उत्तरखण्डः - अध्यायः ८३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
पार्वत्युवाच-
सर्वेषां चैव मासानां विधिं ब्रूहि महेश्वर
महोत्सवः प्रकर्त्तव्यः को विधिस्तत्र संमतः ॥१॥
को देवः पूजनं कस्य महिमा कीदृशो भवेत्
कस्यां तिथौ प्रकर्त्तव्यं तन्मे वद सुरेश्वर ॥२॥
मासं प्रति किमुक्तं च वैष्णवान्पुण्यकर्मणः
धन्याहं कृतकृत्याहं सुभगाहं धरातले
विष्णोः कथां शृणोमीति दर्शनात्स्पर्शनात्तव ॥३॥
शिव उवाच-
उत्सवानां विधिं ब्रूमो मासं प्रति तवानघे
यानाकर्ण्य पुनर्देवि गीतवादित्र हर्षिता ॥४॥
तत्रादौ च सिते पक्षे चैत्रमासे सुशोभने
एकादश्यां विशेषेण दोलारूढं प्रपूजयेत् ॥५॥
कुर्याद्भक्त्या सदा देवि उत्सवं विधिपूर्वकम्
दोलारूढं प्रपश्यंति कृष्णं कलिमलापहम् ॥६॥
अपराधसहस्रैस्तु मुक्तास्ते नगनंदिनि
तावत्तिष्ठंति पापानि कोटिजन्मकृतान्यपि ॥७॥
यावन्नांदोलयेद्देवं विश्वेशं विश्वनायकम्
कलौ वै ये प्रपश्यंति दोलारूढं जनार्दनम् ॥८॥
गोघ्नादिकाः प्रमुच्यंते का कथा इतरेष्वपि
दोलोत्सवे प्रहृष्टास्तु रुद्रेण सहिताः सुराः ॥९॥
कुर्वंति प्रांगणे नृत्यं गीतवाद्यं च हर्षिताः
ऋषयो गणगंधर्वा रंभाद्यप्सरसां गणाः ॥१०॥
वासुकिप्रमुखा नागास्तथा देवाः सुरेश्वराः
दोलायां च समायांति विष्णुदर्शनलालसाः ॥११॥
दोलायात्रानिमित्तं तु दोलाह्ने मधुमाधवे
भूतानि संति भूपृष्ठे ये केचिद्देवयोनयः ॥१२॥
समायांति महादेवि कृष्णे दोलास्थिते ध्रुवम्
विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् ॥१३॥
तस्मात्कार्यशतं त्यक्त्वा दोलाह्ने उत्सवं कुरु
प्रह्लादस्तु समायाति विष्णुर्दोलाधिरोहणम् ॥१४॥
कुरुते च महादेवि वरदं तमनुस्मरन्
दोलास्थितस्य कृष्णस्य ये कुर्वंति प्रजागरम् ॥१५॥
सर्वपुण्यफलप्राप्तिर्निमेषैकेन जायते
दोलायां संस्थितं विष्णुं पश्यंति मधुमाधवे ॥१६॥
क्रीडंति विष्णुना सार्द्धं देवदेवेन वंदिताः
दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरि ॥१७॥
सकृद्दृष्ट्वा तु गोविंदं मुच्यते ब्रह्महत्यया
ॐ दोलारूढाय विद्महे माधवाय च धीमहि
तन्नो देवः प्रचोदयात् ॥१८॥
इदं गायत्र्या पूजनम्
माधवाय गोविंदाय श्रीकंठाय नमोनमः
पूजनं मंत्रपूर्वं च कर्तव्यं विधिपूर्वकम् ॥१९॥
गुरवे दक्षिणां दद्याद्यथाशक्त्या समाहितः
गायन्विष्णोः सदा भक्त्या परिपूर्णं ततो भवेत् ॥२०॥
किमन्यद्बहुनोक्तेन भूयो भूयो वरानने
दोलायां संस्थितो विष्णुः सर्वपापापहारकः ॥२१॥
पूजितो यैर्नरैः सम्यक्सदा सर्वं ददाति च
यत्र देवाः सगंधर्वाः किन्नरा ऋषयस्तथा ॥२२॥
आयांति बहुधा तत्र दोलारूढे न संशयः ॥२३॥
ॐ नमो भगवते वासुदेवायेति मंत्रेण पूजनं तत्र कारयेत्
षोडशोपचारैः पूजा च कर्तव्या विधिपूर्वकम्
धर्मार्थमुख्या ये कामास्ते सर्वे प्राप्नुयुर्ध्रुवम् ॥२४॥
अंगन्यासं करन्यासं न्यासं शारीरकं च यत्
तत्सर्वं तु प्रकर्त्तव्यं मंत्रेणानेन सुव्रत ॥२५॥
आगमोक्तेन मंत्रेण कर्त्तव्यो हि महोत्सवः
श्रीलक्ष्म्यासहितं देवं दोलायां च प्रकल्पयेत् ॥२६
देवाग्रे वैष्णवाः स्थाप्या नारदाद्याः सुरर्षयः
विष्वक्सेनादिका भक्ता स्थाप्यास्ते ह्यग्रतः सदा ॥२७
पंचवादित्रनिर्घोषैः कुर्यादारार्तिकं बुधः
यामे यामे तथा देवि पूजनीयः प्रयत्नतः ॥२८
नालिकेरैस्तथा शुभ्रैः कदलैर्वा तथा पुनः
अर्घं दद्यात्ततो देवि पूजनीयः प्रयत्नतः ॥२९॥
देवदेव जगन्नाथ शंखचक्रगदाधर
अर्घं गृहाण मे देव कृपां कुरु ममोपरि ॥३०॥
तच्छेषं वैष्णवानां तु दद्यात्प्राच्छादिकं पुनः
वादनं नर्त्तनं तत्र कर्त्तव्यं वैष्णवैर्नरैः ॥३१॥
आंदोलनं ततः सर्वैः कर्त्तव्यं च विशेषतः
पृथिव्यां यानि तीर्थानि क्षेत्राणि च सुरेश्वरि ॥३२॥
सर्वान्येतानि वै तत्र द्रष्टुमायांति तद्दिने
एवं ज्ञात्वा सदा देवि कर्त्तव्यः सोत्सवो महान् ॥३३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा याश्चान्यजातयः
शंखचक्रगदाधारा ज्ञातव्या नगनंदिनि ॥३४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर-संवादे दोलामहोत्सवोनाम त्र्यशीतितमोऽध्यायः ॥८३॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP