनैः ॥८॥
वस्त्रयुग्मं च दातव्यं छत्रोपानहसंयुतम्
पूजयेद्देवताधीशं कुंभपात्रोपरिस्थितम् ॥९॥
पद्मनाभाय वै पादौ जानुनी विश्वमूर्त्तये
ऊरू वै ज्ञानगम्याय कटी दानप्रदाय च ॥१०॥
उदरं विश्वनाथाय हृदयं श्रीधराय च
कंठं कौस्तुभकंठाय बाहू क्षत्रांतकारिणे ॥११॥
ललाटं व्योममूर्ध्ने तु शिरो वै सर्वरूपिणे
स्वनाम्ना चैव कमलां सर्वांगीं दिव्यरूपिणीम् ॥१२॥
एवं विधिवत्संपूज्य ततोऽर्घं दापयेत्सुधीः
नालिकेरेण शुभ्रेण देवदेवस्य चक्रिणः ॥१३॥
अनेनैवार्घदानेन संपूर्णं जायते व्रतम्
संसारार्णवमग्नं मां समुद्धर जगत्पते ॥१४॥
त्वमीशः सर्वलोकानां त्वं साक्षाच्च जगत्पतिः
गृहाणार्घं मया दत्तं पद्मनाभ नमोस्तु ते ॥१५॥
नैवेद्यानि सुहृद्यानि षड्रसानि विशेषतः
देयानि तु विशेषेण केशवाय सुभक्तितः ॥१६॥
नागपत्रं सकर्पूरं दद्याद्देवस्य भक्तितः
घृतेन दीपकं कुर्यात्तिलतैलेन वा पुनः ॥१७॥
कृत्वा सम्यग्विधानेन गुरोः पूजां प्रकारयेत्
वस्त्राणि चैव चोष्णीषं कंचुकं च प्रदापयेत् ॥१८॥
दक्षिणां च यथाशक्त्या गुरुवे संप्रदापयेत्
भोजनं चैव तांबूलं दत्त्वा चार्घं प्रदापयेत् ॥१९॥
स्ववित्तस्यानुमानेन यथाशक्त्या तु निर्द्धनैः
कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्द्धिनी ॥२०॥
ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम्
पुराणपाठसहितं हास्याह्लादसमन्वितम् ॥२१॥
स्तुवंति च प्रशंसंति जागरं चक्रपाणिनः
नित्योत्सवो भवेत्तेषां गृहे वै दशजन्मसु ॥२२॥
अतो धन्यतमा चेयं कर्त्तव्या पक्षवर्द्धनी
कृत्वा तु सकलं पुण्यं फलं प्राप्नोत्यसंशयम् ॥२३॥
पक्षवर्द्धनी माहात्म्यं ये शृण्वंति मनीषिणः
तैः कृतं सत्कृतं सर्वं यावदाभूतसंप्लवम् ॥२४॥
पंचाग्निसाधने पुण्यं यच्च स्यात्तीर्थसाधने
तत्पुण्यं समवाप्नोति विष्णोर्जागरकारणात् ॥२५॥
पक्षवर्द्धनिका पुण्या पवित्रा पापनाशिनी
उपवासकृता विप्र हत्याकोटिविनाशिनी ॥२६॥
वसिष्ठेन कृता पूर्वं भारद्वाजेन वै मुने
ध्रुवेण चांबरीषेण कृतेयं विष्णुवल्लभा ॥२७॥
इयं काशीसमा पुण्या इयं वै द्वारका समा
उपोषिता च भक्तेन वांछितं च ददात्यसौ ॥२८॥
इयं धन्या धन्यतमा हत्यायुतविनाशिनी
कर्त्तव्या तु विशेषेण वैष्णवैर्ज्ञानतत्परैः ॥२९॥
अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः
किमन्यद्बहुनोक्तेन कर्तव्यं व्रतमुत्तमम् ॥३०॥
यथा च वर्द्धते चंद्रः सिते पक्षे विशेषतः
तथा वै वर्द्धते भक्त कारणात्पक्षवर्द्धिनी ॥३१॥
सूर्योदये यथा ध्वांतं नश्यते तत्क्षणादपि
तथाघं नाशमाप्नोति करणात्पक्षवर्द्धिनी ॥३२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे-
उमापतिनारदसंवादे पक्षवर्द्धनी एकादशीमाहात्म्यंनाम षट्त्रिंशोऽध्यायः ॥३६॥
N/A
References : N/A
Last Updated : November 18, 2020
TOP