उत्तरखण्डः - अध्यायः १४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
युधिष्ठिर उवाच-
इति मायामहेशेन मोहिता गिरिजा यदा
अतः किं समभूद्ब्रह्मन्तन्ममाख्यातुमर्हसि ॥१॥
नारद उवाच-
क्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेः
अकस्मादेव राजेंद्र नयनेऽश्रुपरिप्लुते ॥२॥
दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततः
उत्थाय शेषपर्यंकान्मां च वायुं विलोक्य च ॥३॥
किं कार्यमिति गोविंदस्तन्नागारिमथास्मरत्
स चाग्रे स्मृतिमात्रेण तस्थौ बद्धांजलिः प्रभो ॥४॥
विनतानंदनं दृष्ट्वा पुरतः प्राह केशवः
सुपर्ण तत्र गच्छ त्वं यत्र युद्धं प्रवर्तते ॥५॥
हतो जालंधरो वीरो हरो वा तेन मोहितः
दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम् ॥६॥
जालंधरेशयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हि
कोऽन्यो महाहवे तस्मिन्ज्ञात्वा याति शरीरवान् ॥७॥
कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिः
अथ त्वं बाणसंचारं गत्वापि हितविग्रहः ॥८॥
संदृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसि
दैत्यमायानिरासार्थं विचिंत्य भगवांस्त्वरन् ॥९॥
गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिः
अनया न भ्रमो वीर तथेत्युक्त्वा मुखेक्षिपत् ॥१०॥
एवं संप्रेरितः पत्री हरिं कृत्वा प्रदक्षिणम्
निश्चक्राम खमाविश्य जगामाद्भुतवेगवान् ॥११॥
तत्र गत्वा रणं घोरं दैत्यसंघैः स दुःसहम्
दृष्टवानखिलेनासौ न किंचिज्ज्ञातवान्किल ॥१२॥
तस्मादुत्पत्य वेगेन गतोऽसौ मानसोत्तरम्
शैलं तुंगतरं दुर्गमगम्यं मरुतामपि ॥१३॥
विलोकयन्न ददृशे गौरीस्थानं पतंगराट्
तत्रागत्य भुजंगारिर्ध्वनिं संश्रुतवान्किल ॥१४॥
गत्वा समीपे ददृशे मायापशुपतिं ततः
गरुडो गुटिकां क्षिप्य मुखेन भ्रममाप सः ॥१५॥
ज्ञात्वा बुद्ध्वाथ दैत्योऽयमिति नायं वृषध्वजः
हा कष्टमिति चोक्त्वा च रुदन्नागत्य चार्णवम् ॥१६॥
कथयामास वृत्तांतं पुरतः कैटभद्विषः
देव जालंधरेणायं हरो देवो विडंबितः ॥१७॥
उमा प्रतारिता तेन पापेन छद्मरूपिणा
सुरस्त्वं यदि गोविंद समरं प्रतियाह्यतः ॥१८॥
मायायुद्धं तु देवेश कुरु जालंधरं प्रति
तस्य राज्ञी मया दृष्टा पीठे जालंधरे शुभे ॥१९॥
प्रासादभूम्यां क्रीडंती वाद्यगीतादिवर्त्तनैः
सा सुंदरतरा गौर्या रंभोर्वश्योः शतादपि ॥२०॥
नेदानीं मानुषे लोके न पातालेषु तत्समा
भार्या तेन समा वेश्या नारीणां का कथा हरे ॥२१॥
यस्तां स्पृशति देहेन सकृतार्थः पुमान्भवेत्
तव श्यालकपत्नी च हर त्वं तां रम प्रियाम्
शंकरस्योपकारं च कुरु चैवात्मनः सुखम् ॥२२॥
नारद उवाच-
श्रुत्वा तार्क्ष्यस्य वचनं तं निर्भर्त्स्य रमाप्रियः
सम्यग्व्यवस्य चोपायं विससर्ज द्रुतं द्विजम् ॥२३॥
श्रियंपतार्य्य संछाद्य मंचके पीतवाससा
निर्गतोऽन्येन रूपेण योगि मायाबलेन च ॥२४॥
वृंदारिकानुरागेण मोहितो मधुसूदनः
दृष्ट्वा हरिं तु गच्छंतं प्रतिछन्नं युधिष्ठिर ॥२५॥
शेषोप्यन्यतमेनासौ रूपेणागत्य केशवम्
जगाद भक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि ॥२६॥
किं करोमि क्व गच्छामि ब्रूहि कार्यं जनार्दन
सदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत्सुखम् ॥२७॥
श्रीभगवानुवाच-
जालंधरस्त्रियं रम्यां हरिष्ये हरकारणात्
पार्वत्याश्चोपकाराय संछाद्य स्वात्मनस्तनुम् ॥२८॥
एहि यामो वयं बंधो कांतारं दुरतिक्रमम्
वृंदाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ ॥२९॥
ततो विष्णुश्च शेषश्च जटावल्कलधारिणौ
आश्रमं चक्रतुः पुण्यं सर्वकामफलप्रदम् ॥३०॥
तयोः शिष्याः प्रशिष्याश्च बभूवुः कामरूपिणः
सिंहव्याघ्रवराहाश्च ऋक्षवानरमर्कटाः ॥३१॥
अथ तस्मिन्वने वृंदां मंत्रेणाकर्षयद्धरिः
तस्या हृदयसंतापं चकार मधुसूदनः ॥३२॥
एतस्मिन्नंतरे राज्ञी तापमुग्रमुपागता
चामरांश्चालयामास दिव्यस्त्रीकरचालितान् ॥३३॥
प्रियस्यागमनं तन्वीं चिंतयंती मुहुर्मुहुः
चंदनागुरुलिप्तांगी मूर्च्छां याति हि सत्वरम् ॥३४॥
तुर्ययामे विभावर्याश्चतुर्दश्यां नृपांगना
स्वप्नं ददर्श भयदं वैधव्यभयसूचकम् ॥३५॥
जालंधरशिरः शुष्कं मर्दितं पांडुभस्मना
गृध्रेण कृष्टनयनं छिन्नकर्णाग्रनासिकम् ॥३६॥
मुक्तकेशी करालास्या कृष्णवर्णारुणांबरा
चखाद काली रक्तास्या हस्ते विधृतखर्परा ॥३७॥
ईदृशं ददृशे स्वप्नं तथात्मानं विडंबितम्
दैत्यक्षयगुणोपेतं सा ददर्श नृपांगना ॥३८॥
ततः प्रबुद्धाऽसुरराजपत्नी गीतेन वाद्येन च मागधानाम्
गेयप्रबंधैः स्तवनैर्व चोभिर्वं शस्तवैः किंपुरुषप्रपाठितैः ॥३९॥
ततस्तान्सकलान्श्रांतान्धनं दत्वा प्रसादजम्
निवार्य विप्रानाहूय स्वप्नं दृष्टं न्यवेदयत्
तं स्वप्नं ब्राह्मणाः श्रुत्वा तामूचुः शास्त्रपारगाः ॥४०॥
द्विजा ऊचुः -
देवि दुःस्वप्नमत्युग्रमचिंत्यं भयदायकम्
देहि दानं द्विजातिभ्यो ह्यचिंत्य भयनाशकम् ॥४१॥
धेनुर्वासांसि रत्नानि गजांश्चाभरणानि च
ब्राह्मणाः परिसंतुष्टाः सिषिचुस्तां नृपस्त्रियम् ॥४२॥
अभिषिक्तापि सा वृंदा ज्वरेण परितप्यते
विसृज्य विप्रप्रवरान्प्रासादमगमत्तदा ॥४३॥
तत्र स्थितापि स्वपुरं ददृशे दीप्तमंगला
ततः स्वकर्मणा राजन्नाकृष्टा हरिणा तु सा ॥४४॥
न शशाक गृहे स्थातुं ततो राज्ञी वनं ययौ
रथमश्वतरीयुक्तं स्मरदूतीसखीवहम् ॥४५॥
समारुह्य क्षणात्तन्वी प्राप्ता सौभाग्यकाननम्
नानावृक्षसमायुक्तं नानापक्षिगणान्वितम् ॥४६॥
पुष्पप्रस्रवणोपेतं स्वर्गनारीविभूषितम्
मंदानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचित् ॥४७॥
वनं वृंदारिका दृष्ट्वा सस्मार पतिमात्मनः
कथं जालंधरं वीरं द्रक्ष्यामि प्राप्तमग्रतः ॥४८॥
सा तत्र न सुखं लेभे विवेशान्यतमं वनम्
सखीरथसमायुक्ता विष्णुमायाविमोहिता ॥४९॥
ततो विलोकयामास विपिनं तरुसंकुलम्
उरुपाषाणसंरुद्धं कुरंगाक्षी भयावहम् ॥५०॥
सिंहव्याघ्रभयाकीर्णंशृगालव्यालसेवितम्
द्रुमैः स्पृशच्छिखाकाशैर्गुहासु ध्वांतपूरितम् ॥५१॥
वनं विलोक्य सा भीमं चकिता चपलेक्षणा
स्मरदूतीं सखीं वृंदा जगाद रथवाहिनीम्
रथं प्रेषय मे शीघ्रं स्मरदूति गृहं प्रति ॥५२॥
स्मरदूतिरुवाच-
नाहं जानामि दिग्भागं न यामि क्व रथं सखि
श्रांता अश्व्यः प्रवर्तंते मार्गश्चात्र न विद्यते ॥५३॥
प्रेरितो दैवकेनापि स्यंदनो यातु यत्र च
अत्र कोपि च मांसादो भक्षयिष्यति नान्यथा ॥५४॥
इत्युक्ता सा द्रुततरा रथं शीघ्रमवाहयत्
स रथो वेगतः प्राप्तो यत्र सिद्धा मुदान्विताः ॥५५॥
तत्र सिद्धाश्च दृश्यंते काननं च भयावहम्
न यत्र प्रबलो वायुर्न शब्दः पक्षिणामपि ॥५६॥
न च तेजः प्रकाशोऽस्ति न जलं प्रदिशो दिशः
तत्र प्राप्तरथस्यापि लक्षणेऽभूद्विपर्ययः ॥५७॥
अश्वतर्यो न हेषंते न च शब्दश्च नेमिजः
न चलंति पताकास्ता घंटिका न क्वणंति च ॥५८॥
न स्वनंति महाघंटा ध्वजस्तंभे निवेशिताः
विलोक्यैवंविधं प्राह तत्र वृंदा सखीं प्रति ॥५९॥
स्मरदूति क्व यास्यामो व्याघ्रसिंहभयं वनम्
न गृहे न सुखं राज्ये मम जातं वने सखि ॥६०॥
स्मरदूतिरुवाच-
शृणुष्व देवि पश्य त्वं पुरः शैलोऽतिदारुणः
दृष्ट्वाग्रतो न गच्छंति तुरंग्यो भयविह्वलाः ॥६१॥
तस्यास्तद्वचनं श्रुत्वा संत्रस्ता सा नृपांगना
दृष्ट्वा हारं स्वकंठस्थं स्यंदनाच्छीघ्रमुत्थिता ॥६२॥
एतस्मिन्नंतरे प्राप्तो राक्षसो भीषणाकृतिः
त्रिपादः पंचहस्तश्च सप्तनेत्रोऽतिदारुणः ॥६३॥
पिंगलो व्याघ्रकर्णश्च सिंहस्कंधस्तथाननः
विहंगेशसमाः केशा लंबंते रुधिरारुणाः ॥६४॥
तं दृष्ट्वा पद्मकोशांगी सहसा सभयाभवत्
नेत्रे कराभ्यामाच्छाद्य चकंपे कदलीव सा ॥६५॥
प्रतिहारी प्रतोदं तु त्यक्त्वा राज्ञीमभाषत
भीतां मां त्राहि देवि त्वमयं धावति भक्षितुम् ॥६६॥
एतस्मिन्नंतरे प्राप्तो राक्षसो रथसंनिधौ
रथमुत्क्षिप्य हस्तेन भ्रामयंश्चाश्विनीयुतम् ॥६७॥
सा राज्ञी पतिता भूमौ मृगी व्याघ्रभयादिव
स्मरदूती तरोर्मूले छिन्नाशोकलता यथा ॥६८॥
ततस्ताश्चाश्विनीः सर्वाः भक्षयामास राक्षसः
तेन राज्ञी धृता हस्ते सिंहेनैणवधूरिव ॥६९॥
तामुवाच ततो रक्षः प्राणैस्ते कारणं यदि
तव भर्ता हतः संख्ये हरेणेति श्रुतं मया ॥७०॥
मामासाद्याद्य भर्तारं चिरंजीवाकुतोभया
पिबाथ वारुणीं स्वाद्वीं महामांससमन्विताम्
शृण्वंतीति वचो राज्ञी गतसत्वा इवाभवत् ॥७१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे
जालंधरोपाख्याने श्रीमन्माधवमायाकथनंनाम चतुर्दशोऽध्यायः ॥१४॥
N/A
References : N/A
Last Updated : November 15, 2020
TOP