उत्तरखण्डः - अध्यायः १३४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच
वेत्रवत्यास्तु माहात्म्यं वक्ष्यामि शृणु सुंदरि
यत्र स्नात्वा विमुच्यंते यावदाभूतसंप्लवम् ॥१॥
वृत्रेण च कृतः कूपो महागंभीरसंज्ञकः
कूपात्सा निःसृता देवी महापापौघनाशिनी ॥२॥
यथा गंगा तथेयं च सरिच्छ्रेष्ठा सुरोत्तमे
अस्या दर्शनमात्रेण पापौघाः शमयंति च ॥३॥
शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम्
यच्छ्रुत्वा पापिनो दोषैर्विमुक्ताः कर्मबंधनात् ॥४॥
चंपके नगरे चैव राजा राज्यं करोति सः
सदा दुष्टो दुष्टरूपो जनानां स प्रपीडकः ॥५॥
अधर्मो धर्मरूपश्च विष्णुनिंदापरायणः
देव द्विज निहंता च आश्रमाणां विदूषकः ॥६॥
वेदनिंदापरः श्रीमान्मूर्खो वा निर्घृणः शठः
असच्छास्त्रेषु निरतः परदाराभिमर्शकः ॥७॥
विदारुणेति नामा च संजातो मूर्ख एव च
कदाचिद्दैवयोगेन आगतस्तां नदीं प्रति ॥८॥
आखेटकसमायुक्तः स्वयं कुष्ठी सुरेश्वरि
महापापादयं जातो ब्राह्मणानां च निंदनात् ॥९॥
वृथावादी दुरात्मा च शठो वै निर्घृणः पशुः
वेदनिंदारतो नित्यं गोशास्त्राणां प्रदूषकः ॥१०॥
एवंविधो वने भ्राम्यंस्तृषार्तः स सुहृद्वृतः
अश्वादुत्तीर्य राजाऽसौ जलं पीत्वा गृहं गतः ॥११॥
तेनैवोदकपानेन गतं कुष्ठं न संशयः
बुद्धिस्तु निर्मला जाता तस्य राज्ञो विशेषतः ॥१२॥
विष्णौ भक्तिः समुत्पन्ना तदा तस्य सुरेश्वरि
ततः प्रभृति कालेन स्नानं वै कृतवान्सदा ॥१३॥
निर्मलो बहुरूपाढ्यो जातस्तत्र सुरेश्वरि
इहलोके सुखं भुक्त्वा कृत्वा यज्ञाननेकशः ॥१४॥
विप्रेभ्यो दक्षिणां दत्वा स गतो वैष्णवं पदम्
इति ज्ञात्वा तु भो देवि वेत्रवत्यां विशेषतः ॥१५॥
स्नानं कुर्वंति ये विप्रास्ते मुक्ता नगनंदिनि
राजन्यो वाथ वैश्यो वा शूद्रो वा सुरसत्तमे ॥१६॥
यत्र स्नानं प्रकुर्वंति ते मुक्ताः पापबंधनात्
कार्तिके वाऽथ माघे वा बाह्यो वा वेदनिंदकः ॥१७॥
सरितां संगमे स्नात्वा मुच्यते देवि किल्बिषात्
साभ्रमत्याः समं यत्र तस्याः संगः प्रदृश्यते ॥१८॥
तत्र स्नात्वा विशेषेण मुच्यते ब्रह्महा सदा
खेटकं नगरं दिव्यं स्वर्गरूपं तु वाऽनघे ॥१९॥
ब्रह्मणा तत्र वै देवि योगाश्च बहवः कृताः
तत्र स्नात्वा च भुक्त्वा च पुनर्जन्म न विद्यते ॥२०॥
सा द्वितीया स्मृता गंगा कलौ देवि विशेषतः
ये नराः सुखमिच्छंति धनमिच्छंति ये नराः ॥२१॥
स्वर्गमिच्छंति ये लोकास्ते वै स्नात्वा पुनःपुनः
इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् ॥२२॥
सूर्यवंशे च ये जाताः सोमवंशे तथैव च
आगता वेत्रवत्यां तु स्नात्वा निर्वृतिमागताः ॥२३॥
दर्शनाद्धरते दुःखं स्पर्शनान्मानसं ह्यघम्
स्नात्वा भुक्त्वा तथा देवि मुक्तिभागी न संशयः ॥२४॥
स्नानाज्जपात्तथाहोमादनंतं फलमश्नुते
गत्वा वाराणसीतीर्थं भक्त्या चांद्रायणं चरेत् ॥२५॥
तत्र गत्वा महत्पुण्यं तत्पुण्यं सुरसत्तमे
वेत्रवत्यां विशेषेण पंचत्वं यदि गच्छति ॥२६॥
स वै चतुर्भुजो भूत्वा याति विष्णोः परं पदम्
पृथिव्यां यानि तीर्थानि ये देवाः पितरस्तथा ॥२७॥
ते सर्वे च वसंतीह वेत्रवत्यां सुरेश्वरि
किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ॥२८॥
वेत्रवत्याः समं तीर्थं पृथिव्यां न सनातनि
अहं विष्णुस्तथा ब्रह्मा देवाश्च परमर्षयः ॥२९॥
तिष्ठंति देवताः सर्वे वेत्रवत्यां महेश्वरि
एककालं द्विकालं वा त्रिकालं च विशेषतः ॥३०॥
स्नानं कुर्वंति ये तत्र ते वै मुक्ता न संशयः ॥३१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे वेत्रवती माहात्म्ये चतुस्त्रिंशाधिकशततमोऽध्यायः ॥१३४॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP