संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १३१

उत्तरखण्डः - अध्यायः १३१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पार्वत्युवाच
शालग्रामशिला शुद्धा मूर्त्तयः संति भूतले
तासां चैव तु मूर्तीनां पूजनं कतिधा स्मृतम् ॥१॥
ब्राह्मणैः कति पूज्यास्ताः क्षत्रियैर्वा सुरेश्वर
वैश्यैर्वापि कथं शूद्रैः स्त्रीभिर्वापि समादिश ॥२॥
महादेव उवाच
शालग्रामशिला पुण्या पवित्रा धर्मकारिणी
यस्या दर्शनमात्रेण ब्रह्महा शुध्यते नरः ॥३॥
तद्गृहं सर्वतीर्थानां प्रवरं श्रुतिनोदितम्
यत्रेयं सर्वदा मूर्तिः शालग्रामशिला शुभा ॥४॥
ब्राह्मणैः पंचपूज्या स्युश्चतस्रः क्षत्रियैस्तथा
वैश्यैस्तिस्रस्तथापूज्याएकापूज्याप्रयत्नतः ॥५॥
तस्यादर्शनमात्रेणशूद्रो मुक्तिमवाप्नुयात्
अनेन विधिना देवि ये नराः पूजयंति वै ॥६॥
भोगान्सर्वांस्तत्र भुक्त्वा यांति विष्णोः सनातनम्
इयं सा महती मूर्तिः सर्वदा पापहारिणी ॥७॥
कैलासाद्यं फलं देवि जायते पूजनाद्यतः
तत्र गंगा च यमुना गोदावरी सरस्वती ॥८॥
तिष्ठते च शिला यत्र सर्वं तत्र न संशयः
किमत्र बहुनोक्तेन भूयोभूयो वरानने ॥९॥
पूजनं मनुजैः सम्यक्कर्त्तव्यं मुक्तिमिच्छुभिः
भक्तिभावेन देवेशि येऽर्चयंति जनार्दनम् ॥१०॥
तेषां दर्शनमात्रेण ब्रह्महा शुध्यते जनः
दासभावेन ये शूद्राः स्वर्चनं कुर्वते सदा ॥११॥
तेषां पुण्यं न जानंति ब्रह्माद्याश्च सुरेश्वरि
भक्तिभावेन ये विप्रा हरिमभ्यर्चयंति वै ॥१२॥
एकविंशतिकुलं तैस्तु तारितं तेषु जन्मसु
शंखचक्रांकितो यस्तु विप्रः पूजनमाचरेत् ॥१३॥
पूजितं तु जगत्सर्वं तेन विष्णुप्रपूजनात्
पितरः संवदंत्यस्मत्कुले जाताश्च वैष्णवाः ॥१४॥
तत्कुलं तारितं तैस्तु यावदाभूतसंप्लवम्
ते तु चास्मान्समुद्धृत्य नयंते विष्णुमंदिरम् ॥१५॥
स एव दिवसो धन्यो धन्या माताऽथ बांधवाः
पिता तस्य च वै धन्यो धन्या वै सुहृदस्तथा ॥१६॥
सर्वे धन्यतमा ज्ञेया विष्णुभक्तिपरायणाः
तेषां दर्शनमात्रेण महापापात्प्रमुच्यते ॥१७॥
उपपातकानि सर्वाणि महांति पातकानि च
तानि सर्वाणि नश्यंति वैष्णवानां च दर्शनात् ॥१८॥
पावका इव दीप्यंते ये नरा वैष्णवा भुवि
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः ॥१९॥
आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम्
तत्सर्वं नाशमायाति वैष्णवानां च दर्शनात् ॥२०॥
हिंसादिकं च यत्पापं ज्ञानाज्ञानं कृतं च यत्
तत्सर्वं नाशमायाति दर्शनाद्वैष्णवस्य च ॥२१॥
निःपापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धिताम्
दर्शनादेव साधूनां सत्यं तुभ्यं मयोदितम् ॥२२॥
संसारकर्दमालेपप्रक्षालनविशारदः
पावनः पावनानां च विष्णुभक्तो न संशयः ॥२३॥
प्रत्यहं विष्णुभक्ता ये स्मरंति मधुसूदनम्
ते तु विष्णुमया ज्ञेया विष्णुस्तत्र न संशयः ॥२४॥
नवनीलघनश्यामं नलिनायतलोचनम्
शंखचक्रगदापद्मधरं पीतांबरावृतम् ॥२५॥
कौस्तुभेन विराजंतं वनमालाधरं हरिम्
उल्लसत्कुंडलज्योतिः कपोलवदनश्रिया ॥२६॥
विराजितं किरीटेन वलयांगदनूपुरैः
प्रसन्नवदनांभोजं चतुर्बाहुं श्रियान्वितम् ॥२७॥
एवं ध्यायंति ये विप्रा विष्णुं चैव तु पार्वति
ते विप्रा विष्णुरूपाश्च वैष्णवास्ते न संशयः ॥२८॥
तेषां दर्शनमात्रेण भक्त्या वा भोजनेन वा
पूजनेन च देवेशि वैकुंठं लभते ध्रुवम् ॥२९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे शालग्रामशिलापूजनमाहात्म्यंनामैकत्रिंशाधिकशततमोऽध्यायः ॥१३१॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP