संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १७६

उत्तरखण्डः - अध्यायः १७६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीभगवानुवाच
आदिमस्यैवमाख्यानमुदीरितमनुत्तमम्
शृणु माहात्म्यमन्येषामध्यायानामपींदिरे ॥१॥
दक्षिणस्यां दिशि श्रीमानासीदाम्नायवादिनाम्
पुरे पुरंदराह्वाने देवशर्मेति विश्रुतः ॥२॥
अर्चितातिथिराम्नातो वेदशास्त्रविशारदः
आहर्ता क्रतुसंघानां तापसानां प्रियः सदा ॥३॥
देवान्संतर्पयामास हव्यैर्हुतवहं चिरम्
न चोपलेभे धर्मात्मा शांतिमेकांतिकीं ततः ॥४॥
निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम्
सिषेवे सत्यसंकल्पाननल्पैरेव कल्पकैः ॥५॥
एवमाचरतस्तस्य काले महति गच्छति
मुक्तकर्मा ततः कश्चित्प्रादुरासीत्पुरा भुवि ॥६॥
अनुभूतनिराकांक्षी नासाग्रन्यस्तलोचनः
शांतचेताः परं ब्रह्म ध्यायन्नानंदनिर्भरः ॥७॥
पादौ तस्योपसंगृह्य प्रणतेनांतरात्मना
चकार विधिवत्तस्मै विद्वानतिथिसत्क्रियाम् ॥८॥
तं च शुद्धेन भावेन परितुष्टं तपस्विनम्
प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः ॥९॥
स तस्मै कथयामास पुरेऽसौ पुरनामनि
मित्रवंतमजापालमुपदेष्टारमात्मवित् ॥१०॥
स चाभिवंद्य तत्पादावेत्यसौ पुरमूर्जितम्
तस्योत्तरदिशोभागे ददर्श विपुलं वनम् ॥११॥
मारुतांदोलितानेक कुसुमामोदसुंदरम्
उन्मत्तभ्रमरोद्गीत नादापूरितदिङ्मुखम् ॥१२॥
तस्मिन्वने सरित्तीरे निषीदंतं शिलातले
मित्रवंतं ददर्शाथ सानंदस्तिमितेक्षणम् ॥१३॥
अपि स्वाभाविकं वैरं हित्वान्योन्यं विरोधिभिः
सत्वैरावृतमुद्याने मंदस्यंदनभास्वति ॥१४॥
शांतेषु मृगयूथेषु दशानंदमनोज्ञया
कृपानुविद्धया भूमिं निषिंचंतमिवामृतम् ॥१५॥
उपेत्य विनयेनामुमुन्मनाः प्रीतमानसः
किंचिदानम्रशिरसा तेनापि स तु सत्कृतः ॥१६॥
उपतस्थे ततो विद्वान्मित्रवंतमनन्यधीः
समाप्तध्यानकालं स पर्यपृच्छत्समाहितः ॥१७॥
देवशर्मोवाच
आत्मानं वेत्तुमिच्छामि तदमुष्मिन्मनोरथे
लब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि ॥१८॥
श्रीभगवानुवाच
परामृश्य क्षणं सोऽपि मित्रवानिदमब्रवीत्
मित्रवानुवाच
विद्वन्विद्धि पुरावृत्तमुच्यमानमिदं मया ॥१९॥
अस्ति गोदावरीतीरे प्रतिष्ठानाभिधं पुरम्
तत्र दुर्दमनामासीदन्वये च मनीषिणाम् ॥२०॥
तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिः
दानानि प्रत्यहं गृह्णन्वर्त्तते उदरंभरः ॥२१॥
कालेन कालपाशेन बद्धानीतो यमालयम्
निरयेषु समग्रेषु यातना अनुभूय च ॥२२॥
कस्मिंश्चित्स कुले जातो दुर्वृत्तानां द्विजन्मनाम्
भवांतरानुवर्तिन्या विद्यया स पुरस्कृतः ॥२३॥
उपयेमे दुराधर्षां कन्यकामधमे कुले
कालेन सा वयो हित्वा शैशवं यौवनं ययौ ॥२४॥
पीनस्तनी च सुश्रोणी मदविह्वललोचना
पतिं न सेहे दुर्वृत्तं चकमे स्वपतीन्परान् ॥२५॥
वृत्तिमाहर्तुकामस्मिन्निर्गता सा पुराद्बहिः
संगता कामुकेनासौ चिरं चांडालजन्मना ॥२६॥
दधे गर्भमसौ तस्मात्सा च कन्योपपद्यते
सैव भार्यापि तस्यासीत्पूर्वपापप्रसंगतः ॥२७॥
सैव वृद्धा ततः काले डाकिनी समजायत
कुसंगात्कुमतिर्जाता दुष्टनारीप्रसंगतः ॥२८॥
चखाद व्याधितं व्याधमसृगास्वादलालसा
भ्रमंती विपिने घोरे जनैर्दृष्ट्वा बहिष्कृता ॥२९॥
परेतलोकमासाद्य व्याधौ व्याघ्रोऽभ्यवर्त्तत
नरकान्दारुणान्भुक्त्वा जीवहिंसा प्रभावतः ॥३०॥
सापि कालेन दुष्टात्मा मृत्युवेगमुपागता
निरयानेत्य दुर्द्धर्षानजाजायत मद्गृहे ॥३१॥
तामन्या अप्यहं विद्वन्पालयन्काननांतरे
अपश्यन्द्वीपिनं घोरं जिघांसंतमिवाखिलम् ॥३२॥
समालोक्य तमायांतं भयेन प्रपलायितम्
अजायूथं परित्यज्य मया मरणभीरुणा ॥३३॥
उपदुद्राव स द्वीपी पूर्ववैरमनुस्मरन्
अजा तु तत्समीपेऽगात्सत्वरं सरिदंतिके ॥३४॥
तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गला
अवतस्थे स च द्वीपी तूष्णीमासीदमत्सरः ॥३५॥
तं तथाविधमालोक्य सा वक्तुमुपचक्रमे
द्वीपिन्नभीप्सितं भुंक्ष्व मांसमुद्धृत्य सादरः ॥३६॥
नेयं भवति ते बुद्धिः कथं वैरमतिं त्यजः
इत्याकर्ण्य तदा वाक्यं प्राह द्वीपी विमत्सरः ॥३७॥
स्थानेऽस्मिन्मे गतो द्वेषः क्षुत्पिपासा च निर्ययौ
न प्रार्थयामि तेन त्वां समीपे समुपस्थिताम् ॥३८॥
सैवमुक्ता पुनः प्राह जाताहं निर्भया कथम्
किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि ॥३९॥
एवमुक्तः पुनर्द्वीपी तामाहाजां न वेद्म्यहम्
पुरोगतमिमं प्रष्टुं महांतमिति निर्गतौ ॥४०॥
ताभ्यामुभाभ्यामागत्य पृष्टोऽहं बहुविस्मयः
अहं च सहितस्ताभ्यामपृच्छं वानरेश्वरम् ॥४१॥
मया पृष्टः स विप्रेदमब्रवीत्सादरं कपिः
शृणु वक्ष्याम्यजापाल वृत्तमत्र पुरातनम् ॥४२॥
इदमायतनं पश्य पुरोवनगतं महत्
अत्र त्र्यंबकलिंगं हि द्रुहिणेन प्रतिष्ठितम् ॥४३॥
सुकर्मानाम मेधावी पर्युपास्ते तपश्चरन्
वनपुष्पाण्यपाहृत्य सुरपूज्यं पुरोभवम् ॥४४॥
संस्नाप्य सरिदंभोभिः केवलं कर्मणा वसन्
काले महति तस्यागादतिथिः कश्चिदंतिकम् ॥४५॥
उपाहृत्य फलाहारं स तस्मै पर्यकल्पयत्
तेनातिथ्येन संप्रीतः सुकर्माणमभाषत ॥४६॥
किमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसि
गतानुगतया वृत्त्या किं वा केवलमीहसे ॥४७॥
स एवमुक्तः प्रायेण प्रीतेनात्मविदा तदा
प्रत्युवाच वचः स्पष्टमात्मनो हितमुत्तमम् ॥४८॥
विद्वन्न वेद्मि तत्वेन फलमेतस्य कर्मणः
बुभुत्सया परः शंभुः सेव्यते केवलं यया ॥४९॥
फलमेतस्य सेवायाः परिपाकं कपर्दिनः
यन्मांसमनुगृह्णासि संस्पृश्यात्ममनोरथम् ॥५०॥
तस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनः
द्वितीयमालिलेखाऽसौ गीताध्यायं शिलातले ॥५१॥
आदिदेशाशु तं विप्रं पठनाभ्यसनाय च
फलिष्यत्यात्मनः स्वैरं परितस्ते मनोरथः ॥५२॥
इत्युक्त्वांतर्दधे धीमान्पुरतस्तस्य पश्यतः
विस्मितस्तस्य चादेशात्सोऽन्वतिष्ठदनारतम् ॥५३॥
ततः कालेन महता भावितात्मा प्रसन्नधीः
यत्रयत्र चचारासौ शांतं तत्तत्तपोवनम् ॥५४॥
न द्वंद्वबाधा नैव क्षुत्पिपासा न च वा भयम्
तपसा तस्य जानीहि द्वितीयाध्यायजापिनः ॥५५॥
मित्रवानुवाच
एवमुक्तश्च तेनाऽहं ख्यापयित्वा परां कथाम्
अनुज्ञातप्रसंनेन च्छागीव्याघ्रयुतोगमम् ॥५६॥
गत्वा शिलातले पश्यमध्यायं लिखितं पठेत्
तस्यैवावर्त्तनादाप्तं तपसः पारमुत्तमम् ॥५७॥
तेन त्वमपि कल्याण नित्यमाहर्तुमर्हसि
अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति ॥५८॥
देवशर्मा समादिष्टस्तेन मित्रवता स्वयम्
अभ्यर्च्य प्रणतो भूत्वा पुरंदरपुरं ययौ ॥५९॥
तत्रात्मविदमासाद्य देवतायतने क्वचित्
वृत्तमेतन्निवेद्यादावध्यायमपठत्ततः ॥६०॥
शिक्षितस्तेन पूतात्मा पठन्नध्यायमादरात्
द्वितीयमाससादोच्चैर्निरवद्यं परं पदम् ॥६१॥
द्वितीयस्येदमाख्यानं कथितं शृणु सांप्रतम्
तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेंदिरे ॥६२॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता
माहात्म्ये सतीश्वरसंवादे षट्सप्तत्यधिकशततमोऽध्यायः ॥१७६॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP